भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 2.33

2.33.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते द्वात्रिंशत्तमो ऽध्यायः ॥ 32॥
सगर उवाच
श्रुतं सर्वं मुनिश्रेष्ठ कीर्त्यमानं त्वया विभो ।
कवचं वद सर्वत्र त्रैलोक्यविजयप्रदम्

2.33.2

वसिष्ठ उवाच
शृणु वत्स प्रवक्ष्यामि कवचं परमाद्भुतम् ।
मन्त्र च सिद्धिद शश्वत्साधकानां सुखावहम्

2.33.3

गोपीजनपदस्यात वल्लभाय समुच्चरेत् ।
स्वाहान्तो ऽयं महामन्त्रो दशार्णो भुक्तिमुक्तिदः

2.33.4

सदाशिवस्त्वस्य ऋषिः पङ्क्तिश्छन्द उदाहृतम् ।
देवता कृष्ण उदितो विनियोगो ऽखिलाप्तये

2.33.5

त्रैलोक्यविजयस्याथ कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च जगती देवो राजेश्वरः स्वयम्

2.33.6

त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्त्तितः ।
प्रणवो मेशिरः पातु श्रीकृष्णाय नमः सदा

2.33.7

पायात्कपालं कृष्णाय स्वाहेति सततं मम ।
कृष्णेति पातु नेत्रे मे कृष्णस्वाहेति तारकाम्

2.33.8

हरये नम इत्येष भ्रूलतां पातु मे सदा ।
ओं गोविन्दाय स्वाहेति नासिकां पातु संततम्

2.33.9

गोपालाय नमो गण्डं पातु मे सततं मनुः ।
क्लीं कृष्णाय नमः कर्णौं पातु कल्पतरुर्मम

2.33.10

श्रीं कृष्णाय नमः पातु नित्यं मे ऽधरयुग्मकम् ।
ओं गोपीशाय स्वाहेति दन्तपङ्क्तिं ममावतु

2.33.11

श्रीकृष्णेति रदच्छिद्रं पातुमे त्र्यक्षरो मनुः ।
ओं श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा

2.33.12

रामेश्वराय स्वाहेति तालुकं पातु मे सदा ।
राधिकेशाय स्वाहेति कण्ठं मे पातु सर्वदा

2.33.13

नमो गोपीगणेशाय ग्रीवां मे पातु सर्वदा ।
ओं गोपेशाय स्वाहेति स्कन्धौ पातु सदा मम

2.33.14

नमः किशोरवेषाय स्वाहा पृष्ठं ममावतु ।
उदरं पातु मे नित्यं मुकुन्दाय नमो मनुः

2.33.15

ह्नीं श्रीङ्क्लीङ्कृष्णाय स्वाहा करौ पातु सदा मम ।
ओं विष्णवे नमः स्वाहा बाहुयुग्मं ममावतु

2.33.16

ओं ह्रींभगवते स्वाहा नखपङ्क्तिं ममावतु ।
नमो नारायणायेति नखरन्ध्रं ममावतु

2.33.17

ओं ह्रींश्रींपद्मनाभाय नाभिं पातु सदा मम ।
ओं सर्वेशाय स्वाहेति केशान्मम सदावतु

2.33.18

नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदावतु ।
ओं माधवाय स्वाहेति भालं मे सर्वदावतु

2.33.19

ओं ह्रींश्रींरसिकेशाय कटिं मम सदावतु ।
नमो गोपीजनेशाय ऊरू पातु सदा मम

2.33.20

ओं नमो दैत्यनाशाय स्वाहेत्यवतु जानुनी ।
यशोदानन्दनायेति नमोतो जङ्घके ऽवतु

2.33.21

रासारंभप्रियायेति स्वाहान्तो हीं ममावतु ।
वृन्दाप्रियाय स्वाहेति सकलाङ्गानि मे ऽवतु

2.33.22

परिबुर्णमनाः कृष्मः प्राच्यां मां सर्वदावतु ।
स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु

2.33.23

पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदावतु ।
नैरृत्यां पातु मां कृष्णाः पश्चिमे पातु मां हरिः

2.33.24

गोविन्दः पातु वायव्यामुत्तरे रसिकेश्वरः ।
ऐशान्यां मे सदा पातु वृन्दावनविहार कृत्

2.33.25

वृन्दाप्राणेश्वरः शश्वत्पातु मामूर्द्ध्वदेशतः ।
सदैव मामधः पातु बलिध्वंसी महाबलः

2.33.26

जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ।
स्वप्ने जागरणे चैव पातु मां माधवः स्वयम्

2.33.27

सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ।
इति ते कथितं भूप सर्वाघौघविनाशनम्

2.33.28

त्रैलोक्यविजयं नाम कवचं परमेशितुः ।
मया श्रुतं शिवमुखात्प्रवक्तव्यं न कस्यचित्

2.33.29

गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ सो ऽपि विष्णुर्न संशयः

2.33.30

स साधको ऽवसद्यत्र तत्र वाणीरमे स्थिते ।
यदि स्यात्सिद्धकवचो जीवन्मुक्तो न संशयः

2.33.31

निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् ।
राजसूर्यसहस्राणि वाजपेयशतानि च

2.33.32

महादानानि यान्येव भुवश्चापि प्रदक्षिणा ।
त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम्

2.33.33

व्रतोपवासनियमाः स्वाध्यायाध्ययने तथा ।
स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि

2.33.34

सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि ।
यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम्

2.33.35

स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः ।
यो भवेत्सिद्धकवचो विजयी स भवेद् ध्रुवम्

2.33.36

राज्यं देयं शिरो देयं प्राणा देयाश्च भूपते ।
एतत्तु कवचं वत्स न देयं संकटे ऽपि च

2.33.37

मया प्रकाशितं यत्ते चैतेषां त्राणकारणात् ।
ममाज्ञाकरणाच्चैव तद्विद्धि कुलभास्कर ।
इदं धृत्वा तु कवचं चक्रवर्त्ती भवान्भव

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc