भाषा

ENहिગુ
ग्रंथ पाठ

बोध्यगीता · अध्याय 1

55

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गीतं विदेहराजेन जनकेन प्रशाम्यता

56

अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन।
मिथिलायां प्रदीप्तायां न मे दह्यति किं चन

57

अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम्।
निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर

58

बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत।
निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञान तर्पितम्

59

उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे।
कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः

60

[बोध्य]
उपदेशेन वर्तामि नानुशास्मीह कं चन।
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं प्रविमृश्यताम्

61

पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने।
इषुकारः कुमारी च स एते गुरवो मम

मूल पाठ: bodhyagītā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc