ब्रह्मसंहिता (टीका सहित) · अध्याय 1
ब्रह्म-संहिता - श्री-जीव-गोस्वामि-कृत-दिग्-दर्शनी-टीका-सहिता
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम्
श्री-श्री-राधा-कृष्णाभ्यां नमः ।
सनातन-समो यस्य ज्यायान् श्रीमान् सनातनः ।
श्री-वल्लभोऽनुजः सोऽसौ श्री-रूपो जीव-सद्-गतिः ॥
श्री-कृष्ण-रूप-महिमा मम चित्ते महीयताम् ।
यस्य प्रसादाद् व्याकर्तुम् इच्छामि ब्रह्म-संहिताम् ॥
दुर्योजनापि युक्तार्था सुविचाराद् ऋषि-स्मृतिः ।
विचारे तु ममात्र स्याद् ऋषीणां स ऋषिर् गतिः ॥
यद्यप्य् अध्याय-शत-युक् संहिता सा तथाप्य् असौ ।
अध्यायः सूत्र-रूपत्वात् तस्याः सर्वाङ्गतां गतः ॥
श्रीमद्-भागवताद्येषु दृष्टः यन् मृष्ट-बुद्धिभिः ।
तद् एवात्र परामृष्टं ततो हृष्टं मनो मम ॥
यद् यच् छ्री-कृष्ण-सन्दर्भे विस्ताराद् विनिरूपितम् ।
अत्र तत् पुनर् आमृश्य व्याख्यातुं स्पृश्यते मया ॥
अथ श्रीमद्-भागवते यद् उक्तं एते चांश-कलाः पुंसः कृष्णस् तु भगवान्
स्वयम् [भ्प् 1.3.28] इति तद् एव प्रथमम् आह ईश्वर इति । अत्र कृष्ण इत्य् एव
विशेष्य तन्-नामैव । कृष्णावतारोत्सवेत्य् आदौ
श्री-शुकादि-महाजन-प्रसिद्ध्या । कृष्णाय वासुदेवाय देवकी-नन्दनाय
इत्य् आदौ सामोपनिषदि च । प्रथम-प्रतीतत्वेन
तन्-नाम-वर्गाविर्भाव-कृता गर्गेण प्रथमम् उद्दिष्टत्वेन तथा यं
मन्त्रम् अधिकृत्य सोऽयम् आरम्भः तत्राग्रतः परिचितत्वेन मूल-रूपत्वात् ।
तद् उक्तं पद्म-पुराणे प्रभास-खण्डे नारद-कुशध्वज-संवादे
श्री-भगवद्-उक्तौ - नाम्नां मुख्यतमं नाम कृष्णाख्यं मे
परन्तप इति ।
अतैव ब्रह्माण्ड-पुराणे श्री-कृष्णाष्टोत्तर-शत-नाम-स्तोत्रे -
सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥
इत्य् अत्र श्री-कृष्णस्येत्य् एवोक्तं यत् त्व् अग्रे गोविन्द-नाम्ना स्तोष्यते तत् खलु
कृष्णत्वेऽपि तस्य गवेन्द्रत्व-वैशिष्ट्य-दर्शनार्थम् एव ।
तद् एवं रूढित्वेन प्राधान्यात् तस्य इश्वर इत्य् आदीनि विशेषणानि । अथ
गुण-द्वारापि तद् दृश्यते । यथाह गर्गः -
आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतो ऽनुयुगं तनूः ।
शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।
गुण-कर्मानुरूपाणि तान्य अहं वेद नो जनाः ॥ [भ्प् 10.8.13-14]
अनयोर् अर्थः । अस्य कृष्णत्वेन दृश्यमानस्य प्रति-युगं तनूर् नानावतारान्
गृह्णतः प्रकाश्यतः शुक्लादयस् त्रयो आसन् प्रकाशम् अवापुः । स च स च
शुक्लादिर् अवतार इदानीं साक्षाद् अस्यावतार-समये कृष्णाङ्गतः एतस्मिन्न्
एवान्तर्भूतः । अतैव कृष्णे कर्तृत्वात् सर्वोत्कर्षकत्वात् कृष्ण इति मुख्यं
नाम । तस्माद् अस्यैव तानि रूपाणीत्य् आह बहूनीति । तद् एवं गुण-द्वारा
तन्-नाम्नि प्राध्यान्य-सूचकस्य कृष्णस्य तन्-नाम्नः प्राधान्ये लब्धे -
कृषिर् भू-वाचकः शब्दो णश् च निर्वृतिवाचकः ।
तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥
इति योग-वृत्तित्वे तस्य तादृशत्वं लभ्यते । न चेदं पद्यम् अन्य-परम् ।
तद्-उपासना-तन्त्र-गौतमीय-तन्त्रे अष्टादशाक्षर-व्याख्यायां तद् एतत्
तुल्यं पद्यं दृश्यते -
कृषि-शब्दश् च सत्तार्थो णश् चानन्द-स्वरूपकः ।
सुख-रूपो भवेद् आत्मा भावानन्द-मयत्वतः ॥ इति ।
तस्माद् अयम् अर्थः - भवन्त्य् अस्मात् सर्वेऽर्था इति भूः धात्व्-अर्थ उच्यते
भाव-शदवत् स चात्र कर्ष्तेर् एवार्थस् तस्यैव प्राप्तत्वात् । गौतमीये
भू-शब्दस्य सत्ता-वाचकत्वेऽपि तद्-धात्व्-अर्थ-सत्तैवोच्यते । घटत्वं
सत्ता-वाचकम् इत्य् उक्ते घट-सत्तैव गम्यते न तु पट-सत्ता न वा
सामान्य-सत्तेति ।
अथ निवृत्तिर् आनन्दस् तयोर् ऐक्यं सामानाधिकरण्येन व्यक्तं यत् परं
ब्रह्म सर्वतोऽपि सर्वस्यापि बृंहणं वस्तु तत् बृहत्तमं कृष्ण इत्य्
अभिधीयते किन्तु कृषेर् आकर्ष-मात्रार्थत्वेन ण-शब्दस्य च
प्रतिपाद्येनानन्देन सह सामानाधिकरण्यासम्भवाद् धेतु-मतोर्
अभेदोपचारः कार्यः । तच् चाकर्ष-प्राचुर्यार्थम् आयुर् घृतम् इतिवत् ।
ब्रह्म-शब्दस्य तत्-तद्-अर्थत्वं च बृहत्त्वाद् बृंहणत्वाच् च तद् ब्रह्म
परमं विदुर् [विप् 1.12.57] इति विष्णु-पुराणात् ।
एवम् एवोक्तं बृहद्-गौतमीये -
कृषि-शब्दश् च सत्तार्थो णश् चानन्द-स्वरूपकः ।
सत्ता-स्वानन्दयोर् योगात् चित् परं ब्रह्म चोच्यते ॥ इति ।
अद्वय-वादिभिर् अपि सत्तानन्दयोर् ऐक्यं तथा मन्तव्यम् । शाब्दिकैर्
भिन्नाभिधेयत्वेन प्रतीतेः । सत्ता-शब्देन चात्र सर्वेषां सतां
प्रवृत्ति-हेतुर् यत् परमं स तद् एवोच्यते । सद् एव सौम्येदम् अग्र आसीद्
[छा 6.2.1] इति श्रुतेः । अभिन्नाभिधेयत्वेऽपि वृक्षस् तरुर् इत्य्वद्
विशेषण-विशेष्यत्वायोगाद् एकस्य वैयर्थ्याच् च । गौतमीयं पद्यं चैव
व्याख्येयम् । पूर्वार्धे सर्वाकर्षण-शक्ति-विशिष्ट आनन्दः कृष्ण इत्य्
अर्थः । उत्तरार्धे यस्माद् एवं सर्वाकर्षक-सुख-रूपोऽसौ तस्माद् आत्मा
जीवश् च तत्र सुख-रूपो भवेत् । तत्र हेतु-भावः प्रेमा
तन्मयानन्दत्वाद् इति ।
तद् एवं स्वरूप-गुणाभ्यां परम-बृहत्तमः सर्वाकर्षक आनन्दः
कृष्ण-शब्द-वाच्य इति ज्ञेयम् । स च शब्दः श्री-देवकीनन्दन एव रूढः ।
अस्यैव सर्वानन्दकत्वं वासुदेवोपनिषदि दृष्टम् - देवकी-नन्दनो
निखिलम् आनन्दयत् इति । आहुश् च नाम-कौमुदी-काराः - कृष्ण-शब्दस्य
तमाल-श्यामल-त्विषि श्री-यशोदा-स्तनन्धये पर-ब्रह्मणि रूढिः इति । ततश्
चासौ शब्दो नान्यत्र सङ्क्रमणीयः । यथाह भट्टः -
लब्धात्मिका सती रूढिर् भवेद् योगापहारिणी ।
कल्पनीया तु लभन्ते नात्मानं योग-बाधतः ॥
इति पर-ब्रह्मत्वं च श्रीमद्-भागवते गूढं परं ब्रह्म
मनुष्य-लिङ्गम् [भ्प् 7.15.58] इति, यन्-मित्रं परमानन्दं पूर्णं ब्रह्म
सनातनम् इति [भ्प् 10.14.32] । श्री-विष्णु-पुराणे - यत्रावतीर्णं कृष्णाख्यं
परं ब्रह्म नराकृति [विप् 4.11.2] इति । श्री-गीतासु च ब्रह्मणो हि
प्रतिष्ठाहम् [गीता 14.27] इति । श्री-गोपाल-तापनीषु च योऽसौ परं ब्रह्म
गोपालः इति ।
अथ मूलम् अनुसरामः । यस्माद् एव तादृक् कृष्ण-शब्द-वाच्यस् तस्माद्
ईश्वरः सर्व-वशायिता । तद् इदम् उपलक्षितं बृहद्-गौतमीये
कृष्ण-शब्दस्यैवार्थान्तरेण ।
अथवा कर्षयेत् सर्वं जगत् स्थावर-जङ्गमम् ।
काल-रूपेण भगवान् तेनायं कृष्ण उच्यते ॥ इति ।
कलयति नियमयति सर्वम् इति काल-शब्दार्थः । तथा च तृतीये तम्
उद्दिशोद्धवस्य पूर्ण एव निर्णयः ।
स्वयं त्व् असाम्यातिशयस् त्र्यधीशः
स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः ।
बलिं हरद्भिश् चिर-लोक-पालैः
किरीट-कोट्य्-एडित-पाद-पीठः ॥ [भ्प् 3.2.21] इति ।
श्री-गीतासु विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता 10.42] इति ।
श्री-गोपाल-तापन्याम्-एको वशी सर्वगः कृष्ण ईड्यः [ग्तु 1.19] इति । यस्माद्
एव तादृग्-ईश्वरः, तस्मात् परमः । सर्वोत्कृष्टा मा लक्ष्मी-रूपाः शक्तयो
यस्मिन् । तद् उक्तं श्री-भागवते --रेमे रमाभिर् निज-काम-सम्प्लुतः
[भ्प् 10.59.43] इति । नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः [भ्प् 10.47.60]
इत्यादि । तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः [भ्प् 10.33.6] इति । ताभिर्
विधूत-शोकाभिर् भगवान् अच्युतो वृतः । व्यरोचताधिकम् [भ्प् 10.32.20] इति
च । अत्रैवाग्रे वक्ष्यते - श्रियः कान्ताः कान्तः परम-पुरुषः [ब्रह्मस्
5.56] इति । तापन्यां च -कृष्णो वै परमं दैवतम् [ग्तु 1.3] इति । यस्माद् एव
तादृक् परमस् तस्माद् आदिश् च । तद् उक्तं श्री-दशमे -
श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः ।
आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह ॥ [भ्प् 10.72.15] इति ।
टीका च स्वामि-पादानाम् - आद्यो हरिः श्री-कृष्ण इत्य् एषा । एकादशे तु तस्य
श्रेष्ठत्वम् आद्यत्वं च युगपद् आह । पुरुषम् ऋषभम् आद्यं
कृष्ण-संज्ञं नतोऽस्मि इति ।
न चैतद् आदित्वं तद्-अवतारापेक्षं किन्तु अनादि न विद्यते आदिर् यस्य
तादृशः । तापन्यां च -- एको वशी सर्वगः कृष्ण ईड्यः इत्य् उक्त्वाह नित्यो
नित्यानाम् इति च यस्माद् एव तादृशतया आदिस् तस्मात् सर्व-कारण-कारणम् ।
तथा च दशमे तं प्रति देवकी-वाक्यम् -
यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः ।
भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता ॥ [भ्प् 10.85.31] इति ।
टीका च - यस्यांशः पुरुषस् तस्यांशो माया तस्या अंशा गुणास् तेषां
भागेन परमाणु-मात्र-लेशेन विश्वोत्पत्त्य्-आदयो भवन्ति । तं त्वा त्वां
गतिं शरणं गतास्मि इत्य् एषा । तथा च ब्रह्म-स्तुतौ - नारायणोऽङ्ग
नर-भू-जलायनात् [भ्प् 10.14.3] इति ।
नराज् जातानि तत्त्वानि नाराणीति विदुर् बुधाः ।
तस्य तान्य् अयनं पूर्वं तेन नारायणः स्मृतः ॥
इत्य् अनेन लक्षितो यो नारायणः स तवाङ्गं त्वं पुनर् अङ्गीत्य् अर्थः ।
श्री-गीतासु विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति । तद् एवं
कृष्ण-शब्दस्य यौगिकार्थोऽपि साधितः ।
ये च तच्-छब्देन कृषिणाभ्यां परमानन्द-मात्रं वाचयन्ति तेऽपि
ईश्वरादि-विशेषणैस् तत्र स्वाभाविकी शक्तिं मन्येरन् । तस्मिन् न
द्वितीयत्वेन सर्व-कारणत्वेन च वस्त्व्-अन्तर-शक्तिं मन्येरन् । तस्मिन् न
द्वितीयत्वेन सर्व-कारणत्वेन च वस्त्व्-अन्तर-शक्त्य्-आरोपायोगात् । तथा च
श्रुतिः - आनन्दो ब्रह्म इति । को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश
आनन्दो न स्यात् । आनन्दाद् धीमानि भूतानि जायन्ते । [तैत्तु 2.7.1]
न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वेतु 6.8] इति ।
ननु स्व-मते योग-वृत्तौ च सर्वाकर्षकं परम-बृहत्तमानन्दः कृष्ण
इत्य् अभिधानात् अविग्रह एव स इत्य् अवगम्यते आनन्दस्य विग्रहानवगमात् ।
सत्यम् । किन्त्व् अयं परमोऽपूर्वः पूर्व-सिद्धानन्द-विग्रहः इति ।
सच्-चिद्-आनन्द-लक्षणो यो विग्रहस् तद्-रूप एवेत्य् अर्थः । तथा च
श्री-दशमे ब्रह्मणः स्तवे त्वय्य् एव नित्य-सुख-बोध-तनाव् इति ।
तापनी-हयशीर्षयोर् अपि - सच्-चिद्-आननद-रूपाय कृष्णायाक्लिष्ट-कारिणे इति ।
ब्रह्माण्डे च श्री-कृष्णाष्टोत्तर-शत-नाम-स्तोत्रे नन्द-व्रज-जनानन्दी
सच्-चिद्-आनन्द-विग्रहः इति ।
एतद् उक्तं भवति । सत्त्वं खल्व् अव्यभिचारित्वम् उच्यते तद्-रूपत्वं च तस्य
श्री-दशमे ब्रह्मादि-वाक्ये -
सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् ।
सत्यात् सत्यं च गोविन्दस् तस्मात् सत्यो हि नामतः ॥ [म्भ् 5.68.12] इति ।
श्री-देवकी-वाक्ये च --
नष्टे लोके द्वि-परार्धावसाने
महा-भूतेष्व् आदि-भूतं गतेषु ।
व्यक्ते ऽव्यक्तं काल-वेगेन याते
भवान् एकः शिष्यते ऽशेष-संज्ञः ॥ [भ्प् 10.3.25]
मर्त्यो मृत्यु-व्याल-भीतः पलायन्
लोकान् सर्वान् निर्भयं नाद्यगच्छत् ।
तत्-पादाब्जं प्राप्य यदृच्छयाद्य
स्वस्थः शेते मृत्युर् अस्माद् अपैति ॥ [भ्प् 10.3.24] इत्य् आदि ।
एकोऽसि प्रथमम् [भ्प् 10.14.18] इत्य् आदि श्री-ब्रह्मणो वाक्ये तद् अमितं
ब्रह्माद्वयं शिष्यते इति । श्री-गीतासु ब्रह्मणो हि प्रतिष्ठाहम् इति ।
यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ इति ।
तापन्याम् -
जन्म-जराभ्यां भिन्नः स्थानुर् अयम् अच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति ।
योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, योऽसौ गोपेषु तिष्ठति गोविन्दान्
मृत्युर् बिभेति ॥ [ग्तु 2.23] इत्य् आदि च । तत्र पूर्वत्र सौर्य इति । सौरी
यमुना, तद् अदूर-देशे वृन्दावने इत्य् अर्थः ।
अथ चिद्-रूपत्वं स्व-प्रकाशत्वेन पर-प्रकाशत्वम् । तच् चोक्तं श्री-दशमे
ब्रह्मणा एकस् त्वम् आत्मा इत्य् आदौ स्वयं ज्योतीर् इति । तापन्यां -
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह दैवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमनुव्रजेत ॥ [ग्तु 1.26] इति ।
न चक्षुषा पश्यति रूपम् अस्य
यम् एवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा वृणुते तनुं स्वाम् ॥ इत्य् श्रुत्य्-अन्तरवत् ।
यथानन्द-स्वरूपत्वं सर्वांशेन निरुपाधि-परम-प्रेमास्पदत्वम् । तच्
च श्री-दशमे ब्रह्म-स्तवान्ते - ब्रह्मन् परोद्भवे कृष्णे [भ्प् 10.14.49]
इत्य्-आदि-प्रश्नोत्तरयोर् व्यक्तम् । तथा चानुभूतम् आनकदुन्दुभिना --
विदितो ऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः
केवलानुभवानन्द- स्वरूपः सर्व-बुद्धि-दृक् ॥ [भ्प् 10.3.13] इति ।
आनन्दं ब्रह्मणो रूपं इति श्रुत्य्-अन्तरवत् ।
तद् एवं तस्य सच्-चिद्-आनन्द-विग्रह-रूपत्वे सिद्धे, विग्रह एवात्मा
तथात्मैव विग्रह इति सिद्धम् । ततो जीववद् देहित्वं तस्य नेत्य् अपि
सिद्धान्तितम् । यथोक्तं श्री-शुकेन -
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ [भ्प् 10.14.55] इति ।
तथापि तस्य देहिवल्-लीला-कृपा-परवशतयैवेत्य् अर्थः । माया दम्भे
कृपायां च इति विश्व-प्रकाशः । तद् एवम् अस्य तथा
तथा-लक्षण-श्री-कृष्ण-रूप्तवे सिद्धे चोभय-लीलाभिनिविष्टत्वेन क्वचिद्
वृष्णीन्द्रत्वं क्वचिद् गोविन्दत्वं च दृश्यते । तथाह द्वादशे श्री-सूतः --
श्री-कृष्ण-कृष्ण-सख-वृष्ण्य्-ऋषभावनि-ध्रुग्-
राजन्य-वंश-दहनानपवर्ग्य-वीर्य ।
गोविन्द गोप-वनिता-व्रज-भृत्य-गीत-
तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान् ॥ [भ्प् 12.11.25] इति ।
तद् एवम् अपि स्वाभीष्ट-रूप-लीला-परिकर-विशिष्टतया गोविन्दत्वम् एव
स्वाराध्यत्वेन योजयति गोविन्द इति । यथा अत्रैवाग्रे स्तोष्यते
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष इति । अभिषेकान्ते गोविन्द इति
चाभ्यधात् [भ्प् 10.27.23] इत्य् उक्त्वा तत् प्रकरणारम्भे श्री-शुक-प्रार्थना
प्रीयान् न इन्द्रो गवाम् [भ्प् 10.26.25] इति गवां सर्वाश्रयत्वाद्
गवेन्द्रत्वेनैव सर्वेन्द्रत्व-सिद्धेः । न चेदं न्यूनं मन्तव्यम् । तथा
हि गो-सूक्तम् -
गोभ्यो यज्ञाः प्रवर्तन्ते गोभ्यो देवाः समुत्थिताः ।
गोभिर् वेदाः समुद्गीर्णाः षड्-अङ्ग-पदक-क्रमाः ॥ इति ।
अस्तु तावत् परम-गोलोकावतीर्णानां तासां गवाम् इन्द्रत्वम् इति तापनीषु च
ब्रह्मणा तदीयम् एव स्वेनाराधनं प्रकाशितम् -- गोविन्दं
सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं सततं
समरुद्-गणोऽहं तोषयामि । [ग्तु 1.37] इति ।
तथैव दशमे -- तद् भूरि भाग्यम् इह जन्म किम् अप्य् अटव्याम्
[भ्प् 10.14.34] इत्य् आदि, श्री-नन्द-नन्दनत्वेनैव च तं लब्धुं प्रार्थना ।
नौमीड्य तेऽभ्र-वपुषे तडिद्-अम्बराय इत्य् आदि पशुपाङ्गजाय [भ्प् 10.14.1]
इति ।
तद् एवं गोविन्द-शब्दस्य नाना-पारमैश्वर्य-मय्य् अन्यार्थतापि तेन
नाभिमता । तथा चोक्तं - ईश्वरत्वे
परमेश्वरत्वानुवाद-पूर्वक-तात्पर्यावसानतया गौतमीय-तन्त्रे
श्रीमद्-दशाक्षर-मन्त्रार्थ-कथने -
गोपीति प्रकृतिं विद्याज् जनस् तत्त्व-समूहकः ।
अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः ।
सान्द्रानन्दं परं ज्योतिर् वल्लभत्वेन कथ्यते ॥
अथवा गोपी प्रकृतिर् जनस् तद्-अंश-मण्डलम् ।
अनयोर् वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः ॥
कार्य-कारणयोर् ईशः श्रुतिभिस् तेन गीयते ॥
अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा ।
नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥ इति.
प्रकृतिम् इति मायाख्यां जगत्-कारण-शक्तिम् इत्य् अर्थः तत्त्व-समूहको
महद्-आदि-रूपः । अनयोर् आश्रयः सान्द्रानन्दं परं ज्योतिर् ईश्वरओ
वल्लभ-शब्देन कथ्यते । ईश्वरत्वे हेतुर् व्याप्त्या कारणत्वेन चेति ।
प्रकृतिर् इति स्वरूप-भूता मायातीता वैकुण्ठादौ प्रकाशमाना
महा-लक्ष्म्य्-आख्या शक्तिर् इत्य् अर्थः । अंश-मण्डलं सङ्कर्षणादि-रूपम् ।
अनेक-जन्म-सिद्धानाम् इत्य् अत्र । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन
[गीता 4.5] इति श्री-भगवद्-गीता-वचनाम् अनादि-जन्म-परम्परायाम् एव
तात्पर्यम् ।
तद् एवम् अत्रापि नन्द-नन्दनत्वम् एवाभिमतं श्री-गर्गेण च यथोक्तम् ।
प्राग् अयं वासुदेवस्य क्वचिज् जातस् तवात्मजः [भ्प् 10.8.14] इति । आत्मजत्वं
हि तस्य श्री-वसुदेवस्यापि मनस्य् आविर्भूतत्वम् एवाभिमतम् ।
आविवेशांश-भागेन मन आनकदुन्दुभेः [भ्प् 10.2.16] इति । श्री-देवक्याम्
अपि दधार सर्वात्मकम् आत्म-भूतं काष्ठा यथानन्द-करं मनस्तः
[भ्प् 10.2.18] इत्य् आदेः । श्री-व्रजेश्वरयोऽपि तथासीद् एव फलेन
फल-कारणम् अनुमीयते । श्री-भगवत्-प्रादुर्भावस्य
पूर्वाव्यवहित-कालं व्याप्य तथा तथा सर्वत्र दर्शनात् । किन्त्व् आत्मनि
तस्याविर्भावे सत्य् अप्य् आत्मजत्वाय पितृ-भाव-मय-शुद्ध-महा-प्रेमैव
प्रयोजकम् । ब्रह्मणः सकाशाद् वराह-देवस्याविर्भावेऽपि परस्परं तथा
भाव-दर्शनाभावात् । तथा नृसिंह-देवः स्तम्भयोर् अपि । न च वक्तव्यम्
उदर-प्रवेशे सति पुत्रत्वं स्यात् । परीक्षिद्-रक्षणार्थं तन्-मातुर्
उदर-प्रविष्टे च तयोस् तादृश-व्यवहाराभावात् । तस्मात्
वात्सल्याभिध-प्रेमैव पुत्रत्वे कारणम् । तादृश-शुद्ध-प्रेमा तु
श्री-व्रजेश्वरयोर् एव श्री-वसुदेव-देवक्योस् तु परमैश्वर्य-ज्ञानं
प्रतिबन्धकं इति साधूक्तं प्राग् अयं वसुदेवस्य इति ।
अथ श्री-शुकदेवेन तथैव निर्णीतं नायं सुखापो भगवान् देहिनां
गोपिका-सुतः [भ्प् 10.9.21] इति । आगम-विद्भिर् अपि सकल-लोक-मङ्गलो
नन्द-गोप-तनयो देवता इति । अतः श्रीमद्-दशाक्षर-विनियोगेऽपि तन्-मय
एव दृश्यते इति । अथ विशेषः श्री-वैष्णव-तोषण्यां नन्दस् त्व् आत्मज
उत्पन्नः [भ्प् 10.5.1] इत्य् आदौ द्रष्टव्यः ।
सहस्र-पत्र-कमलं गोकुलाख्यं महत् पदम् ।
तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम्
अथ तस्य तद्-रूपता-साधकं नित्यं धाम प्रतिपादयति सहस्र-पत्रं
कमलम् इत्य् आदिना । सहस्राणि पत्राणि यत्र तत् कमलम् । भूमिश्
चिन्तामणि-गणमयीति वक्ष्यमाणानुसारेण चिन्तामणि-मयं पद्मं
तद्-रूपं महत् सर्वोत्कृष्टं पदं स्थानम् । महतः श्री-कृष्णस्य
महा-भगवतो वा पदं महा-वैकुण्ठादि-रूपं इत्य् अर्थः । रूढिर्
योगम् अपहरतीति न्यायेन तस्यैव प्रतीतेः । एतद् अभिप्रेत्योक्तं श्री-दशमे
भगवान् गोकुलेश्वरः इति शीलार्थे त्व् अत्र वरच्-प्रत्ययः ।
अतैव तद्-अनुकूलत्वेनोत्तर-ग्रन्थोऽपि व्याख्येयः । तद् एव चाम्नातं
गोकुलं वन-वैकुण्ठम् इति । तस्य श्री-कृष्णस्य धाम
श्री-नन्द-यशोदादिभिः सह वास-योग्यं महान्तः-पुरं तैः
सहवासितात्वग्रे समुद्देक्ष्यते । तस्य स्वरूपम् आह तद् इति । अनन्तस्य
श्री-बलदेवस्यांशेन ज्योतिर्-विभाग-विशेषेण सम्भवः सदाविर्भावो यस्य
तत् तथा तन्त्रेणैतद् अपि बोध्यते । अनन्तोऽंशो यस्य तस्य श्री-बलदेवस्यापि
सम्भवो निवासो यत्र तद् इति ।
कर्णिकारं महद् यन्त्रं षट्-कोणं वज्र-कीलकम् ।
षड्-अङ्ग-षट्-पदी-स्थानं प्रकृत्या पुरुषेण च ॥
प्रेमानन्द-महानन्द-रसेनावस्थितं हि यत् ।
ज्योती-रूपेण मनुना काम-बीजेन सङ्गतम्
सर्व-गण-सेवितस्य श्रीमद्-अष्टदशाक्षर-मन्त्र-राजस्य बहु-पीठस्य
मुख्य-पीठम् इदम् इत्य् आह कर्णिकारम् इति द्वयेन । महद्-यन्त्रम् इति ।
यत् प्रकृतिर् एव सर्वत्र मन्त्रत्वेन पूजार्थं लिख्यते इत्य् अर्थः । यन्त्रम्
एव दर्शयति षट्-कोणा अभ्यन्तरे यस्य तत् । वज्र-कीलकं कर्णिकारे
बीज-रूप-हीर-ककोलक-शोभितम् ॥ यन्त्रे च-कारोपलक्षिता । चतुर्थ्य्-अन्ता
चतुर्-अक्षरी कील-रूपा ज्ञेया । षट्-कोणत्वे प्रयोजनम् आह षड्-अङ्गानि
यस्याः सा षट्-पदी श्रीमद्-अष्टादशाक्षरी तस्याः स्थानम् । प्रकृतिर्
मन्त्रस्य स्वरूपं स्वयम् एव श्री-कृष्णः, कारण-रूपत्वात् । तच् चोक्तम्
ऋष्य्-आदि-स्मरणे - कृष्णः प्रकृतिर् इति ।
पुरुषश् च स एव तद्-अधिष्ठातृ-देवता-रूपः । ताभ्याम् अवस्थितम्
अधिष्ठितम् । स हि मन्त्रे चतुर्धा प्रतीयते । मन्त्रस्य कारण-रूपत्वेन,
अधिष्ठातृ-देवता-रूपत्वेन, वर्ण-समुदाय-रूपत्वेन, आराध्य-रूपत्वेन
च । तत्र कारण-रूपत्वेन अधिष्ठातृ-देवता-रूपत्वेनात्रोच्यते ।
आराध्य-रूपत्वेन प्राग् उक्तः । ईश्वरः परमः कृष्ण इति ।
वर्ण-रूपत्वेनाग्रे उद्धरिष्यते कामः कृष्णाय इति । यथोक्तं
हायशीर्ष-पञ्चरात्रे -
वाच्यत्वं वाचकत्वं देवता-मन्त्रयोर् इह ।
अभेदेनोच्यते ब्रह्म तत्त्व-विद्भिर् विचारतः ॥ इति ।
गोपाल-तापनी-श्रुतिषु -
वायुर् यथैको भुवनं प्रविष्टो
जन्ये जन्ये पञ्च-रूपो बभूव ।
कृष्णस् तथैकोऽपि जगद्-धितार्थं
शब्देनासौ पञ्च-पदो विभाति ॥ इति ।
क्वचिद् दुर्गाया अधिष्ठातृत्वं शक्ति-शक्तिमतोर् अभेद-विवक्षया यथा च
बृहद्-गौतमीये -
राधा दुर्गा शिवा दुर्गा लक्ष्मी दुर्गा प्रकीर्तिता ।
गोपाल-विष्णु-पूजायाम् आद्य्-अन्ता न तु मध्यमा ॥
अतैवोक्तं गौतमीय-कल्पे --
यः कृष्णः सैव दुर्गा स्याद् या दुर्गा कृष्ण एव सः ।
अनयोर् अन्तरादर्शी संसारान् नो विमुच्यते ॥ इत्य् आदि ।
अतः स्वयम् एव श्री-कृष्णस् तत्र स्वरूप-शक्ति-रूपेण दुर्गा नामेति । तस्मान्
नेयं मायांश-भूता दुर्गातिगम्यते । निरुक्तिश् चात्र कृच्छ्रेण
दुर्गाराधनादि बहु-प्रयासेन गम्यते ज्ञायते इति । तथा च
नारद-पञ्चरात्रे श्रुति-विद्या-संवादे -
जानात्य् एका परा-कान्तं सैव दुर्गा तद्-आत्मिका ।
या परा परमा शक्तिर् महा-विष्णु-स्वरूपिणी ॥
यस्या विज्ञान-मात्रेण पराणां परमात्मनः ।
मुहूर्ताद् एव देवस्य प्राप्तिर् भवति नान्यथा ॥
एकेयं प्रेम-सर्वस्व-स्वभावा श्री-कुलेश्वरी ।
अनया सुलभो ज्ञेय आदि देवोऽखिलेश्वरः ॥
भक्तिर् भजन-सम्पत्तिर् भजते प्रकृतिः प्रियम् ।
ज्ञायतेऽत्यन्त दुःखेन सेयं प्रकृतिर् आत्मनः ॥
दुर्गेति गीयते सद्भिर् अखण्ड-रस-वल्लभा ।
अस्या आवरिका शक्तिर् महा-मायाखिलेश्वरी ।
यया मुग्धं जगत् सर्वं सर्व-देहाभिमानतः ॥ इति च ।
तथा च सम्मोहन-तन्त्रे जयां प्रति श्री-दुर्गा-वचनं -
यन् नाम्ना नाम्नी दुर्गाहं गुणैर् गुणवती ह्य् अहम् ।
यद्-वैभवा महा-लक्ष्मी राधा नित्यापरा द्वया ॥ इति ।
किं च प्रेम-रूपा ये आनन्द-महानन्द-रसास् तत् परिपाक-भेदास्
तद्-आत्मकेन तथा ज्योती-रूपेण स्व-प्रकाशकेन मनुना मन्त्र-रूपेण
काम-बीजेन सङ्गतम् इति मूलान्तर्गतत्वेऽपि काम-बीजस्य पृथग्-उक्तिः
कुत्रचन स्वातन्त्र्यापेक्षया
तत्-किञ्जल्कं तद्-अंशानां तत्-पत्राणि श्रियाम् अपि
तद् एवं तद्-धामोक्त्वा तद्-आवरणान्य् आह तद् इत्य् अर्धेन । तस्य
कर्णिका-रूप-धाम्नः किञ्जल्काः शिखरावलि-वलित-प्राचीर-पङ्क्त्य इत्य्
अर्थः । तच् च तद्-अंशानां तस्मिन्न् अंशोदायो विद्यते येषां
परम-प्रेम-भाजां सजातीयानां धामेत्य् अर्थः । गोकुलाख्यम् इत्य् उक्तिर्
एव । तेषां सजातीयत्वं चोक्तं श्री-बादरायणिना -
एवं ककुद्मिनं हत्वा स्तूयमानः द्विजातिभिः ।
विवेश गोष्ठं स-बलो गोपीनां नयनोत्सवः ॥ [भ्प् 10.36.15] इति ।
कंस-वधान्ते श्री-व्रज-राजं प्रति स्वयं भगवता - ज्ञातीन् वो द्रष्टुम्
एष्यामो विधाय सुहृदां सुखम् [भ्प् 10.45.23] इति । अतैव कमलस्य पत्राणि
श्रियां तत्-प्रेयसीनां गोपी-रूपाणां श्री-राधादीनाम् उपवन-रूपाणि
धामानीत्य् अर्थः । गोपी-रूपत्वं चासां मन्त्रस्य तन्-नाम्नालिङ्गितत्वात्
राधादित्वं च -
देवी कृष्णमयी प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति बृहद्-गौतमीयात् ।
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ इति मत्स्य-पुराणात् ।
राधया माधवो देवो माधवेनैव राधिका । विभ्राजन्ते जनेष्व् आ इति
ऋक्-परिशिष्ट-श्रुतौ च ।
अत्र विशेष-जिज्ञासायां कृष्णार्चन-दीपिका द्रष्टव्या । तत्र पत्राणाम्
उच्छ्रित-प्रान्तानां वर्त्माण्य् अग्रिम-सन्धिषु तु गोष्ठानि ज्ञेयानि ।
अखण्ड-कमलस्य गोकुलत्वात् तथैव गोकुल-समावेशाच् च गोष्ठं तथैव
यत् तु स्थानान्तरे वचनम् अस्ति -
सहस्रारं पद्मं दल-ततिषु देवीभिर् अभितः
परीतो गो-सङ्घैर् अपि निखिल-किञ्जल्क-मिलितैः ।
वराटे यस्यास्ति स्वयम् अखिल-शक्त्या प्रकटित-
प्रभावः सत्यः श्री-परम-पुरुषस् तं किल भजे ॥ इति पद्म-बीज-कोषे इत्य्
अर्थः ।
तत्र गो-सङ्ख्यैर् इति तु पाठः समञ्जसः । गो-सङ्ख्याश् च गोपाः इति । गोपे
गोपाल-गोसङ्ख्य-गोधुग्-आभीर-वल्लभा इत्य् अमरः । अखिल-शक्त्या
प्रकटितः प्रभावः येन सः परम-पुरुषः श्री-कृष्ण इत्य् अर्थः
चतुर्-अस्रं तत्-परितः श्वेतद्वीपाख्यम् अद्भुतम् ।
चतुर्-अस्रं चतुर्-मूर्तेश् चतुर्-धाम चतुष्-कृतम् ॥
चतुर्भिः पुरुषार्थैश् च चतुर्भिर् हेतुभिर् वृतम् ।
शूलैर् दशभिर् आनद्धम् ऊर्ध्वाधो दिग्-विदिक्ष्व् अपि ॥
अष्टभिर् निधिभिर् जुष्टम् अष्टभिः सिद्धिभिस् तथा
मनु-रूपैश् च दशभिर् दिक्-पालैः परितो वृतम् ॥
श्यामैर् गौरैश् च रक्तैश् च शुक्लैश् च पार्षदर्षभैः
शोभितं शक्तिभिस् ताभिर् अद्भुताभिः समन्ततः
अथ गोकुलावरणान्य् आह चतुरस्रम् इति चतुर्भिः । तस्य गोकुलस्य बहिः
सर्वतश् चतुरस्रं चतुष्कोणात्मकं स्थानं श्वेतद्वीपाख्यम् । तद् एतद्
उपलक्षणं गोलोकाख्यं चेत्य् अर्थः । यद्यपि गोकुले श्वेतद्वीपत्वम् अस्त्य्
एव तद्-अवान्तर-भूमिमयत्वात् । तथापि विशेष-नाम्नोक्तत्वात् तेनैव तत्
प्रतीयते इति तथोक्तम् । किन्तु चतुरस्रेऽप्य् अन्तर्-मण्डलं
श्री-वृन्दावनाख्यं ज्ञेयम् । तथा च स्वायम्भुवागमे - ध्यायेत्
तत्र-विशुद्धात्मा इदं सर्वं क्रमेण च इत्य् आदिकम् उक्त्वा तन्-मध्ये
वृन्दावनं कुसुमितं नाना-वृक्ष-विहङ्गमं संस्मरेत् इत्य् उक्तम् । तथा
च बृहद्-वामने श्रुतीनां प्रार्थना पूर्वकाणि पद्यानि
आनन्द-मात्रम् इति यद् वदन्ति हि पुराविदः ।
तद्-रूपे दर्शयास्माकं यदि देयो वरो हि नः ॥
श्रुत्वैतद् दर्शयामास स्वं लोकं प्रकृतेः परम् ।
केवलानुभवानन्द-मात्रम् अक्षरम् अव्ययम् ॥
यत्र वृन्दावनं नाम वनं काम-दुघैर् द्रुमैः ।
मनोरम-निकुञ्जाढ्यं सर्वर्तु-सुख-संयुतम् ॥ इत्य् आदि तच् च चतुरस्रम् ।
चतुर्-मूर्तेश् चतुर्-व्यूहस्य वासुदेवादि-चतुष्टयस्य । चतुष्कृतं चतुर्धा
विभक्तम् चतुर्-धाम । किन्तु देव-लीलत्वात् तद्-उपरि-व्योम-यान-स्था एव
ज्ञेया हेतुभिः । तत्-पुरुषार्थ-साधनैः । मनु-रूपैः
स्व-स्व-मन्त्रात्मकैः । दिक्-पालैः इन्द्रादिभिः । श्यामादयः चत्वारो वेदाः
तैर् इत्य् अर्थः । कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिताः इति
दशमात् । शक्तिभिः विमलादिभिः ।
तद् एवं गोलोक-नामा अयं लोकः श्री-भागवते साधितः ।
नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितो ऽब्रवीत् ॥
ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् ।
अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् ॥
इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् ।
सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥
जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः ।
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥
इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥
सत्यं ज्ञानम् अनन्तं यत् ब्रह्म ज्योतिः सनातनम् ।
यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥
ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।
ददृशुर् ब्रह्मणो लोकं यत्राक्रूरो ऽध्यगात् पुरा ॥
नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः ।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भ्प् 10.28.10-17] इति ।
अतीन्द्रियम् अदृष्ट-पूर्वम् । स्व-गतिं स्व-धाम । सूक्ष्मां दुर्ज्ञेयाम् ।
उपाधास्यन् उपधास्यति । अस्मान् प्रापयिष्यतीत्य् अर्थः । इति सङ्कल्पितवन्त
इति शेषः । जनोऽसौ व्रज-वासी मम स्वजनः । सालोक्य-सार्ष्टि- [भ्प् 3.29.12]
इत्य् आदि पद्ये जना इतिवद् उभयत्राप्य् अन्य-जनत्वम् अप्रस्तुततम् इति ।
व्रज-जनस्य तु तदीय-स्वजनतमत्वं तेन स्वयम् एव विभावितम् -
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ [भ्प् 10.25.18] इत्य् अनेन ।
स एतस्मिन् प्रापञ्चिके लोके अविद्याभिर् या उच्चावचा देव-तिर्यग्-आदि-रूपा
गतयस् तासु स्वां गतिं भ्रमन् तन्-मिश्रतयाभिव्यक्तेः तन्-निर्विशेषतया
जानन्, ताम् एव स्वां गतिं भवेद् इत्य् अर्थः मदीय-लौकिक-लीलावेशेन
ज्ञानांश-तिरोधानाद् इति भावः ।
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भ्प् 10.11.28]
इति श्री-दशमोक्तेर् अविद्या-काम-कर्मणां तत्रासामर्थ्यात् । गोपीनां स्वां
लोकं गोलोकम् इति । अर्थात् तान् प्रत्य् एव सन्दर्शयामास । तमसः प्रकृतेः
परम् स्वरूप-शक्त्याभिव्यक्तत्वात् । अतैव सच्चिदानन्द-रूप एवासौ लोक इत्य्
आह सत्यम् इति ।
अथ श्री-वृन्दावने तादृश-दर्शनं कतम-देश-स्थितानां तेषाम् इत्य् अत
आह ते त्व् इति । ब्रह्म-ह्रदं अक्रूर-तीर्थं कृष्णेन नीता पुनश् च तेनैव
मग्नाः मज्जिताः पुनश् च तस्मात् तेनैवोद्धृताः । उद्धृत्य पुनः
स्व-स्थान-प्रापिताः सन्तो, ब्रह्मणः परम-बृहत्तमस्य तस्यैव लोकं
गोलोकाख्यं ददृशुः । मूर्धभिः सत्य-लोकस् तु ब्रह्म-लोकः सनातनं
[भ्प् 2.5.38] इति द्वितीये । वैकुण्ठान्तरस्यापि तत् तयाख्यातेः ।
कोऽसौ ब्रह्म-ह्रदः ? तत्राह यत्रेति । पुरेत्य् एतत्-प्रसङ्गाद् भावि-काल इत्य्
अर्थः । पुरा पुराणे निकटे प्रबन्धातीत-भाविषु इति कोष-काराः । सेयं
च परिपाटी तत् तीर्थं महिमानं लक्ष्यम् एव विधातुम् इति भावः । तत्र
स्वां गतिम् इति तदीयता-निर्देशो गोपानां स्वं लोकम् इति षष्ठी-स्व-शब्दयोर्
निर्देशः । कृष्णम् इति साक्षान्-निर्देशश् च वैकुण्ठान्तरं व्यवच्छिद्य
श्री-गोलोकम् एव स्थापितवान् इति ।
तथा च हरिवंशे शक्र-वचनम् -
स्वर्गाद् ऊर्ध्वं ब्रह्म-लोको ब्रह्मर्षि-गण-सेवितः ।
तत्र सोम-गतिश् चैव ज्योतिषां च महात्मनाम् ॥
तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि ।
स हि सर्व-गतः कृष्ण महाकाश-गतो महान् ॥
उपर्य् उपरि तत्रापि गतिस् तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।
गतिः शम-दमाढ्यानां स्वर्गः सुकृत-कर्मणाम् ॥
ब्राह्म्ये तपसि युक्तानां ब्रह्म-लोकः परा गतिः ।
गवाम् एव तु यो लोको दुरारोहो हि सा गतिः ॥
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघन्तोप्दद्रवान् गवाम् ॥ [ह्व् 2.19.29-35] इति ।
तत्रापात-प्रतीतार्थान्तरे स्वर्गाद् ऊर्ध्वं ब्रह्मणो लोक इत्य् अयुक्तं स्यात्
लोक-त्रयम् अतिक्रम्योक्तेः । तत्र सोम-गतिश् चैवेत्य् अपि न सम्भवति
चन्द्रस्यान्येषाम् अपि ज्योतिषां ध्रुव-लोकाधस्ताद् एव गतेः । तत्र साध्यास्
तं पालयन्तीत्य् अपि नोपपद्यते । देव-योनि-रूपाणां तेषां स्वर्ग-लोकस्यापि
पालनम् असम्भव्यम् । किम् उत तद्-उपरि गोलोकस्य । तथा तस्य लोकस्य
सुरभि-लोकत्वे सति सर्व-गत इत्य् अनुपपन्नं स्यात् ।
श्री-भगवद्-विग्रह-लोकयोर् अचिन्त्य-शक्तित्वेन विभुत्वं घटते न पुनर्
अस्येति । अतैव सर्वातीतत्वात् तत्रापि तव गतिर् इत्य् अपि शब्दो विस्मये प्रयुक्तः ।
यां न विद्मो वयं सर्वे इत्य्-आदिकं चोक्तम् ।
तस्मात् प्राकृत-गोलोकाद् अन्य एवासौ गोलोक इति सिद्धम् । तथा च
मोक्ष-धर्मे नारायणीयोपाख्याने श्री-भगवद्-वाक्यं -
एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् ।
ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ [म्भ् 12.330.68] इति ।
तस्माद् अयम् अर्थः स्वर्ग-शब्देन --
भूर्-लोकः कल्पितः पद्भ्यां भुवर्-लोको ऽस्य नाभितः ।
हृदा स्वर्-लोक उरसा महर्-लोको महात्मनः ॥ [भ्प् 2.5.42]
इति द्वितीयानुसारेण स्वर्-लोकम् आरभ्य सत्य-लोक-पर्यन्तं लोक-पञ्चकम्
उच्यते । तस्माद् ऊर्ध्वम् उपरि ब्रह्म-लोको ब्रह्मात्मको लोको ब्रह्म-लोकः
सच्-चिद्-आनन्द-रूपत्वात् । ब्रह्मणो भगवतो लोक इति वा । मूर्धभिः
सत्य-लोकस् तु ब्रह्म-लोकः सनातनः [भ्प् 2.5.38] इति द्वितीयात् । तथा च टीका
-ब्रह्म-लोको वैकुण्ठाख्यः । सनातनो नित्यः । न तु सृज्यः
प्रपञ्चान्तर्वर्ती । इत्य् एषा । श्रुतिश् च एष ब्रह्म-लोकः । एष आत्म-लोकः ।
इति ।
स च ब्रह्मर्षि-गण-सेवितः । ब्रह्माणि मूर्तिमन्तो वेदाः । ऋषयश् च
श्री-नारदादयः । गणाश् च श्री-गरुड-विष्वक्सेनादयः । तैः सेवितः । एवं
नित्याश्रितान् उक्त्वा तद्-गमनाधिकारिण आह । तत्र ब्रह्म-लोके उमया सह
वर्तत इति सोमः श्री-शिवस् तस्य गतिः ।
स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्
विरिञ्चताम् एति ततः परं हि माम् ।
अव्याकृतं भागवतो ऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये ॥ [भ्प् 4.24.29] इति चतुर्थे
श्री-रुद्र-गीतम् ।
सोमेति सुपां सुलुग् इत्य् आदिना षष्ठ्या लुक् छान्दसः । तत उत्तरत्रापि गतिर्
इत्य् अस्यान्वयः । ज्योतिर् ब्रह्म तद्-ऐकात्म्य-भावानां मुक्तानाम् इत्य् अर्थः ।
ननु तादृशाम् अपि सर्वेषां किन्तु महात्मनां महाशयानां
मोक्षानादरतया भजतां श्री-सनकादि-तुल्यानाम् इत्य् अर्थः ।
मुक्तानाम् अपि सिद्धानां नारायण-परायणः
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥ [भ्प् 6.14.5] इति षष्ठात् ।
योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता 6.47] इति
गीताभ्यश् च ।
तेष्व् एव महत्त्व-पर्यवसनात् । तस्य च ब्रह्म-लोकस्योपरि
सर्वोर्ध्व-प्रदेशे गवां लोकः श्री-गोलोक इत्य् अर्थः । तं च गोलोकं
साध्याः प्रापञ्चिक-देवानां प्रसाधनीया मूल-रूपा
नित्य-तदीय-देव-गणाः पालयन्ति दिक्-पालतया वर्तन्ते ते ह नाकं
महिमानः सचन्तः यत्र पूर्वे साध्याः सन्ति देवाः [र्क् 10.90.16] इति श्रुतेः ।
तत्र पूर्वे ये च साध्या विश्वे देवाः सनातनाः ।
ते ह नाकं महिमानः सचन्तः शुभ-दर्शनाः ॥ इति
महा-वैकुण्ठ-वर्णने पाद्मोत्तर-खण्डाच् च ।
यद् वा तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि
[भ्प् 10.14.34] इति श्री-ब्रह्म-स्तवानुसारेण तद्-विध-परम-भक्तानाम् अपि
साध्यास् तादृश-सिद्धि-प्राप्तये प्रासाधनीयाः श्री-गोपी-प्रभृतयस् तं
पालयन्ति ।
तद् एवं सर्वोपरि-गतत्वेऽपि । हि प्रसिद्धौ । स श्री-गोलोकः सर्व-गतः
श्री-नारायण इव प्रापञ्चिकाप्रापञ्चिक-वस्तु-व्यापकः । कैश्चित्
क्रम-मुक्ति-व्यवस्थया तथा प्राप्यमानोऽप्य् असौ
द्वितीय-स्कन्ध-वर्णित-कमलासन-दृष्ट-वैकुण्ठवत् श्री-व्रज-वासिन्भिर्
अत्रापि यस्माद् दृष्ट इति भावः ।
अतैव महान् भगवद्-रूप एव । महान्तं विभुम् आत्मानम् [कठु 2.22]
इति श्रुतेः । तत्र हेतुः । महाकाशः परम-व्योमाख्यः
ब्रह्म-विशेषण-लाभाद् आकाशस् तल्-लिङ्गाद् [व्स् 1.1.22] इति न्याय-प्रसिद्धेश्
च । तद्-गत-ब्रह्माकारोदयान्तरम् एव वैकुण्ठ-प्राप्तेः यथाजामिलस्य ।
तद् एवम् उपर्य् उपरि सर्वोपर्य् अपि विराजमाने तत्र श्री-गोलोकेऽपि तव गतिः ।
श्री-गोविन्द-रूपेण क्रीडा वर्तत इत्य् अर्थः ।
अतैव सा च गतिः साधारणी न भवति किन्तु तपोमयी ।
तपोऽत्रानवच्छिन्नैश्वर्यं सहस्र-नाम-भाष्येऽपि परमं यो महत् तपः
इत्य् अत्र तत्र व्याख्यातम् । स तपोऽतप्यत इति परमेश्वर-विषयक-श्रुतेः ।
ऐश्वर्यं प्राकाशयद् इति तत्रार्थः । अतैव ब्रह्मादि-दुर्वितर्क्यत्वम् अप्य्
आह याम् इति । अधुना तस्य श्री-गोलोक इत्य् आख्या बीजम् अभिव्यञ्जयति गतिर्
इति । ब्राह्म्ये ब्रह्म-लोक-प्रापके तपसि विष्णु-विषयक-मनः-प्रणिधाने
युक्तानां यत-चित्तानां तत्-प्रेम-भक्तानाम् इत्य् अर्थः । यस्य ज्ञान-मयं
तपः इति श्रुतेः । ब्रह्म-लोको वैकुण्ठ-लोकः । परा प्रकृत्यतीता । गवां
व्रज-वासि-मात्राणां मोचयन् व्रज-गवां दिन-तापम् [भ्प् 10.35.25]
इत्य्-उक्तानुसारेण अत्रैव निघ्नतोपद्रवान् गवाम् इत्य् उक्त्या च
गोलोक-वासि-मात्राणां स्वतस् तद्-भाव-भावितानां च साधन-वशाद् इत्य्
अर्थः । अतस् तद्-भावस्य दुर्लभत्वाद् दुरारोहा । तद् एवं गोलोकं
वर्णयित्वा तस्य गोकुलेन सहाभेदम् आह स त्व् इति ।
स एव तु स लोको धृतो रक्षितः श्री-गोवर्धनोद्धरणेनेति । एवम् एव
मोक्ष-धर्म-श्री-नारायणीयोपाख्याने श्री-भगवद्-वाक्यम् -
एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् ।
ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ [म्भ् 12.330.68] इति ।
तथा च मृत्यु-सञ्जय-तन्त्रे --
एकदा सान्तरीक्षाच् च वैकुण्ठं स्वेच्छया भुवि ।
गोकुलत्वेन संस्थाप्य गोपीमय-महोत्सवा ।
भक्ति-रूपां सतां भक्तिम् उत्पादितवती भृशम् ॥ इति ।
एवं नारद-पञ्चरात्रे विजयाख्याने -
तत् सर्वोपरि गोलोके श्री-गोविन्दः सदा स्वयम् ।
विहरेत् परमानन्दी गोपी-गोकुल-नायकः ॥ इति ।
तथा ऋक्षु चायम् एव प्रदिष्टः -
तां वां वास्तून्य् उश्मसि गमध्यै
यत्र गावो भूरि-शृङ्गा अयासः ।
अत्राह तद् उरुगायस्य वृष्णः
परमं पदम् अवभाति भूरि ॥ इति ।
व्याख्यातं च - तां तानि वां युवयोः कृष्ण-रामयोर् वास्तूनि लीला-स्थानानि
गमध्यै प्राप्तुं उश्मसि कामयामहे । तानि किं विशिष्टानि ? यत्र येषु
भूरि-शृङ्गा महा-शृङ्ग्यो गावो बहु-शुभ-लक्षणा इति वा । अयासः शुभाः ।
अयः शुभावहो विधिर् इत्य् अमरः । देवास इतिवत् जसन्तं पदम् । अत्र
भूमौ तल्-लोके वेदे च प्रसिद्धं श्री-गोलोकाख्यं उरुगायस्य स्वयं
भगवतो तच्-चरणारविन्दस्य परमं प्रपञ्चातीतं पदं स्थानं भूरि
बहुधा अवभातीत्य् आह वेद इति ।
यजुःसु - माध्यन्दिनीया स्तूयते धामान्य् उश्मसि इत्य् आदौ । विष्णोः
परमं पदम् अवभातीति भूरीति चात्र प्रकारान्तरं पठन्ति शेषं
समानम्
एवं ज्योतिर्-मयो देवः सद्-आनन्दं परात् परः ।
आत्मारामस्य तस्यास्ति प्रकृत्या न समागमः
अथ मूल-व्याख्याम् अनुसरामः । विराट्-तद्-अन्तर्यामिनोर् अभेद-विवक्षया
पुरुष-सूक्तादाव् एक-पुरुषत्वं यथा निरूपितं, तथा
गोलोक-तद्-अधिष्ठात्रोर् अप्य् आह एवम् इति । देवो गोलोकस्
तद्-अधिष्ठातृ-श्री-गोविन्द-रूपः । सदानन्दम् इति तत्-स्वरूपम् इत्य् अर्थः ।
नपुंसकत्वं विज्ञानम् आनन्दं ब्रह्म इति श्रुतेः । आत्मारामस्य
अन्य-निरपेक्षस्य प्रकृत्या मायया न समागमः । यथोक्तं द्वितीये - न
यत्र माया किम् उतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः [भ्प् 2.9.10]
माययारममाणस्य न वियोगस् तया सह ।
आत्मना रमया रेमे त्यक्त-कालं सिसृक्षया ।
नियतिः सा रमा देवि तत्-प्रिया तद्-वशं तदा
अथ प्रपञ्चात्मनस् तद्-अंशस्य पुरुषस्य तु न तादृशत्वम् इत्य् आह
माययेति । प्राकृत-प्रलयेऽपि तस्मिंस् तस्यालयात् यस्यांशांशांश-भागेनेत्य्
आदेः ।
ननु तर्हि जीववत्-तल्-लिप्तत्वेन अनिईश्वरत्वं स्यात् ? तत्राह आत्मनेति । स तु
आत्मना अन्तर्वृत्या तु रमया स्वरूप-शक्त्यैव रेमे रतिं प्राप्नोति । बहिर्
एव मायया सेव्य इत्य् अर्थः ।
एष प्रपन्न-वरदो रमयात्म-शक्त्या
यद् यत् करिष्यति गृहीत-गुणावतारः ॥ [भ्प् 3.9.23] इति तृतीये ब्रह्म-स्तवात् ।
अत्र -मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि [भ्प् 1.7.23] इति
प्रथमे श्रीमद्-अर्जुन-वचनात् । तर्हि तत्-प्रेरणं विना कथं सृष्टिस्
तत्राह । सिसृक्षया स्रष्टुम् इच्छया त्यक्तः सृष्ट्य्-अर्थं प्रहितः कालः
यस्मात् रमणात् तादृशं यथा स्यात् तथा रेमे । प्रथमान्त-पाठस् तु
सुगमः । तत् प्रभाव-रूपेण तेनैव सा सिध्यतीति भावः ।
प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् [भ्प् 3.26.16]
काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः ।
पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ [भ्प् 3.5.26] इति च तृतीयात् ।
ननु रमैव सा का तत्राह नियतिर् इत्य् अर्धेन । नियम्यते स्वयं
भगवत्येव नित्यता भवतीति नियतिः स्वरूप-भूता तच्-छक्तिः । देवी
द्योतमाना स्व-प्रकाश-रूपा इत्य् अर्थः । तद्-उक्तं द्वादशे - अनपायिनी
भगवती श्रीः शाक्षाद् आत्मनो हरेः [भ्प् 12.11.20] इति । टीका च --
अनपायिनी हरेः शक्तिः । तत्र हेतुः साक्षाद् आत्मन इति स्वरूपस्य
चिद्-रूपत्वात् तस्यास् तद्-अभेदाद् इत्य् अर्थः । इत्य् एषा ।
अत्र साक्षात्-शब्देन विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया इत्य्
आद्य्-उक्त्या माया नेति ध्वनितम् । तत्रानपायित्वं यथा विष्णु-पुराणे
नित्यैव सा जगन्-माता विष्णोः श्रीर् अनपायिनी
यथा सर्व-गतो विष्णुस् तथैवेयं द्विजोत्तमः ॥ [विप् 1.8.17] इति ।
एवं यथा जगत्-स्वामी देव-देवो जनार्दनः ।
अवतारं करोत्य् एषा तथा श्रीस् तत्-सहायिनी ॥ [विप् 1.9.142] इति च ।
देवत्वे देव-देहा सा मानुषत्वे च मानुषी ।
हरेर् देहानृ-रूपां वै करोत्य् एषात्मनस् तनुम् ॥ [विप् 1.9.145] इति च ।
हयशीर्ष-पञ्चरात्रे - न विष्णुना विना देवी न हरिः पद्मजां विना इति
तल्-लिङ्गं भगवान् शम्भुर् ज्योति-रूपः सनातनः ।
या योनिः सापरा शक्तिः कामो बीजं महद् धरेः
ननु कुत्रापि शिव-शक्त्योः कारणता श्रूयते, तत्र विराड्-वर्णनवत्
कल्पनयेति तद्-अङ्ग-विशेषत्वेनाह - तल्-लिङ्गम् इति । यस्यायुतायुतांशांशे
विश्व-शक्तिर् इयं स्थिता इति विष्णु-पुराणानुसारेण प्रपञ्चात्मनस्
तस्यमहा-भगवद्-अंशस्य स्वांश-ज्योतिर्-आच्छन्नत्वाद् अप्रकट-रूपस्य
पुरुषस्य लिङ्गं लिङ्ग-स्थानीयः यः प्रपञ्चोत्पादकोऽंशः स एव
शम्भुः । अन्यस् तु तद्-आविर्भाव-विशेषत्वाद् एव शम्भुर् उच्यते इत्य् अर्थः ।
वक्ष्यते च क्षीरं यथा दधि-विकार-विशेष-योगाद् सञ्जायते न तु ततः
पृथग् अस्ति हेतोर् इत्य् आदि ।
तथा तस्य वीर्यावधान-स्थान-रूपाया मायाया अप्य् अप्रकट-रूपाया या
योनिर् योनि-स्थानीयोऽंशः सैवापरा प्रधानाख्या शक्तिर् इति पूर्ववत् । तत्र
च हरेस् तस्य पुरुषाख्य-हर्य्-अंशस्य कामो भवति सृष्ट्य्-अर्थं
तद्-दिदिऋक्षा जायते इत्य् अर्थः । ततश् च महद् इति स-जीव-महत्-तत्त्व-रूपं
तु मायायाम् इति तृतीयाच् च
लिङ्ग-योन्य्-आत्मिका जाता इमा माहेश्वरी-प्रजाः
वस्तुतस् तु पूर्वाभिप्रायत्वम् एवेत्य् आह लिङ्गेत्य् अर्धेन । माहेश्वरीः
माहेश्वर्यः
शक्तिमान् पुरुषः सो ऽयं लिङ्ग-रूपी महेश्वरः ।
तस्मिन्नाविरभूल्लिङ्गे महा-विष्णुर् जगत्-पतिः
शक्तिमान् इत्य् अर्धेन तद् एवानूद्य तस्मिन् पूर्वोक्ताप्रकट-रूपस्य
प्रकट-रूपतयापुनर् अभिव्यक्तिर् इत्य् आह तस्मिन्न् इत्य् अर्धेन । तस्माल्
लिङ्ग-रूपी प्रपञ्चोत्पादकस् तद्-अंशोऽपि शक्तिमान् पुरुषोच्यते ।
महेश्वरोऽप्य् उच्यते ततश् च तस्मिन् भूत-सूक्ष्म-पर्यन्ततां प्राप्ते लिङ्गे
स्वयं तद्-अंशी महा-विष्णुर् आविरभूत् प्रकट-रूपेणाविर्भवति । यतो
जगतां सर्वेषां परावरेषां जीवानां स एव पतिर् इति
सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्र-पात् ।
सहस्र-बाहुर् विश्वात्मा सहस्रांशः सहस्र-सूः
तद् एवं रूपं विवृणोति सहस्र-शीर्षेति । सहस्रम् अंशा अवतारा यस्य स
सहस्रांशः । सहस्रं सूते सृजति यः स सहस्र-सूः ।
सहस्र-शब्द-सर्वत्रासङ्ख्यता-परः । द्वितीये च तस्यैव रूपम् इदम्
उक्तम् -- आद्योऽवतारः पुरुषः परस्य [भ्प् 2.6.42] इति । अस्य टीकायां - यस्य
सहस्र-शीर्षेत्य् उक्तो लीला-विग्रहः परस्य भूम्नः आद्योऽवतारः इति
नारायणः स भगवान् आपस् तस्मात् सनातनात् ।
आविरासीत् कारणार्णो निधिः सङ्कर्षणात्मकः ।
योग-निद्रां गतस् तस्मिन् सहस्रांशः स्वयं महान्
अयम् एव कारणार्णवशायीत्य् आह नारायण इति सार्धेन । ताः आप एव
कारणार्णो-निधिर् आविरासीत् स तु नारायणः सङ्कर्षणात्मकः इति । पूर्वं
गोलोकावरणतया यश् चतुर्व्यूह-मध्ये सङ्कर्षणः सम्मतः
तस्यैवांशोऽयम् इत्य् अर्थः । तद् उक्तं -
आपो नारा इति प्रोक्ता आपो वै नर-सूनवः ।
तस्य ता अयनं पूर्वं तेन नारायणः स्मृतः
तद्-रोम-बिल जालेषु बीजं सङ्कर्षणस्य च ।
हैमान्य् अण्डानि जातानि महा-भूतावृतानि तु
तस्माद् एव ब्रह्माण्डानाम् उत्पत्तिम् आह तद् रोमेति । तद् इति तस्येत्य् अर्थः
तस्य सङ्कर्षणात्मकस्य यद् बीजं योनि-शक्तावध्यस् तं तद् एव पूर्वं
भूत-सूक्ष्म-पर्यन्ततां प्राप्तं सत् पश्चात् तस्य लोम-बिल-जालेषु विवरेषु
अन्तर्भूतं च सत् हैमानि अण्डानि जातानि तानि चापञ्ची-कृतांशैः
महाभूतैर् जातानीत्य् अर्थः । तद् उक्तं दशमे ब्रह्मणा -
क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या-
वाताध्व-रोम-विवरस्य च ते महित्वम् ॥ [भ्प् 10.14.11] इति ।
तृतीये च -
विकारैः सहितो युक्तैर् विशेषादिभिर् आवृतः ।
आण्डकोशो बहिर् अयं पञ्चाशत्-कोटि-विस्तृतः ॥
दशोत्तराधिकैर् यत्र प्रविष्टः परमाणुवत् ।
लक्ष्यते ऽन्तर्-गताश् चान्ये कोटिशो ह्य् अण्ड-राशयः ॥ [भ्प् 3.11.39-40] इति
प्रत्य्-अण्डम् एवम् एकांशाद् एकांशाद् विशति स्वयम् ।
सहस्र-मूर्धा विश्वात्मा महा-विष्णुः सनातनः
ततश् च तेषु ब्रह्माण्डेषु पृथक् पृथक् स्वरूपैः स्वरूपान्तरैः स एव
प्रविवेशेत्य् आह प्रत्यण्डम् इति । एकांशाद् एकांशाद् एकेनैकेनांशेनेत्य्
अर्थः
वामाङ्गाद् असृजद् विष्णुं दक्षिणाङ्गात् प्रजापतिम् ।
ज्योतिर्-लिङ्ग-मयं शम्भुं कूर्च-देशाद् अवासृजत्
पुनः किं चकार तत्राह - वामाङ्गाद् इति । विष्ण्व्-आदय इमे सर्वेषाम् एव
ब्रह्माण्डानां पालकादयः प्रति ब्रह्माण्डान्तः स्थितानां विष्ण्व्-आदीनां
स्वांशानां प्रयोक्तारः । यथा प्रति-ब्रह्माण्डे तथा अधि
ब्रह्माण्ड-मण्डलम् अभ्युपगन्तव्यम् इति भावः । येषु प्रजापतिर् अयं
हिरण्यगर्भ-रूप एव न तु वक्ष्यमाण-चतुर्मुख-रूप एव, सोऽयं
तत्-तद्-आवरण-गत-तत्-तद्-देवानां स्रष्टेति । विष्णु-शम्भू अपि
तत्-तत्-पालन-संहार-कर्तारौ ज्ञेयौ । कूर्च-देशात् भ्रुवोर् मध्यात् । एषां
जलावरण एव स्थानानि ज्ञेयानि
अहङ्कारात्मकं विश्वं तस्माद् एतद् व्यजायत
तत्र शम्भोः कार्यान्तरम् अप्य् आह अहङ्कारात्मकम् इत्य् अर्धेन । एतद्
विश्वं तस्माद् एवाहङ्कारात्मकं व्यजायत बभूव ।
विश्वस्याहङ्कारात्मकता तस्माज् जातेत्य् अर्थः सर्वाहङ्काराधिष्ठातृत्वात्
तस्य
अथ तैस् त्रि-विधैर् वेशैर् लीलाम् उद्वहतः किल ।
योग-निद्रा भगवती तस्य श्रीर् इव सङ्गता
ब्रह्माण्ड-प्रविष्टस्य तु तत्-तद्-रूपस्य लीलाम् आह अथ तैर् इत्य् आदि । तैस् तत्
सदृशैस् त्रिविधैः प्रति-ब्रह्माण्ड-गत-विष्ण्व्-आदिभिर् वेशै रूपैर् लीलां
ब्रह्माण्डान्तर्गत-पालनादि-रूपाम् उद्वहतो
ब्रह्माण्डान्तर्गत-पुरुषस्येति ताम् उद्वहति । तस्मिन्न् इत्य् अर्थः ।
योग-निद्रा - पूर्वोक्त-महा-योग-निद्रांश-भूता भगवती
स्वरूपानन्द-समाधिमयत्वाद् अन्तर्भूत-सर्वैश्वर्या सङ्गता श्रीर् इवेति ।
तत्र यथा श्रीर् अप्य् अंशेन सङ्गता तथा सापीत्य् अर्थः
सिसृक्षायां ततो नाभेस् तस्य पद्मं विनिर्ययौ ।
तन्-नालं हेम-नलिनं ब्रह्मणो लोकम् अद्भुतम्
ततश् च सिसृक्षायाम् इति । नालं नाल-युक्तं तद्-धेम-नलिनं ब्रह्मणो
जन्म-शयनयोः स्थानत्वात् लोक इत्य् अर्थः
तत्त्वानि पूर्व-रूढानि कारणानि परस्परम् ।
समवायाप्रयोगाच् च विभिन्नानि पृथक् पृथक् ॥
चिच्-छक्त्या सज्जमानो ऽथ भगवान् आदि-पूरुषः ।
योजयन् मायया देवो योग-निद्राम् अकल्पयत्
तथा असङ्ख्य-जीवात्मकस्य समष्टि-जीवस्य प्रबोधं वक्तुं पुनः
कारणार्णोनिधि-शायिनस् तृतीय-स्कन्धोक्तानुसारिणीं सृष्टि-प्रक्रियां
विवृत्याह - तत्त्वानीति त्रयेण । तत्र द्वयम् आह - मायया स्व-शक्त्या
परस्परं तत्त्वानि योजयन्न् इति योजनानन्तरम् एव निरीहतया योग-निद्राम्
एव स्वीकृतवान् इत्य् अर्थः
योजयित्वा तु तान्य् एव प्रविवेश स्वयं गुहाम् ।
गुहां प्रविष्टे तस्मिंस् तु जीवात्मा प्रतिबुध्यते
अथ तृतीयम् आह योजयित्वेति । योजयित्वा तद् योजना-योग-निद्रयोर् अन्तराले इत्य्
अर्थः । गुहाः विराड्-विग्रहम् । प्रतिबुध्यते प्रलय-स्वापाज् जागर्ति
स नित्यो नित्य-सम्बन्धः प्रकृतिश् च परैव सा
जीवस्य स्वाभाविकी स्थितिम् आह स नित्य् इत्य् अर्धेनेति ।
नित्योऽनाद्य्-अनन्त-काल-भावी नित्य-सम्बन्धो भगवता सह समवायो
यस्य सः । सूर्येण तद्-रश्मि-जालस्येवेति भावः ।
यत्-तटस्थं तु चिद्-रूपं स्व-संवेद्याद् विनिर्गतम् ।
रञ्जितं गुण-रागेण स जीव इति कथ्यते ॥ इति नारद-पञ्चरात्रात् ।
ममैवांशो जीव-लोके जीव-भूतः सनातनः ॥ इति श्री-गीतोपनिषद्भ्यश् च ।
अतैव प्रकृतिः साक्षि-रूपेण स्वरूप-स्थित एव । स्व-प्रतिबिम्ब-रूपेण
प्रमातृ-रूपेण प्रकृतिम् इव प्राप्तश् चेत्य् अर्थः । प्रकृतिं विद्धि मे पराम्
जीव-भूताम् इति श्री-गीतास्व् एव । द्वा सुपर्णा सयुजा सखाया इति श्रुतिश् च
नित्य-स्वरूपं दर्शयति
एवं सर्वात्म-सम्बन्धं नाभ्यां पद्मं हरेर् अभूत् ।
तत्र ब्रह्माभवद् भूयश् चतुर्-वेदि चतुर्-मुखः
अथ तस्य समष्टि-जीवास्थानं गुहा-प्रविष्टात् पुरुषाद् उद्भूतम् इत्य् आह
एवम् इति । ततः समष्टि-देहाभिमानिनस् तस्य हिरण्य-गर्भ-ब्रह्मणस्
तस्मात् भोग-विग्रहोत्पत्तिम् आह तत्रेति
स जातो भगवच्-छक्त्या तत्-कालं किल चोदितः ।
सिसृक्षायां मतिं चक्रे पूर्व-संस्कार-संस्कृतः ।
ददर्श केवलं ध्वान्तं नान्यत् किम् अपि सर्वतः
अथ तस्य चतुर्मुखस्य चेष्टाम् आह स जात इत्य् सार्धेन । स्पष्टम्
उवाच पुरतस् तस्मै तस्य दिव्य सरस्वती ।
कामः कृष्णाय गोविन्द हे गोपी-जन इत्य् अपि ।
वल्लभाय प्रिया वह्नेर् मन्त्रम् ते दास्यति प्रियम्
अथ तस्मिन् पूर्वोपासना-भाग्य-लब्धां भगवत्-कृपाम् आहोवाचेति
सार्धेन । स्पष्टम्
तपस् त्वं तप एतेन तव सिद्धिर् भविष्यति
एतद् एव स्पर्शेषु यत् षोडशम् एकविंशम् इति तृतीय-स्कन्धानुसारेण योजयति
तप त्वं इत्य् अर्धेन । स्पष्टम्
अथ तेपे स सुचिरं प्रीणन् गोविन्दम् अव्ययम् ।
श्वेतद्वीप-पतिं कृष्णं गोलोक-स्थं परात् परम् ॥
प्रकृत्या गुण-रूपिण्या रूपिण्या पर्युपासितम् ।
सहस्र-दल-सम्पन्ने कोटि-किञ्जल्क-बृंहिते ॥
भूमिश् चिन्तामणिस् तत्र कर्णिकारे महासने ।
समासीनं चिद्-आनन्दं ज्योति-रूपं सनातनम् ॥
शब्द-ब्रह्म-मयं वेणुं वादयन्तं मुखाम्बुजे ।
विलासिनी-गण-वृतं स्वैः स्वैर् अंशैर् अभिष्टुतम्
स तु तेन मन्त्रेण स्व-कामना-विशेषानुसारात् सृष्टिकृत्-शक्ति-विशिष्टतया
वक्ष्यमाणस् तवानुसारात् गोकुलाख्य-पीठ-गततया श्री-गोविन्दम्
उपासितवान् इत्य् आह -- अथ तेपे इत्य् आदि चतुर्भिः । गुण-रूपिण्या
सत्त्व-रजस्-तमो-गुण-मय्या रूपिण्या मूर्तिमत्या पर्युपासितं परितस् तद्
गोकुलाद् बहिः-स्थितयोपासितम् ध्यानादिना अर्चितम् । माया परेत्य् अभिमुखे
च विलज्जमाना [भ्प् 2.7.47] इति । बलिम् उद्वहन्त्य् अजया निमिषा इति च
श्री-भागवतात् । अंशैस् तद्-आवरण-स्थैः परिकरैः
अथ वेणु-निनादस्य त्रयी-मूर्ति-मयी गतिः ।
स्फुरन्ती प्रविवेशाशु मुखाब्जानि स्वयम्भुवः ॥
गायत्रीं गायतस् तस्माद् अधिगत्य सरोजजः ।
संस्कृतश् चादि-गुनुणा द्विजताम् अगमत् ततः
तद् एवं दीक्षातः परस्ताद् एव तस्य ध्रुवस्येव द्विजत्व-संस्कारस्
तद्-आराधितात् तन्-मन्त्राधिदेवाज् जातः इत्य् आह अथ वेण्व् इति द्वयेन ।
त्रयी-मूर्तिर् गायत्री वेद-मातृत्वात् । द्वितीय पद्ये तस्य एव व्यक्तिभावित्वाच्
च । तन्-मयी गतिः परिपाटी । मुखाब्जानि प्रविवेशेत्य् अष्ट-कर्णैः
प्रविवेशेत्य् अर्थः । आदि-गुरुणा श्री-कृष्णेन
त्रय्या प्रबुद्धो ऽथ विधिर् वीज्ञात-तत्त्व-सागरः ।
तुष्टाव वेद-सारेण स्तोत्रेणानेन केशवम्
ततश् च त्रयीम् अपि तस्मात् प्राप्य तम् एव तुष्टावेत्य् आह त्रय्येति । केशान्
अंशून वयति विस्तारयतीति केशवस् तम् ।
अंशवो ये प्रकाशन्ते मम् ते केश-संज्ञिताः ।
सर्वज्ञाः केशवं तस्मान् माम् आहुर् मुनि-सत्तमाः ॥
इति सहस्र-नाम-भाष्योत्थापित-केशव-निरुक्तौ भारत-वचनात्
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभिर् अभिपालयन्तम् ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
स्तुतिम् आह चिन्तामणीत्य् आदिभिः । तत्र गोलोकेऽस्मिन् मन्त्र-भेदेन
तद्-एक-देशेषु बृहद्-ध्यान-मयादिष्व् एकस्यापि मन्त्रस्य रास-मयादिषु
च पीठेषु सत्स्व् अपि मध्यस्थत्वेन मुख्यतया प्रथमं
गोलोकाख्य-पीठ-निवास-योग्य-लीलया स्तौति चिन्ताम्णीत्य् एकेन ।
अभि सर्वतो-भावेन
वन-नयन-चारण-गो-स्थानानयन-सम्भालन-प्रकारेण पालयन्तं
स-स्नेहं रक्षन्तम् । कदाचिद् रहसि तु वैलक्षण्यम् इत्य् आह लक्ष्मीति
लक्ष्म्योऽत्र गोप-सुन्दर्य एवेति व्याख्यातम् एव
वेणुं क्वणन्तम् अरविन्द-दलायताक्षम्-
बर्हावतंसम् असिताम्बुद-सुन्दराङ्गम् ।
कन्दर्प-कोटि-कमनीय-विशेष-शोभं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
तद् एवं चिन्तामणि-प्रकर-सद्म-मयीं कथा-गानं नाट्यं गमनम्
अपीति वक्ष्यमाणानुसारेण गोलोखाख्य-विलक्षण-पीठ-गतां लीलाम् उक्त्वा
एक-स्थान-स्थितिकां कथा-गानादि-रहितां बृहद्-ध्यानादि-दृष्टां
द्वितीय-पीठ-गतां लीलाम् आह वेणुम् इति द्वयेन । वेणुम् इति तत्र
स्पष्टम्
आलोल-चन्द्रक-लसद्-वनमाल्य-वंशी-
रत्नाङ्गदं प्रणय-केलि-कला-विलासम् ।
श्यामं त्रि-भङ्ग-ललितं नियत-प्रकाशं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
आलोलेत्य् आदि । प्रणय-पूर्वको यः केलि-परिहासस् तत्र या वैदग्धी सैव
विलासो यस्य तं, द्रव-केलि-परीहासा इत्य् अमरः
अङ्गानि यस्य सकलेन्द्रिय-वृत्ति-मन्ति
पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्द-चिन्मय-सद्-उज्ज्वल-विग्रहस्य
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
तद् एवं लीला-द्वयम् उक्त्वा परमाचिन्त्य-शक्त्या वैभव-विशेषान् आह
अङ्गानीति चतुर्भिः । तत्र श्री-विग्रहस्य अङ्गानि हस्तोऽपि द्रष्टुं शक्नोति,
चक्षुर् अपि पालयितुं पारयति, तथा अन्यद् अन्यद् अप्य् अङ्गम् अन्यद् अन्यत्
कलयितुं प्रभवतीति । एवम् एवोक्तं - सर्वतः पाणि-पादं तत्
सर्वतोऽक्षि-शिरो-मुखम् इत्य् आदि । जगन्तीति । लीला-परिकरेषु तत्-तद्-अङ्गं
यथा-स्वम् एव व्यवहरतीति भावः । तत्र च तस्य विग्रहस्य वैलक्षण्यम्
एव हेतुर् इत्य् आह आनन्देति
अद्वैतम् अच्युतम् अनादिम् अनन्त-रूपम्
आद्यं पुराण-पुरुषं नव-यौवनं च ।
वेदेषु दुर्लभम् अदुर्लभम् आत्म-भक्तौ
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
वैलक्षण्यम् एव पुष्णाति अद्वैतम् इति त्रिभिः । अद्वैतं पृथिव्या मयम्
अद्वैतो राजेत्वद् अतुल्यम् इत्य् अर्थः । विस्मापनं स्वस्य च
तृतीय-स्थस्योद्धव-वाक्यात् । अच्युतं
न च्यवन्ते हि यद् भक्ताः महत्यां प्रलयापदि ।
अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ॥ इति काशी-काण्ड-वचनात् ।
कंसो बताद्याकृतम् एत्य् अनुग्रहं
द्रक्ष्येऽङ्घ्रि-पद्मं प्रहितोऽमुना हरेः ।
कृतावतारस्य दुरत्ययं तमः
पूर्वेऽतरन् यन् नख-मण्डल-त्विषा ॥
यद्-अर्चितं ब्रह्म-भवादिभिः सुरैः श्रिया च इत्य् आदि
दशम-स्थाक्रूर-वाक्यान् ।
या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर्
योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् ।
कृष्णस्य तद् भगवतश् चरणारविन्दं
न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ [भ्प् 10.47.62] इति
श्रीमद्-उद्धव-वाक्यम् ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् [भ्प् 10.28.14] इत्य् उक्त्वा,
नन्दादयस् तु तं दृष्ट्वा
परमानन्द-निर्वृताः ।
कृष्णं च तत्र च्छन्दोभिः
स्तूयमानं सुविस्मिताः ॥ [भ्प् 10.28.17] इति श्री-शुक-वाक्याच् च ।
अनादिम् इत्य् आदि-त्रयं यथैकादश-साङ्ख्य-कथने, कालो माया-मये जीवः
[भ्प् 11.24.27] इत्य् आदौ महा-प्रलये सर्वावशिष्टत्वेन ब्रह्मोपदिश्य तदापि
तस्य द्रष्टृत्वं स्वयं भगवान् स्वस्मिन्न् आह --
एष साङ्ख्य-विधिः प्रोक्तः संशय-ग्रन्थि-भेदनः ।
प्रतिलोमानुलोमाभ्यां परावर-दृशा मया ॥ [भ्प् 11.24.29] इति ।
पुराण पुरुषः -- एकस् त्वम् आत्मा पुरुषः पुराणः [भ्प् 10.14.20] इति
ब्रह्म-वाक्यात् गूढः पुराण-पुरुषो वन-चित्र-माल्यः [भ्प् 7.15.58] इति
माथुर-वाक्याच् च ।
तथापि नव-यौवनं -- पुरापि नवः पुराण इति निरुक्तेः । गोप्यस् तपः किम्
अचरन् यद् अमुष्य रूपम् [भ्प् 10.44.14] इत्य् आदौ । अनुसवाभिनवं इति
दशमात् । यस्याननं मकर-कुण्डलादि नित्योत्सवम् [भ्प् 9.24.65] इति
नवमात् । सत्यं शौचम् इत्य् आदौ सौभग-कान्त्य्-आदीन् पठित्वा,
एते चान्ये च भगवन् नित्या यत्र महा-गुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ [भ्प् 1.16.3] इति
प्रथमात् ।
बृहद्-ध्यानादौ तथा श्रवणात् -- गोप-वेशम् अभ्राभं तरुणं
कल्प-द्रुमाश्रितम् [ग्तु 1.8] इति तापनी-श्रुतौ । तद्-ध्याने तरुण-शब्दस्य
नव-यौवन एव शोभा विधानत्वेन तात्पर्यात् ।
वेदेषु दुर्लभं -- भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम्
[भ्प् 10.47.61] इति । अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव [भ्प् 10.14.34] इति
च श्री-दशमात् ।
अदुर्लभम् आत्म-भक्तौ -- भक्त्याहम् एकया ग्राह्यः [भ्प् 11.14.11] इत्य्
एकादशात् । पुरेह भूमन् [भ्प् 10.14.5] इत्य् आदि श्री-दशमाच् च ।
यद् वा, ननु तस्यातुल्यत्वे किम् इति स्वार्थः । कथं वातुल्यत्वं
निज-भक्तेभ्यः आत्मनो देहस्यापि प्रदानात् । किं वावशिष्यत इत्य् आह
अच्युतम् इति । निज-भक्तेभ्य आत्म-प्रदानादिनापि न विद्यते च्युतिर् यस्य
सदैव एक-रसम् इत्य् अर्थः । तर्हि किं नारायणं स्तौषि तस्यैवाच्युतत्वाद्
अनादेश् च नेत्य् आह अनादिम् इति न विद्यते आदिर् यस्य यस्माद् वा सर्वेषां
परम-कारणं स्वयं तु स्व-प्रकाशं कारण-शून्यम् इत्य् अर्थः । नन्व्
एकेन कथं सर्वेषां परिपालनं घटते इत्य् अत आह अनन्तेति । अनन्तं
रूपं यस्य । अथवा प्रपञ्च-गतत्वेन नास्त्य् अन्तो यस्य । अथवा अनन्तस्य
रूपं स्वरूपं यस्य । यस्माद् एवांशेनानन्तादीनाम् उत्पत्तिः ।
ननु नारायणाद् एवानन्तादि प्राकाट्य-प्रसिद्धिर् इत्य् आह आद्यं यस्य
विलास-रूपो नारायणस् तम् । ननु ज्ञातं तस्यैव पुरुषाख्यानं, नेत्य् आह
पुराणेति यस्य विलास-वपुः पुरुषाख्यस् तं नन्व् आयातं तस्य वृद्धत्वम्
इत्य् आह नव-यौवनम् इति कैशोरम् इत्य् अर्थः । च-कारात् य एव पुरातनः ।
स एव किशोर-वया इत्य् अनिर्वचनत्वं नित्यत्वं च । ननु वेदेषु नारायण एव
गीयते इत्य् आह । वेदेष्व् इति वेदैस् तत्त्वं ज्ञायते चेत् तेषु सुलभम् इत्य् अर्थः ।
भक्तिं विना न ज्ञायते इत्य् आह अदुर्लभम् इति
पन्थास् तु कोटि-शत-वत्सर-सम्प्रगम्यो
वायोर् अथापि मनसो मुनि-पुङ्गवानाम् ।
सो ऽप्य् अस्ति यत्-प्रपद-सीम्न्य् अविचिन्त्य-तत्त्वे
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
पन्थास् त्व् इति प्रपद-सीम्नि चरणारविन्दयोर् अग्रे ।
चित्रं बतैद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भ्प् 10.69.2]
एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन् बहुधा योऽवभाति । [ग्तु 1.19] इति गोपाल-तापन्याम् ।
तत्र सिद्धान्तम् आह अविचिन्त्य-तत्त्वे इति । आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिः इति
तृतीयात् ।
अचिन्त्याः खलु ये भावा न तांस् तर्केन योजयेत् ।
प्रकृतिभ्यः परं यच् च तद् अचिन्त्यस्य लक्षणम् ॥ [म्भ् 6.6.11] इति स्कान्दाद्
भारताच् च ।
श्रुतेस् तु शब्द-मूलत्वात् [व्स् 2.1.27] इति ब्रह्म-सूत्रात् । अचिन्त्यो हि
मणि-मन्त्र-महौषधीनां प्रभावः इति भाष्य-युक्तेश् चेति भावः
एको ऽप्य् असौ रचयितुं जगद्-अण्ड-कोटिं
यच्-छक्तिर् अस्ति जगद्-अण्ड-चया यद्-अन्तः ।
अण्डान्तर-स्थ-परमाणु-चयान्तर-स्थम्-
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
अचिन्त्य-शक्तिम् आह - एकोऽप्य् असाव् इति ।
तावत् सर्वे वत्स-पालाः पश्यतोऽजस्य तत्-क्षणात् ।
व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः ॥ [भ्प् 10.13.46]
इत्य् आरभ्य तैः वत्स-पालादिभिर्
एवानन्त-ब्रह्माण्ड-सामग्री-युत-तत्-तधि-पुरुषाणां तेनाविर्भावनात् ।
जगद्-अण्ड-चया इति न चान्तर् न बहिर् यस्य [भ्प् 10.9.13] इत्य् आदेः । अणोर्
अणीयान् महतो महीयान् [श्वेतु 3.20] इत्य् आदि श्रुतेः । योऽसौ सर्वेषु भूतेषु
आविश्य भूतानि विदधाति स वो हि स्वामी भवति [ग्तु 2.22] । योऽसौ
सर्व-भूतात्मा गोपालः [ग्तु 2.94] । एको देवः सर्व-भूतेषु गूढः [ग्तु
2.96] इत्य् आदि तापनीभ्यः
यद्-भाव-भावित-धियो मनुजास् तथैव
सम्प्राप्य रूप-महिमासन-यान-भूषाः ।
सूक्तैर् यम् एव निगम-प्रथितैः स्तुवन्ति
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
अथ तस्य साधक-चयेष्व् अपि भक्तेषु वदान्यत्वं वदन्न् इत्य् एषु
कैमुत्यम् आह यद्-भावेति । यथा समान-गुण-शील-वयो-विलास-वेशैश् चेत्य्
आगम-रीत्या नित्य-तत्-सङ्गिनां तत् साम्यं श्रूयते तथैव सम्भाव्येत्य्
अर्थः -
वैरेण यं नृपतयः शिशुपाल-पौण्ड्र-
शाल्वादयो गति-विलास-विलोकनाद्यैः ।
ध्यायन्त आकृत-धियः शयनासनादौ
तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ [भ्प् 11.5.48] इत्य् एकादशात्
आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
तत्-प्रेयसीनां तु किं वक्तव्यम्, यतः परम-श्रीणां तासां साहित्येनैव
तस्य तल्-लोके वास इत्य् आह आनन्देति । अखिलानां गोलोक-वासिनां अन्येषाम् अपि
प्रिय-वर्गानां आत्म-भूतः परम-प्रेष्ठतयात्मवद् अव्यभिचार्य् अपि
ताभिर् एव सह निवसतीति तासाम् अतिशयित्वं दर्शितम् । अत्र हेतुः - कलाभिः
ह्लादिनी-शक्ति-वृत्ति-रूपाभिः । अत्रापि वैशिष्ट्यम् आह - आनन्द-चिन्मयो यो
रसः, परम-प्रेम-मय उज्व्वल-नामा, तेन प्रति भाविताभिः । पूर्वं
तावत् तासां तन्-नाम्ना रसेन सोऽयं भावितो वासितो जातः । ततश् च तेन याः
प्रतिभाविता जाताः, ताभिः सह इत्य् अर्थः । प्रतिशब्दाल् लभ्यते । यथा
प्रत्य्-उपकृतः स इत्य् उक्तेः । तस्य प्राग्-उपकारित्वम् आयाति तद्वत् तत्रापि
निज-रूपतया स्व-दारत्वेनैव न तु प्रकट-लीलावत्
पर-दारत्व-व्यवहारेणेत्य् अर्थः । परम-लक्ष्मीणां तासां
तत्-पर-दारत्वासम्भवाद् अस्य स्व-दारत्व-मय-रसस्य
कौतुकावगुण्ठिततया सौमुत्कण्ठा पोषणार्थं प्रकट-लीलायां
माययैव तादृशत्वं व्यञ्जितम् इति भावः । य एव इत्य् एव-कारेण यत्
प्रापञ्चिक-प्रकट-लीलायां तासु पर-दारता-व्यवहारेण निवसति सोऽयं य
एव तद्-अप्रकट-लीलायां तासु पर-दारता व्यवहारेण निवसति सोऽयं य एव
तद्-अप्रकट-लीलास्पदे गोलोके निज-रूपता-व्यवहारेण निवसतीति व्यज्यते ।
तथा च व्याख्यातं गौतमीय-तन्त्रे
तद्-अप्रकट-नित्य-लीला-शीलन-दशार्ण-व्याख्याने - अनेक-जन्म-सिद्धानाम्
इत्य् आदौ दर्शितम् एव । गोलोक एवेत्य् एव-कारेण सेयं लीला तु क्वापि नान्यत्र
विद्यते इति प्रकाश्यते
प्रेमाञ्जन-च्छुरित-भक्ति-विलोचनेन
सन्तः सदैव हृदयेषु विलोकयन्ति ।
यं श्यामसुन्दरम् अचिन्त्य-गुण-स्वरूपं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
यद्यपि गोलोक एव निवसति तथापि प्रेमाञ्जनेति । अचिन्त्य-गुण-स्वरूपम् अपि
प्रेमाख्यं यद् अञ्जन-च्छुरितवद् उच्चैः प्रकाशमानं
भक्ति-रूप-विलोचनं तेनेत्य् अर्थः । तेन प्रतिबिम्बवद् दूराद् अप्य् उदितं
हृदये मनस्य् अपि पश्यन्तीत्य् अर्थः । भक्तिर् अत्र समाधिः । तद् उक्तं
श्री-गीतासु - ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् [गीता 9.29]
इति
रामादि-मूर्तिषु कला-नियमेन तिष्ठन्
नानावतारम् अकरोद् भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत् परमः पुमान् यो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
स एव कदाचित् प्रपञ्चे निजांशेन स्वयम् अवतरतीत्य् आह रामादीन्ति यः
कृष्णाख्यः परमः पुमान् कला-नियमेन तत्र तत्र नियतानाम् एव
शक्तीनां प्रकाशेन रामादि-मूर्तिषु तिष्ठन् तत्-तन्-मूर्तीः प्रकाशयन्
नानावतारम् अकरोत् । य एव स्वयं समभवद् अवततार । तं लीला-विशेषेण
गोविन्दं सन्तम् अहं भजामीत्य् अर्थः । तद् उक्तं श्री-दशमे देवैः --
मत्स्याश्व-कच्छप-नृसिंह-वराह-हंस-
राजन्य-विप्र-विबुधेषु कृतावतारः ।
त्वं पासि नस् त्रि-भुवनं च यथाधुनेश
भारं भुवो हर यदूत्तम वन्दनं ते ॥ [भ्प् 10.2.40] इति
यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
तद् एवं तस्य सर्वावतारित्वेन पूर्णत्वम् उक्त्वा स्वरूपेणाप्य् आह यस्येति ।
द्वयोर् एक-रूपत्वेऽपि विशिष्टतयाविर्भावात् श्री-गोविन्दस्य धर्मि-रूपत्वम्
अविशिष्टतयाविर्भावात् ब्रह्मणो धर्म-रूपत्वं ततः पूर्वस्य
मण्डल-स्नानीयत्वम् इति भावः । तत्र विष्णु-पुराणम् अपि सम्प्रवदते
शुभाश्रयः स-चित्तस्य सर्वगस्य तथात्मनः [विप् 6.7.76] इति । व्याख्यातं
च श्रीधर-स्वामिभिः - सर्वगस्यात्मनः प्पर-ब्रह्मणो अप्य् आश्रयः
प्रतिष्ठा । तद् उक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहम् [गीता 14.27] इति ।
अतैवैकादशे स्व-विभूति-गणनायां तद् अपि स्वयं गणितम् --
पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् ।
विकारः पुरुषो ऽव्यक्तं रजः सत्त्वं तमः परम् ॥ [भ्प् 11.16.37] इति ।
टीका चात्र - परं ब्रह्म च इत्य् एषा । श्री-मत्स्य-देवेनाप्य् अष्टमे
तथोक्तम् - मदीयं महिमानं च परं ब्रह्मेति शब्दितम् [भ्प् 8.24.38] ।
अतैव श्री-यामुनाचार्य-चरणैर् अपि -
यद्-अण्डान्तर-गोचरं च यद्
दशोत्तराण्य् आवरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म च ते विभूतयः ॥ [स्तोत्र-रत्नम् 14] इति ।
अतैवाह ध्रुवश् चतुर्थे -
या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ [भ्प् 4.9.10]
अतैवात्मारामाणाम् अपि तद् गुणेनाकर्षः श्रूयते ।
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्भूतो गुणो हरिः ॥ [भ्प् 1.7.11] इति ।
अत्र विशेष-जिज्ञासा चेत् श्री-भागवत-सन्दर्भो दृश्यताम् इत्य् अलम्
अतिविस्तरेण
माया हि यस्य जगद्-अण्ड-शतानि सूते
त्रैगुण्य-तद्-विषय-वेद-वितायमाना ।
सत्त्वावलम्बि-पर-सत्त्वं विशुद्ध-सत्त्वम्-
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
तद् एवं तस्य स्वरूप-गत-माहात्म्यं दर्शयित्वा जगद्-गत-माहात्म्यं
दर्शयति द्वाभ्याम् । तत्र बहिरङ्ग-शक्ति-मायाचिन्त्य-कार्य-गतम् आह
माया हीति । मायया हि तस्य स्पर्शो नास्तीत्य् आह सत्त्वेति । सत्त्वस्य
रजस्-तमो-मिश्रस्याश्रयि यत् परं तद् अमिश्रं शुद्धं सत्त्वं तस्माद् अपि
विशुद्धं चिच्-छक्ति-वृत्ति-रूपं सत्त्वं यस्य तम् । तथोक्तं
श्री-विष्णु-पुराणे -
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥
ह्लादिनी सन्धिनी संवित् त्वय्य् एका गुण-संश्रये ।
ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [विप् 1.9.44-45] इति ।
विशेषतः श्री-भागवत-सन्दर्भे तद् इदम् अपि विवृतम् अस्ति
आनन्द-चिन्मय-रसात्मतया मनःसु
यः प्राणिनां प्रतिफलन् स्मरताम् उपेत्य ।
लीलायितेन भुवनानि जयत्य् अजस्रम्-
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
अथ तन्-मय-मोहनत्वम् आह आनन्देति । आनन्द-चिन्-मयस्य उज्ज्वलाख्यः
प्रेम-रसः । तद्-आत्मतया तद्-आलिङ्गिततया प्राणिनां मनःसु
प्रतिफलन्-सर्व-मोहन-स्वांश-च्छुरित-परमाणु-प्रतिबिम्बतयाकिञ्चिद्
उदयन्न् अपि स्मरताम् उपेत्येत्य् आदि योज्यम् । यद् उक्तं रास-पञ्चाध्याय्यां
- साक्षान् मन्मथ-मन्मथः [भ्प् 10.32.2] इति, चक्षुषश् चक्षुः [केनौ
1.2] इतिवत् । तद् एवं तत्-कारणत्वेऽपि स्मरावेशस्य दुष्टत्वं
जगद्-आवेशवत्
गोलोक-नाम्नि निज-धाम्नि तले च तस्य
देवि महेश-हरि-धामसु तेषु तेषु ।
ते ते प्रभाव-निचया विहिताश् च येन
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
तद् इदं प्रपञ्च-गतं माहात्म्यम् उक्त्वा निज-धाम-गत-माहात्म्यम्
आह गोलोकेति । देवी-महेशेत्य्-आदि-गणनं व्युत्क्रमेण ज्ञेयम् ।
देव्य्-आदीनां यथोत्तर-मूर्धार्ध-प्रभवत्वात् तल्-लोकानाम्
ऊर्ध्वोर्ध्व-भावित्वम् इति । गोलोकस्य सर्वोर्ध्व-गामित्वं व्यापकत्वं च
व्यवस्थापितम् अस्ति । भुवि प्रकाशमानस्य वृन्दावनस्य तु तेनाभेदः
पूर्वत्र दर्शितः ।
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघन्तोप्दद्रवान् गवाम् ॥ [ह्व् 62.33] इति ।
इत्य् अनेनाभेदेनैव हि गोलोक एव निवसतीत्य् एव-कारः संघटते । यतो
भुवि प्रकाशमानेऽस्मिन् वृन्दावनेऽपि तस्य नित्य-विहारित्वं श्रूयते । यथा
आदि-वाराहे -
वृन्दावनं द्वादशमं वृन्दया परिरक्षितम् ।
हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥
तत्र च विशेषतः -
कृष्ण-क्रीडा-सेतु-बन्धं महापातक-नाशनम् ।
वलभीं तत्र क्रीडार्थं कृत्वा देवो गदाधरः ॥
गोपकैः सहितस् तत्र क्षणम् एकं दिने दिने ।
तत्रैव रमणार्थं हि नित्य-कालं स गच्छति ॥ इति ।
अतैव गौतमीये श्री-नारद उवाच --
किम् इदं द्वादशाभिख्यं वृन्दारण्यं विशाम्पते ।
श्रोतुम् इच्छामि भगवन् यदि योगोऽस्मि मे वद ॥
श्री-कृष्ण उवाच --
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र ये पशवः पक्षि-वृक्षा कीटा नरामराः ।
ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥
अत्र या गोप-कन्याश् च निवसन्ति ममालये ।
योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥
पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् ।
कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥
अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः ।
सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥
आविर्भावस् तिरोभावो भवेन् मे ऽत्र युगे युगे ।
तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति
एतद्-रूपम् एवाश्रित्य वाराहादौ ते नित्य-कदम्बादयो वर्णिताः । तस्माद्
अदृश्यमानस्यैव वृन्दावनस्य अस्मद्-अदृश्य तादृश-प्रकाश-विशेष एव
गोलोक इति लब्धम् । यदा चास्मद्-दृश्यमाने प्रकाशे स-परिकरः श्री-कृष्ण
आविर्भवति तदैव तस्यावतार उच्यते । तदैव च रस-विशेष-पोषाय
संयोग-विरहः, पुनः संयोगादिमय-विचित्र-लीला-पारदार्यादि-व्यवहारश्
च गम्यते । यदा तु यथात्र यथा वान्यत्र
तन्त्र-यामल-संहिता-पञ्चरात्रादिषु तथा दिग्-दर्शनेन विशेषा ज्ञेयाः ।
तथा च दशमे जयति जननिवासो देवकी जन्म-वादः [भ्प् 10.90.48] इत्य् आदि ।
तथा च पाद्मे निर्वाण-खण्डे श्री-भगवद्-व्यास-वाक्ये -
पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् ।
ततोऽपश्यम् अहं भूप बालं कालाम्बुद-प्रभम् ॥
गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ॥ इति ।
अनेन अत्र या गोप-कन्याश् चेति पूर्वोक्तेन च
अनालब्ध-स्त्री-धर्म-वयस्कतादि-बोधकेन कन्या-पदेन तासाम्
अन्यादृशत्वं निराक्रियते । तथा च गौतमीये चतुर्थाध्याये - अथ
वृन्दावनं ध्यायेत् इत्य् आरभ्य तद्-ध्यानं -
स्वर्गाद् इव परिभ्रष्ट कन्यका-शत-मण्डितम् ।
गोप-वत्स-गणाकीर्णं वृक्ष-षण्डैश् च मण्डितम् ॥
गोप-कन्या-सहस्रैस् तु पद्म-पत्रायतेक्षणैः ।
अर्चितं भाव-कुसुमैस् त्रैलोक्यैक-गुरुं परम् ॥ इत्य् आदि ।
तद्-दर्शनादिकारी च दर्शितस् तत्रैव सद्-आचार-प्रसङ्गे -
अहर्-निशं जपेन् मन्त्रं मन्त्री नियत-मानसः ।
स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥ इति ।
अतैव तापन्यां ब्रह्म-वाक्यम् - तद् उ होवाच ब्रह्मणोऽसाव् अनवरतं मे
ध्यातः स्तुतः । परार्धान्ते सोऽबुध्यत । गोपवेशो मे पुरुषः पुरस्ताद्
आविर्बभूव ॥ इति तस्मात् क्षीरोद-शाय्य् आद्य्-अवतारतया तस्य यत् कथनं तत्
तु तद्-अंशानां तत्र प्रवेशापेक्षया अलम् अतिविस्तरेण श्री-कृष्ण-सन्दर्भे
दर्शित-चरेण
सृष्टि-स्थिति-प्रलय-साधन-शक्तिर् एका
छायेव यस्य भुवनानि बिभर्ति दुर्गा ।
इच्छानुरूपम् अपि यस्य च चेष्टते सा
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
अथ प्रस्तुतम् अनुसरामः । पूर्वं देवी-महेश-हरि-धाम्नाम्
उपरिचर-धामत्वं तस्य चरितं, सम्प्रति तु तत्-तद्-आश्रयत्वाद् एव योग्यम्
इति दर्शयति सृष्टीति पञ्चभिः । यथोक्तं श्रुतिभिः । त्वम् अकरणः स्वराड्
अखिल-कारक-शक्ति-धरस् तव बलिम् उद्वहन्ति समदन्त्यजया निमिषा इति
क्षीरं यथा दधि विकार-विशेष-योगात्
सञ्जायते न हि ततः पृथग् अस्ति हेतोः ।
यः शम्भुताम् अपि तथा समुपैति कार्याद्
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
अथ क्रम-प्राप्तं महेशं निरूपयति क्षीरम् इति ।
कार्य-कारण-भाव-मात्रांशे दृष्टान्तोऽयं दार्ष्टान्तिक-कारणस्य
निर्विकारत्वात् चिन्तामण्य्-आदिवत् अचिन्त्य-शक्त्यैव तद्-आदि-कार्यतयापि
स्थितत्वात् । श्रुतिश् च एको नारायण एवाग्र आसीत्, न ब्रह्मा न च शङ्करः,
स मुनिर् भूत्वा समचिन्तयत् । तत एवैते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्
वरुण-रुद्रेन्द्राः इति तथा स ब्रह्मणा सृजति रुद्रेण नाशयति ।
सोऽनुत्पत्ति-लय एव हरिः । कारण-रूपः परः परमानन्दः । इति ।
शम्भोर् अपि कार्यत्वं गुण-संवलनात् । यथोक्तं श्री-दशमे -
हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ [भ्प् 10.88.5] इति ।
एतद् एवोक्तं - विकार-विशेष-योगाद् इति । कुत्रचिद् अभेदोक्तिर् या दृश्यते ताम्
अपि समादधाति ततो हेतोः पृथक्त्वं नास्तीति । यथोक्तम् ऋग्-वेद-शिरसि -
अथ नित्यो देव एको नारायणः । ब्रह्मा नारायणः । शिवश् च नारायणः ।
शक्रश् च नारायणः । द्वादशादित्याश् च नारायणः । वासवो नारायणः ।
अश्विनी नारायणः । सर्वे ऋषयो नारायणः । कालश् च नारायणः । दिशश् च
नारायणः । अधश् च नारायणः । ऊर्ध्वश् च नारायणः । अन्तर् बहिश् च
नारायणः । नारायण एवेदं सर्वं जातं जगत्यां जगद् इत्य् आदि । द्वितीये
ब्रह्मणा त्व् एवम् उक्तं -
सृजामि तन्-नियुक्तो ऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥ [भ्प् 2.6.33] इति
दीपार्चिर् एव हि दशान्तरम् अभ्युपेत्य
दीपायते विवृत-हेतु-समान-धर्मा ।
यस् तादृग् एव हि च विष्णुतया विभाति
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
अथ क्रम-प्राप्तं हरि-स्वरूपम् एकं निरूपयन्
गुणावतार-महेश-प्रसङ्गाद् गुणावतारं विष्णुं निरूपयति दीपार्चिर् इति ।
तादृक्त्वे हेतुः । विवृत-हेत-समान-धर्मेति । यद्यॡ श्री-गोविन्दांशांशः
कारणार्णव-शायी तस्य गर्भोदक-शायी, तस्य चावतारोऽयं विष्णुर् इति
लभ्यते तथापि महा-दीपात्
क्रम-परम्परयातिसूक्ष्म-निर्मल-दीपस्योदितस्य । ज्योति-रूपत्वांशे यथा
तेन सह साम्यम् । तथा गोविन्देन विष्णुर् गम्यते । शम्भोस् तु
तमोऽधिष्ठानत्वात् कज्ज्वल-मय-सूक्ष्म-दीप-शिखा-स्थानीयस्य न तथा
साम्यम् इति बोधनाय तद् इत्थम् उच्यते । महा-विष्णोर् अपि कला-विशेषत्वेन
दर्शयिष्यमाणत्वात्
यः कारणार्णव-जले भजति स्म योग-
निद्राम् अनन्त-जगद्-अण्ड-स-रोम-कूपः ।
आधार-शक्तिम् अवलम्ब्य परां स्व-मूर्तिं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
अथ कारणार्णव-शायिनं निरूपयति । अनन्त-जगद्-अण्डैः सह रोम-कूपा
यस्य सः । सह-शब्दस्य पूर्व-निपाताभावः, आर्षः । आधार-शक्ति-मयीं
परां स्व-मूर्तिं, शेषाख्याम्
यस्यैक-निश्वसित-कालम् अथावलम्ब्य
जीवन्ति लोम-विलजा जगद्-अण्ड-नाथाः ।
विष्णुर् महान् स इह यस्य कला-विशेषो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
तत्र सर्व-ब्रह्माण्ड-पालको यस् तवावतारतया
महा-ब्रह्मादि-सहचरत्वेन तद्-अतिभिन्नत्वेन च महा-विष्णुर् दर्शितः ।
अत्र च तम् अप्य् एवं तत्-सलक्षणतया वर्णयति । तत्-तज्-जगद्-अण्ड-नाथा
विष्ण्व्-आदयः जीवन्ति तत्-तद्-अधिकारितया जगति प्रकटं तिष्ठन्ति
भास्वान् यथाश्म-शकलेषु निजेषु तेजः
स्वीयम् कियत् प्रकटयत्य् अपि तद्वद् अत्र ।
ब्रह्मा य एष जगद्-अण्ड-विधान-कर्ता
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
तद् एवं देव्य्-आदीनां तद्-आश्रयकत्वं दर्शयित्वा प्रसङ्ग-सङ्गत्या
ब्रह्मणश् च दर्शयन् अतीव-भिन्नतया जीवत्वम् एव स्पष्टयति भास्वान्
इति । भास्वान् सूर्यो, यथा निजेषु नित्य-स्वीयत्वेन विख्यातेषु अश्म-सकलेषु
सूर्य-कान्ताख्येषु स्वीयं किञ्चित् तेजः प्रकटयति । अपि-शब्दात् तेन
तद्-उपाधिकांशेन दाहादि-कार्यं स्वयम् एव करोति । तथा य एव
जीव-विशेष-किञ्चित्-तेजः प्रकटयति । तेन तद्-उपाधिकांशेन स्वयम् एव
ब्रह्मा सन् जगद्-अण्डे ब्रह्माण्डे विधान-कर्ता व्यष्टि-सृष्टि-कर्ता
भवतीत्य् अर्थः । यद् वा महा-ब्रह्मैवायं वर्ण्यते । तद्-उपलक्षितो
महा-शिवश् च ज्ञेयः । ततश् च जगद्-अण्डानां विधान-कर्तृत्वं च युक्तम्
एव । यद्यपि दुर्गाख्या माया कारणार्णव-शायिन एव कर्मकरी । यद्यपि
च ब्रह्म-विष्ण्व्-आद्या गर्भोदक-शायिन एवावतारास् तथापि तस्य
सर्वाश्रयतया तेऽपि तद्-आश्रिततया गणिताः । एवम् उत्तरत्रापि
यत्-पाद-पल्लव-युगं विनिधाय कुम्भ-
द्वन्द्वे प्रणाम-समये स गणाधिराजः ।
विघ्नान् विहन्तुम् अलम् अस्य जगत्-त्रयस्य
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
अथ सर्वे सर्व-विघ्न-निवारणार्थं प्रथमं गणपतिं स्तुवन्तीति तस्यैव
स्तुति-योग्यतेत्य् आशङ्कया प्रत्याचष्टे यत्-पादेति । कैमुत्येन तद् एवं
दृढीकृतं श्री-कपिल-देवेन -- यत्-पाद-निःसृत-सरित्-प्रवरोदकेन तीर्थेन
मूर्ध्न्य् अधिकृतेन शिवः शिवो ऽभूत् [भ्प् 3.28.22] इति
अग्निर् महि गगनम् अम्बु मरुद् दिशश् च
कालस् तथात्म-मनसीति जगत्-त्रयाणि ।
यस्माद् भवन्ति विभवन्ति विशन्ति यं च
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
तच् च युक्तम् इत्य् आह अग्निर् महीति । सर्वं स्पष्टम्
यच्-चक्षुर् एष सविता सकल-ग्रहाणां
राजा समस्त-सुर-मूर्तिर् अशेष-तेजाः ।
यस्याज्ञया भ्रमति सम्भृत-काल-चक्रो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
केचित् स-वितारं सर्वेश्वरं वदन्ति यथाह यच्-चक्षुर् इति य एव चक्षुः
प्रकाशको यस्य सः ।
यद् आदित्य-गतं तेजो जगद् भासयतेऽखिलम् ।
यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥ इति गीताभ्यः ।
भीषास्माद् वातः पवते भीषोदेति सूर्यः ॥ इत्य् आदि श्रुतेः । विराड्-रूपस्यैव
सवितृ-चक्षुष्ट्वाच् च
धर्मो ऽथ पाप-निचयः श्रुतयस् तपांसि
ब्रह्मादि-कीट-पतगावधयश् च जीवाः ।
यद्-दत्त-मात्र-विभव-प्रकट-प्रभावा
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
किं बहुना, धर्म इति । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते
[गीता 10.8] इति श्री-गीताभ्यः
यस् त्व् इन्द्रगोपम् अथवेन्द्रम् अहो स्व-कर्म-
बन्धानुरूप-फल-भाजनम् आतनोति ।
कर्माणि निर्दहति किन्तु च भक्ति-भाजां
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
अतैव सर्वेश्वरस् तु पर्जन्यवद् द्रष्टव्यः इति न्यायेन
कर्मानुरूप-फल-दातृत्वेन साम्येऽपि भक्ते तु पक्षपात-विशेषं करोतीत्य्
आह यस् त्व् इन्द्रेति ।
समोऽहं सर्व-भूतेषु न मे द्वेषोऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता 9.29] इति ।
अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ [गीता 9.22] इति च
श्री-गीताभ्यः
यं क्रोध-काम-सहज-प्रणयादि-भीति-
वात्सल्य-मोह-गुरु-गौरव-सेव्य-भावैः ।
सञ्चिन्त्य तस्य सदृशीं तनुम् आपुर् एते
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
य एव च वैर्भ्योऽप्य् अन्य-दुर्लभ-फलं ददाति किम् उत
स्व-विषयक-कामादिना निष्काम-श्रेष्ठेभ्यः । ततः को वान्यो भजनीय
इति भजामीत्य् अन्त-प्रकरणम् उपसंहरति यं क्रोधेति । सहज-प्रणयं
सख्यम् । वात्सल्य-पित्राद्य्-उचित-भावः । मोहः
सर्व-विस्मरण-मय-भावः । पर-ब्रह्मतयास्फूर्तिः । गुरु-गौरवं
स्वस्मिन् पितृत्वादि-भावनामयम् । सेव्योऽयं मेमेति भावना दास्यम् इत्य्
अर्थः । तस्य सदृशीं क्रोधावेशिनोऽप्राकृत-मात्रांशेन, तु तत् तद् भावना
योग्य-रूप-गुणांश-लाभ-तारतम्येन तुल्यम् इत्य् अर्थः । अदृष्टान्यतमं
लोके शीलौदार्य-गुणैः समम् इति श्री-वासुदेव-वाक्यस्य ।
जगद्-व्यापार-वर्जम् [व्स्. 4.4.17] इति ब्रह्म-सूत्रस्य, प्रयोज्यमाने मयि तां
शुद्धां भागवतीं तनुम् इति श्री-नारद-वाक्यस्य च दृष्ट्या सर्वथा
तत्-सदृशत्वे विरोधात् । वैरेण यं नृपतयः इत्य् आदौ अनुरक्त-धियाम्
पुनः किम् इत्य् अनुरक्त-धीषु सुष्ठ्व् इति । अनेन
गोलोक-स्थ-प्रपञ्चावतीर्णयोर् एकत्वम् एव दर्शितम् । तद् उक्तं -
नन्दादयस् तु तं दृष्ट्वा इत्य् आदि
श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो
द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृतम् ।
कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखि
चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये
तद् एवं निजेष्ट-देवं भजनीयत्वेन स्तुत्वा तेन विशिष्टं तल् लोकं तथा
स्तौति श्रियः कान्ता इति युग्मकेन । श्रियः श्री-व्रज-सुन्दरी रूपास् तासाम् एव
मन्त्रे ध्याने च सर्वत्र प्रसिद्धेः । तासाम् अनन्तानाम् अप्य् एक एव कान्तः
इति परम-नारायणादिभ्योऽपि तस्य तत्-तल्-लोकेभ्योऽपि तदीय-लोकस्य चास्य
माहात्म्यं दर्शितम् । कल्प-तरवो द्रुमाः इति तेषां सर्वेषाम् एव
सर्व-प्रदत्वात् त्वात् तथैव प्रथितम् ।
भूमिर् इत्य् आदिकं च तद्वद् भूमिर् अपि सर्व-स्पृहां ददाति किम् उत
कौस्तुभादि । तोयम् अप्य् अमृतम् इव स्वादु किम् उतामृतम् इत्य् आदि । वंशी
प्रिय-सखीव सर्वतः श्री-कृष्णस्य सुख-स्थिति-श्रावकत्वेन ज्ञेयम् ।
चिद्-आनन्द-लक्षणं वस्त्व् एव ज्योतिश् चन्द्र-सूर्यादि-रूपम् ।
समानोदित-चन्द्रार्कम् इति वृन्दावन-विशेषणं गौतमीय-तन्त्र-द्वये । तच्
च नित्य-पूर्ण-चन्द्रत्वात् तथा तद् एव परम् अपि तत् तत् प्रकाश्यम् अपीत्य्
अर्थः ।
तथा तद् एव तेषाम् आस्वाद्यं भोग्यम् अपि च चिच्-छक्तिमयत्वाद् इति भावः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् [भ्प् 10.28.14] इति
श्री-दशमात् । हयशीर्ष-पञ्चरात्रे च वैकुण्ठस्थ-तत्त्व-निरूपणे --
द्रव्य-तत्त्वं शृणु ब्रह्मन् प्रवक्ष्यामि समासतः ।
सर्व-भोग-प्रदा यत्र पादपाः कल्प-पादपाः ॥
गन्ध-रूपं स्वादु-रूपं द्रव्यं पुष्पादिकं च यत् ।
हेयांशानाम् अभावाच् च रस-रूपं भवेच् च तत् ॥
त्वग्-बीजं चैव हेयांशं कठिनांशं च यद् भवेत् ।
सर्वं तद् भौतिकं विद्धि नहि भूतमयं हि तत् ।
रसवद् भौतिकं द्रव्यम् अत्र स्याद् रस-रूपकम् ॥ इति ।
सुरभीभ्यश् च सरतीति त्वदीय-वंशी-ध्वन्य्-आद्य्-आवेशाद् इति भावः ।
व्रजति नहीति तद्-आवेशेन ते तद्-वासिनः कालम् अपि न जानन्तीति भावः ।
काल-दोषास् तत्र न सन्तीति वा । न च कालः विक्रमः [भ्प् 2.9.10] इति द्वितीयात् ।
अतैव श्वेतं शुद्धं द्वीपं अन्यासङ्ग-रहितम् । यथा -- सरसि पद्मं
तिष्ठति तथा-भूम्यां हि तिष्ठति [ग्तु 2.27] इति तापनीभ्यः । क्षितीति । तद्
उक्तं यं न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् [ह्व् 62.29] इति
अथोवाच महा-विष्णुर् भगवन्तं प्रजापतिम् ।
ब्रह्मन् महत्त्व-विज्ञाने प्रजा-सर्गे च चेन् मतिः ।
पञ्च-श्लोकीम् इमां विद्यां वत्स दत्तां निबोध मे
तद् एवं तस्य स्तुतिम् उक्त्वा श्री-भगवत्-प्रसाद-लाभम् आह अथेति । सर्वं
स्पष्टम्
प्रबुद्धे ज्ञान-भक्तिभ्याम् आत्मन्य् आनन्द-चिन्-मयी ।
उदेत्य् अनुत्तमा भक्तिर् भगवत्-प्रेम-लक्षणा
तत्र प्रसाद-रूपां पञ्च-श्लोकीम् आह प्रबुद्ध इति ।
ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावितः ॥ [भ्प् 11.19.5] इत्य्
एकादशात्
प्रमाणैस् तत्-सद्-आचारैस् तद्-अभ्यासैर् निरन्तरम् ।
बोधयन् आत्मनात्मानं भक्तिम् अप्य् उत्तमां लभेत्
प्रेम-लक्षण-भक्तेः साधन-ज्ञान-रूपयोः भक्त्योः प्राप्त्य्-उपायम् आह
प्रमाणैर् इति । प्रमाणैर् भगवच्-छास्त्रैस् तत्-सदाचारैस् तदीया ये सन्तस्
तेषाम् आचारैर् अनुस्टानैस् तद्-अभ्यासैस् तेषाम् एव पौनःपुण्येन बाहुल्येन
आत्मना आत्मानं बोधयति स्वयम् एव स्वं भगवद्-आश्रितः
शुद्ध-जीव-रूपम् अनुभवति, ततोऽप्य् उत्तमां शुद्धां भक्तिं लभत इति ।
तथा च श्रुति-स्तवे -
स्व-कृत-पुरेष्व् अमीष्व् अबहिर्-अन्तर-संवरणं
तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतो ऽंश-कृतम् ।
इति नृ-गतिं विविच्य कवयो निगमावपनं
भवत उपासते ऽङ्घ्रिम् अभवं भुवि विश्वसिताः ॥ [भ्प् 10.87.20] इति
यस्याः श्रेयस्-करं नास्ति यया निर्वृतिम् आप्नुयात् ।
या साधयति माम् एव भक्तिं ताम् एव साधयेत्
धर्मान् अन्यान् परित्यज्य माम् एकं भज विश्वसन् ।
यादृशी यादृशी श्रद्धा सिद्धिर् भवति तादृशी ॥
कुर्वन् निरन्तरं कर्म लोको ऽयम् अनुवर्तते ।
तेनैव कर्मणा ध्यायन् मां परां भक्तिम् इच्छति
पुनः शुद्धाम् एव साधन-भक्तिं द्रढयन्न् अकामैर् अपि ताम् एव
कुर्याद् इत्य् आह - धर्मान् अन्यान् इति । तद् उक्तं -
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भ्प् 2.3.10] इति
अहं हि विश्वस्य चराचरस्य
बीजं प्रधानं प्रकृतिः पुमांश् च ।
मयाहितं तेज इदं बिभर्षि
विधे विधेहि त्वम् अथो जगन्ति
तस्मात् तव सिसृक्षापि फलिष्यतीति स-युक्तिकम् आह - अहं हीति । प्रधानं
श्रेष्ठं बीजं, पूर्ण-भगवद्-रूपं प्रकृतिर् अव्यक्तं, पुमान् तद्-द्रष्टा,
किं बहुना तवम् अपि मया आहितं अर्पितं तेज इदं बिभर्षि, तस्मात् तेन
मत्-तेजसा जगन्ति सर्वाणि स्थावर-जङ्गमानि हे विधे हि कुर्व् इति
मूल पाठ: Brahmasaṃhitā 5 with Jīvagosvāmin's Digdarśanīṭīkā · Edition: Haridas Shastri's edition, 1981 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0