बोधसार · अध्याय 4.4
नाकाशात्पतति द्रव्यं जीविका सुखदा कथम् ।
[प्. 42-]
कामविडम्बना
चर्वयन्ति महामांसं गते प्राणे पिशाचकाः ।
जीवत्परस्परं मांसं स्त्रीपुंसाश्चतुराननाः
नृदेहैर्निशि नृत्यन्ति श्मशानेषु पिशाचकाः ।
विचित्रैरङ्गविन्यासैर्गृहेषु गृहमेधिनः
लिहति स्पृशति भ्रान्तो मुहुर्जिघ्रति खादति ।
ग्रामसिंहानुरूपेयं ग्राम्यधर्मव्यवस्थितिः
कण्डूयनेन यत्कण्डूसुखं तत्किं भवेत्सुखम् ।
पश्चाद्यत्र महापीडा तथा वैषयिकं सुखम्
नादासक्तं मृगं व्याधश्छिनत्ति निशितैः शरैः ।
रूपासक्तं नरं नारी रतिच्छुरिकयाऽसकृत्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0