भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.29

1.29.1

सौतिरुवाच ॥
ददर्शाश्रममाश्चर्य्यं देवर्षिर्नारदस्तथा ॥
ऋषिर्नारायणस्यैव बदरीवनसंयुतम्

1.29.2

नानावृक्षफलाकीर्णं पुंस्कोकिलरुतश्रुतम् ॥
शरभेन्द्रैः केसरीन्द्रैर्व्याघ्रौघैः परिवेष्टितम्

1.29.3

ऋषीन्द्रस्य प्रभावेण हिंसाभयविवर्जितम् ॥
महारण्यमगम्यं च स्वर्गादपि मनोहरम्

1.29.4

सिद्धेन्द्राणां मुनीन्द्राणामाश्रमाणां त्रिकोटिभिः ॥
आवृतं चन्दनारण्यैः पारिजातवनान्वितम्

1.29.5

ददर्श तमृषीन्द्रं च सभामध्ये मनोहरम् ॥
रत्नसिंहासनस्थं च वसन्तं योगिनां गुरुम्

1.29.6

जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम् ॥
प्रणनाम च तं दृष्ट्वा ब्रह्मपुत्रश्च शौनक

1.29.7

उत्थाय सहसाऽऽलिङ्ग्य युयुजे परमाशिषम् ॥
पप्रच्छ कुशलं स्नेहाच्चकारातिथिपूजनम्

1.29.8

रत्नसिंहासने रम्ये वासयामास नारदम् ॥
निवसन्नासने रम्ये वर्त्मश्रमविवर्जितः

1.29.9

उवाच तमृषिश्रेष्ठं भगवन्तं सनातनम् ॥
अधीत्य वेदान्सर्वांश्च पितुः स्थाने सुदुर्गमान्

1.29.1.29.10

ज्ञानं सम्प्राप्य योगीन्द्रान्मन्त्रं वै शङ्कराद्विभो ॥
मनो मे न हि तृप्नोति दुर्निवारं च चंचलम्

1.29.11

दृष्टं मया त्वत्पदाब्जं मनसा प्रेरितेन च ॥
किंचिज्ज्ञानविशेषं च लब्धुमिच्छामि साम्प्रतम्

1.29.12

यत्र कृष्णगुणाख्यानं जन्ममृत्युजरापहम्

1.29.13

ब्रह्मविष्णुशिवाद्याश्च सुरेन्द्रश्च सुरा विभो ॥
कं चिन्तयन्ति मुनयो मनवश्च विचक्षणाः

1.29.14

कस्मात्सृष्टिश्च भवति कुत्र वा संप्रलीयते॥
को वा सर्वेश्वरो विष्णुः सर्वकारणकारकः

1.29.15

तस्येश्वरस्य किं रूपं कर्म वा किं जगत्पते ॥
विचार्य्य मनसा सर्वं तद्भवान्वक्तुमर्हति

1.29.16

नारदस्य वचः श्रुत्वा प्रहस्य भगवानृषिः॥
कथां कथितुमारेभे पुण्यां भुवनपावनीम्

1.29.29

इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारायणं प्रति नारदप्रश्नो नामैकोनत्रिंशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc