भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 31

31.1

[प्. 583-]
स्तनपानलीलाष्टकम्
श्रीगुरुरुवाच ।
उपमाता च माता च बाल मातृद्वयं हि ते ।
उपमातुः स्तनरसः कट्वम्लमधुतिक्तकः

31.2

जरामरणसंसर्गी चित्रद्वैतरसात्मकः ।
निजमाता तव तु या तन्माहात्म्यं वदाम्यहम्

31.3

सैव माता पिता सैव जगतामीश्वरी च सा ।
सा गतिः सा परं तत्त्वं तत्परं नास्ति किञ्चन

31.4

उपमाता कुजातिस्ते माता तव सुजातिका ।
तां कुजातिं परित्यज्य सुजातिं मातरं श्रय

31.5

निजमातुस्स्तनरसस्त्वद्वैतामृतवर्षणः ।
जन्मरोगजराध्वंसी सकृत्पीतोऽपि मृत्युजित्

31.6

न ज्ञातं मूढभावेन पूर्वमन्तरमेतयोः ।
इदानीमन्तरं ज्ञात्वा निजमातुस्स्तनं पिब

31.7

त्वया स्तने परित्यक्ते सा विदीर्य म्रियेत चेत् ।
नश्येत्कुजातिसंसर्गो हितमेव तदा भवेत्

31.8

मायाब्रह्ममयस्तात किमर्थं वर्णसंकरः ।
मायामेव परित्यज्य शुद्धब्रह्ममयो भव

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc