भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 16.3

16.3.1

[प्. 330-]
अथ प्रातःस्मरणम् ।
प्रातः स्मरन्ति मुनयो देवस्य सवितुर्महः ।
वरेण्यं तद्धियः साक्षि तदेवास्मीति संततम्

16.3.2

अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तिषु ।
यदेकं केवलं ज्ञानं तदेवाहमहं हि तत्

16.3.3

ज्ञानाज्ञाने तद्विषयौ तदहङ्कार एव च ।
प्रकाश्यन्ते येन भूम्ना तदहं ह्यहमेव तत्

16.3.4

विश्वश्च तैजसः प्राज्ञो नास्म्यहं सत्स्वरूपतः ।
यतस्ते तु प्रकाश्यन्ते तदहं नास्मि चेतरत्

16.3.5

ज्ञानाज्ञानप्रपञ्चेऽस्मिञ्ज्ञानाज्ञानेन नाशिते ।
यत्सच्छिष्टं परं ब्रह्म ह्यहं तन्नेतरत्स्मरेत्

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc