भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.2

1.2.1

शौनक उवाच ॥
किमपूर्वं श्रुतं सौते परमाद्भुतमीप्सितम् ॥
सर्वं कथय संव्यस्य ब्रह्मखण्डमनुत्तमम्

1.2.2

सौतिरुवाच ॥
वन्दे गुरोः पादपद्मं व्यासस्यामिततेजसः ॥
हरिं देवान्द्विजान्नत्वा धर्मान्वक्ष्ये सनातनान्

1.2.3

यच्छ्रुतं व्यासवक्त्रेण ब्रह्मखण्डमनुत्तमम् ॥
अज्ञानान्धतमोध्वंसि ज्ञानवर्त्मप्रदीपकम्

1.2.4

ज्योतिःसमूहं प्रलये पुराऽऽसीत्केवलं द्विज ॥
सूर्य्यकोटिप्रभं नित्यमसंख्यं विश्वकारणम्

1.2.5

स्वेच्छामयस्य च विभोस्तज्ज्योतिरुज्ज्वलं महत् ॥
ज्योतिरभ्यन्तरे लोकत्रयमेव मनोहरम्

1.2.6

तेषामुपरि गोलोकं नित्यमीश्वरवद् द्विज॥
त्रिकोटियोजनायामविस्तीर्णं मण्डलाकृति

1.2.7

तेजःस्वरूपं सुमहद्रत्नभूमिमयं परम्॥
अदृश्यं योगिभिः स्वप्ने दृश्यं गम्यं च वैष्णवैः

1.2.8

योगेन धृतमीशेन चान्तरिक्षस्थितं वरम् ॥
आधिव्याधिजरामृत्युशोकभीतिविवर्जितम्

1.2.9

सद्रत्नरचितासंख्यमन्दिरैः परिशोभितम् ॥
लये कृष्णयुतं सृष्टौ गोपगोपीभिरावृतम्

1.2.1.2.10

तदधो दक्षिणे सव्ये पञ्चाशत्कोटियोजनान् ॥
वैकुण्ठं शिवलोकं तु तत्समं सुमनोहरम्

1.2.11

कोटियोजनविस्तीर्णं वैकुण्ठं मण्डलाकृति ॥
लये शून्यं च सृष्टौ च लक्ष्मीनारायणान्वितम्

1.2.12

चतुर्भुजैः पार्षदैश्च जरामृत्य्वादिवर्जितम् ॥
सव्ये च शिवलोकं च कोटियोजनविस्तृतम्

1.2.13

लये शून्यं च सृष्टौ च सपार्षदशिवान्वितम् ॥
गोलोकाभ्यन्तरे ज्योतिरतीव सुमनोहरम्

1.2.14

परमाह्लादकं शश्वत्परमानन्दकारकम् ॥
ध्यायन्ते योगिनः शश्वद्योगेन ज्ञानचक्षुषा

1.2.15

तदेवानन्दजनकं निराकारं परात्परम् ॥
तज्ज्योतिरन्तरे रूपमतीव सुमनोहरम्

1.2.16

नवीननीरदश्यामं रक्तपङ्कजलोचनम्॥
शारदीयपार्वणेन्दुशोभितं चामलाननम्

1.2.17

कोटिकन्दर्पलावण्यं लीलाधाम मनोरमम् ॥
द्विभुजं मुरलीहस्तं सस्मितं पीतवाससम्

1.2.18

सद्रत्नभूषणौघेन भूषितं भक्तवत्सलम्॥
चन्दनोक्षितसर्वाङ्गं कस्तूरीकुङ्कुमान्वितम्

1.2.19

श्रीवत्सवक्षःसंभ्राजत्कौस्तुभेन विराजितम् ॥
सद्रत्नसाररचितकिरीटमुकुटोज्ज्वलम्

1.2.1.2.20

रत्नसिंहासनस्थं च वनमालाविभूषितम् ॥
तदेव परमं ब्रह्म भगवन्तं सनातनम्

1.2.21

स्वेच्छामयं सर्वबीजं सर्वाधारं परात्परम् ॥
किशोरवयसं शश्वद्गोपवेषविधायकम्

1.2.22

कोटिपूर्णेन्दुशोभाढ्यं भक्तानुग्रहकारकम् ॥
निरीहं निर्विकारं च परिपूर्णतमं विभुम्

1.2.23

रासमण्डलमध्यस्थं शान्तं रासेश्वरं वरम् ॥
माङ्गल्यं मङ्गलार्हं च माङ्गल्यं मङ्गलप्रदम्

1.2.24

परमानन्दबीजं च सत्यमक्षरमव्ययम् ॥ ।
सर्वसिद्धेश्वरं सर्वसिद्धिरूपं च सिद्धिदम्

1.2.25

प्रकृतेः परमीशानं निर्गुणं नित्यविग्रहम्॥
आद्यं पुरुषमव्यक्तं पुरुहूतं पुरुष्टुतम्

1.2.26

सत्यं स्वतन्त्रमेकं च परमात्मस्वरूपकम् ॥
ध्यायन्ते वैष्णवाः शान्ताः शान्तं तन्परमायणम्

1.2.27

एवंरूपं परं बिभ्रद्भगवानेक एव सः ॥
दिग्भिश्च नभसा सार्द्धं शून्यं विश्वं ददर्श ह

1.2.2

इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे परब्रह्मनिरूपणं नाम द्वितीयोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc