भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 44

44.1

स्तर्त् ब्स्चोम्_3,1.1.1
1 तदनन्तरप्रतिपत्त्यधिकरणम् । सू. 1-7
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् । ब्ब्स्_3,1.1 ।
द्वितीये ऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः ।
परपक्षाणां चानपेक्षत्वं प्रपञ्चितम् ।
श्रुतिविप्रतिषेधश्च परिहृतः ।
तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् ।
अथेदानीमुपकरणोपहितस्य जीवस्य संसारगतिप्रकारस्तदवस्थान्तराणि ब्रह्मसतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदो मुक्तिफलानियमश्चेत्येतदर्थजातं तृतीये ऽध्याये निरूपयिष्यते प्रसङ्गागतं च किमप्यन्यत् ।
तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः ।
ऽतस्माज्जुगुप्सेत्ऽ इति चान्ते श्रवणात् ।
जीवोमुख्यप्राणसचिवः सेन्द्रियः समनस्को ऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् ।
ऽअथैनमेते प्राणा अभिसमायन्तिऽ इत्येवमादेः ऽअन्यन्नवतरं कल्याणतरं रूपं कुरुतेऽ (बृ. 4.4.1.4) इत्येवमन्तात्संसारप्रकरणस्थाच्छब्दात् ।
धर्माधर्मफलोपभोगसंभवाच्च ।
स किं देहः बीजैर्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छत्याहोस्वित्संपरिष्वक्त इति चिन्त्यते ।
किं तावत्प्राप्तम् ।
असंपरिष्वक्त इति ।
कुतः करणोपादानवद्भूतोपादानस्याश्रुतत्वात् ।
ऽस एतास्तेजोमात्राः समभ्याददानःऽ (बृ. 4.4.1) इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं संकीर्तयति ।
वाक्यशेषे चक्षुरादिसंकीर्तनात् ।
नैवं भूतमात्रोपादानसंकीर्तनमस्ति ।
सुलभाश्च सर्वत्र भूतमात्राः ।
यत्रैव देह आरब्धव्यस्तत्रैव सन्ति ततश्च तासां नयनं निष्प्रयोजनम् ।
तस्मादसंपरिष्वक्तो यातीति ।
एवं प्राप्ते पठत्याचार्यः - तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति ।
तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ देहबीजभूतैर्सूक्ष्मैः संपरिष्वक्तो रंहति गच्छतीत्यवगन्तव्यम् ।
कुतः - प्रश् ननिरूपणाभ्याम् ।
तथाहि प्रश् नः - ऽवेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. 5.3.3) इति ।
निरूपणं च प्रतिवचनं द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्चाहुतिर्दर्शयित्वा ऽइति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. 5.9.1) इति ।
तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते ।
नन्वन्या श्रुतिर्जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति- ऽतद्यथा तृणजलायुकाऽ (बृ. 4.4.3) इति ।
तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकस्योपमीयत इत्यव्रोधः ।
एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पना व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मलशाद्वृत्तिलाभस्तत्र भवति ।
केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति ।
इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते ।
मन एव वा केवलं भोगस्थानमभिप्रतिष्ठेत ।
जीव एवोत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुक इव वृक्षाद्वृक्षान्तरम् ।
इत्येवमाद्याः सर्वा एवानादर्तव्याः श्रुतिविरोधात्

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc