बोधविलास · अध्याय 1
क्षेमराज: बोधविलास
ओं नमो नेत्राय ॥
नमः शिवाय सततं पञ्चकृत्यविधायिने ।
चिदानन्दघनस्वात्मपरमार्थावभासिने
चितिः स्वतन्त्रा विश्वस्य हेतुर् इत्य् अभिधीयते ।
स्वातन्त्र्यरूपा ज्ञाता च सिद्धीर् वा संप्रयच्छते
सा स्वभित्तौ स्वेच्छयैव विश्वस्योन्मीलनाय च ।
नानानुरूपवैचित्र्याद् ग्राह्यग्राहकभेदतः
विश्वस्य तस्य वैचित्र्यं ग्राह्यभेदेन संस्थितम् ।
नानावैचित्र्ययोगेन चोत्तमाधमसङ्ख्यया
चितिसङ्कोचनाच् चित्तं चेतनो ऽपि महेश्वरः ।
वटधनिकावत् तत्र विश्वरूपं च तद् विदुः
चैतन्यम् आत्मनो रूपं शुद्धम् अत्यन्तनिर्मलम् ।
तद् एव नियमासक्तं चित्तं चिद् अभिधीयते
अर्थोन्मुखतया संविच् चित्ते विश्रान्तिम् आगता ।
सङ्कोचात्मप्रधानत्वाच् चितिश् चित्तं विदुर् बुधाः
मायाप्रमाता चिद्रूपस् तन्मयत्वेन देहिनाम् ।
वर्तते विषयासक्तः सद्विवेकविवर्जितः
सदैकः प्रतिथश् चित्तं कलासत्त्वगुणादिभिः ।
सप्तप्रमतृकत्वेन षट्त्रिंशत्तत्त्वसङ्ख्यया
एकः सर्वगतः शुद्धः सम्बोधात्मा महेश्वरः ।
सैवाहन्तापरिज्ञानान् मुक्तिः करतले स्थिता
प्रमातृसप्तकत्वेन षट्त्रिंशत्तत्त्वसङ्ख्यया ।
भावितः स महेशानो मोक्षलक्ष्मीः प्रवर्तते
तद्भूमिका दर्शनाद्यास् सर्वा एव न संशयः ।
भूमिकाः कृत्रिमा यद्वन् नटो गृह्णाति स्वेच्छया
तद्वद् एव चिदानन्दस्वेच्छोच्छलितबृंहितः ।
आत्मा गृह्णाति विपुला दर्शनाद्या विभूतयः
चिदानन्दसमुल्लासोल्लसितात्मा विराजते ।
चिद्वत्स्वशक्तिसङ्कोचात् संसारे मलिनायते
अपूर्णो ऽस्मीति विविधैर् मलैः स मलिनीकृतः ।
मायीयाणवकार्माख्यैर् व्यापको ऽपि जगद्विभुः
व्यापी यद्वन् महादेवः क्रोति पञ्चकृत्यताम् ।
तद्वद् एवायम् आत्मापि कुरुते शक्तिमोहितः
शक्तो विकासाच् छक्तीशो गीयते तत्त्ववादिभिः ।
सङ्कोचनात् सङ्कोचितः संसारीत्य् अभिधीयते
माया रूपं हि यत् किंचिद् आलोकयितुम् उद्यता ।
साध्यसृष्टिं विजानीयाद् अन्या शक्तिः स्थितिर् मता
संहारात् संहृता देवी चिदैक्ये ऽनुग्रहो मतः ।
तदेकसाराप्रथनात् तिरोधानाभिधीयते
इत्थं सदा संनिहितः पञ्चवाहविधिः क्रमात् ।
ज्ञातश् चिन्तामणिर् असाव् अज्ञानात् काष्टलोष्टवत्
सद्विमर्शबलेनैवं नित्यं यः परिशीलते ।
स मुक्तः सर्वबन्धेभ्यो नित्यानन्दमयो भवेत्
चिद्वह्निर् ग्रसते सो ऽयं सुप्रबुद्धो ऽस्त्य् असौ यदा ।
तदासौ विमलो ज्ञेयश् चिद्वह्निः सर्वभक्षकः
एतद्बलेन संयुक्तो योगी निर्वाणलक्षणः ।
पदं प्राप्नोति विमलं सो ऽचिरान् नात्र संशयः
चिद्वह्निर् बललाभे ऽपि विश्वम् आभाति चिन्मयम् ।
स्वानन्दामृतकल्लोलम् एतद् उच्छलितं बहिः
तद् एव श्यानतां यातं भावरूपैर् विभाव्यते ।
स्वात्मा महेश्वरो देवः क्रीडते परमेश्वरः
इति यः सततं वेत्ति स मुक्तो मोचयत्य् अपि ।
सत्त्वव्रातं क्षणेनैव घोरात् संसारबन्धनात्
यः कश्चित् आनन्दबलः स स्वरूपपदस्थितः ।
इति यस्य समुल्लासोल्लासितोदयशालिनः
तस्य स्वरूपनिष्ठस्य व्युत्थाने ऽपि तद् अर्थ्यते ।
एतत् प्रयत्नसामार्थ्याज् जनैर् एवाधिगम्यते
मध्यधामविकासाच् च चिदानन्दात् प्रकाशते ।
तत्प्रकाशाद् दिव्यदृष्टिर् ज्ञानरूपा विभाव्यते
निर्मला सुप्रभा शुद्धा नित्यानन्दमयी परा ।
निर्देहच्छेदजालापि ज्ञानदृष्टिर् विजृम्भते
मध्यधामविकासे तु उपायो बलवत्स्थितिः ।
विकल्पक्षयसङ्कोचविकासाद्या अनेकशः
अकिञ्चिच्चिन्तनाद् एव विकल्पानां क्षयो भवेत् ।
चिद्बोधाद् विलसच्छक्ती रक्तासौ भावमण्डले
तत्रानुरक्ता दिव्यौघं पश्यते विमलात्मकम् ।
शक्तिसङ्कोचम् एतद् धि प्रोच्यते ब्रह्मवादिभिः
आद्यन्तकोटिविश्रामबिन्दुनादलयास् तथा ।
अशङ्कितभयक्रोधबीभत्सादिपरिग्रहाः
इत्य् एतत् कथितं देवि मध्यधामविकासकम् ।
तत्र शक्तो दिनैर् एवं प्रप्नोति परसम्पदम्
यो ऽन्तःसमाधिसंस्कारं भ्रमते विमलत्विषाम् ।
स विसर्गबलाद् एव विमृश्य च पुनः पुनः
व्युत्थाने ऽपि यतस् तस्य स्वरूपं सम्प्रकाशते ।
योगिनो बोधनिष्ठस्य नित्यानन्दरसस्य च
तत् प्रकाशानन्दमयी मन्त्रवीर्योपबृंहिता ।
पूऋनाहन्ताचिद् इत्य् अन्तःसमुल्लासाभियोगिनः
तत्रासौ विलसन् योगी मन्त्रेश्वरपदे स्थितः ।
तत्र शक्तो विभुर् यद्वत् क्रीडते शक्तिबृंहितः
एवं स्वतन्त्रता तस्य व्यापकस्य जगद्विभोः ।
नानाभेदजुषश् चित्रपदस्थितस्याखण्डिता
एतद् अद्वयम् इत्य् उक्तं ज्ञानामृतम् अनुत्तमम् ।
यः पिबेच् छाम्यते तस्य संसारविषमूर्छनम्
बोधोल्लासविधानेयं शिवप्राप्यै महात्मनाम् ।
राज्ञः क्षेमाभिधानस्य शास्त्रम् अत्यन्तनिर्मलम्
मूल पाठ: Bodhavilāsa · Edition: Pensa, Corrado: Il Bodhavilāsa di Kṣemarāja. Rivista di Studi Orientali 36 (1961): 125-134. · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0