भाषा

ENहिગુ
ग्रंथ पाठ

बोधपञ्चदशिका · श्लोक 1-15

1

अनस्तमितभारूपस् तेजसां तमसाम् अपि ।
य एको ऽन्तर् यदन्तश् च तेजांसि च तमांसि च ॥

2

स एव सर्वभूतानां स्वभावः परमेश्वरः ।
भावजातं हि तस्यैव शक्तिर् ईश्वरतामयी ॥

3

शक्तिश् च शक्तिमद्रूपाद् व्यतिरेकम् न वाञ्छति ।
तादात्म्यम् अनयोर् नित्यं वह्निदाहिकयोर् इव ॥

4

स एव भैरवो देवो जगद्भरणलक्षणः ।
स्वात्मादृषे समग्रं हि यच्छक्त्या प्रतिबिम्बितम् ॥

5

तस्यैवैषा परा देवी स्वरूपामर्शनोत्सुका ।
पूर्णत्वं सर्वभवेषु यस्या नाल्पं न चाधिकम् ॥

6

एष देवो ऽनया देव्या नित्यं क्रीडारसोत्सुकः ।
विचित्रान् सृष्टिसंहारान् विधत्ते युगपद् विभुः ॥

7

अतिदुर्घटकारित्वम् अस्यानुत्तरम् एव यत् ।
एतद् एव स्वतन्त्रत्वम् ऐस्वर्यं बोधरूपता ॥

8

परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ।
जडाद् विलक्षणो बोधो यतो न परिमीयते ॥

9

एवम् अस्य स्वतन्त्रस्य निजशक्त्युपभेदिनः ।
स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः ॥

10

तेषु वैचित्र्यम् अत्यन्तम् ऊर्ध्वाधस् तिर्यग् एव यत् ।
भुवनानि तदंशाश् च सुखदुःखमतिश् च या ॥

11

यद् एतस्यापरिज्ञानं तत्स्वातन्त्र्यं हि वर्णितम् ।
स एव खलु संसारो मूडानां यो विभीषकः ॥

12

तत्प्रसादरसाद् एव गुर्वागमत एव वा ।
शास्त्राद् वा परमेशस्य यस्मात् कस्माद् उपागतम् ॥

13

यत् तत्त्वस्य परिज्ञानं स मोक्षः परमेशतः ।
तत् पूर्णत्वं प्रबुद्धानां जीवन्मुक्तिश् च सा स्मृता ॥

14

एतौ बन्धविमोक्षौ च परमेशस्वरूपतः ।
न भिद्येते न भेदो हि तत्त्वतः परमेश्वरे ॥

15

इत्थम् इच्छाकलाज्ञानशक्तिशूलाम्बुजाश्रितः ।
भैरवः सर्वभावानां स्वभावः परिशील्यते ॥

मूल पाठ: Bodhapañcadaśikā · Data entry Marino Faliero · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc