बोधसार · अध्याय 16.28.4.2
[प्. 423-]
न्यायशास्त्रनिर्णयः ।
यदाऽऽत्मतत्त्वे विमले विश्रान्तिरचला भवेत् ।
स एव न्याय इत्युक्तः शेषं त्वन्यायलक्षणम्
अचिन्तनं पदार्थानां न्यायं न्यायविदो विदुः ।
अन्यायमार्गरसिकः स कथं न्यायशास्त्रवित्
स्वयं यत्तार्किकः प्राह तर्कोऽनिष्टप्रसञ्जनम् ।
तत्तार्किकस्य तर्केण कथमिष्टं प्रसज्ज्यते
न तर्कितं परं ब्रह्म मेधया तीक्ष्णतर्कया ।
तदा कुतार्किकस्यास्य तर्ककर्कशता वृथा
षोडशापि पदार्थास्ते त्वया तार्किक तर्किताः ।
तर्को नावस्थितस्तर्हि तर्कातीते मनः कुरु
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0