बीजनिघण्टु · भाग 14
अथ वक्ष्ये मन्त्रकोशं यद् उक्तं भूतडामरे ।
क्रमाद् बीजविधानं च श्रुत्यर्थज्ञानसम्भवम् ॥ 1
श्रीशिव उवाच ।
अ विद्युज्जिह्वा आ कालवज्री इ गर्जिनी ई धूम्रभैरवी उ कालरात्रिः ऊ विदारी ऋ महारौद्री ॠ भयंकरी ऌ संहारिणी लु करालिनी ए ऊर्ध्वकेशी ऐ उग्रभैरवी ओ भीमाक्षी औ डाकिनी अं रुद्रराकिणी अः चण्डिका क क्रोधीशः ख वामनः ग चण्डः घ विकारी ङ उन्मत्तभैरवः च ज्वालामुखः छ रक्तदंष्ट्रः ज असिताङ्गः झ वडवामुखः ज विद्युन्मुखः ट महाज्वालः ठ कपाली ड भीषणः ढ रुरुः ण संहारी त भैरवः थ दण्डी द बलिभुक् ध उग्रसूलधृक् न सिंहनादी प कपर्दी फ करालाग्निः ब भयंकरः भ बहुरूपी म महाकालः य जीवात्मा र क्षतजोक्षितः ल बलभेदी व रक्तपटः श चण्डीशः ष ज्वलनध्वजः स धूमध्वजः ह व्योमवक्त्रः क्ष त्र्यैलोक्यग्रसनात्मकः ॥ 2
विद्युज्जिह्वा कालवक्त्रा महाकालैर् अलंकृता ॥ 3
विशबीजं श्रुतिमुखं ध्रुवं हालाहलं प्रिये च तत् ॥ 4
चण्डीशः क्षतजारूढो धूम्रभैरव्यलंकृतः ।
नादबिन्दुसमायुक्तो बीजं विष्णुप्रिया मतं श्रीं ॥ 5
क्षतजस्थो व्योमवक्त्रो धूम्रभैरव्यलंकृतः ।
नादबिन्दुसमायुक्तो बीजं प्राथमिकं स्मृतं ह्रीं ॥ 6
क्रोधीशः क्षतजारूढो धूम्रभैरव्यलंकृतः ।
नादबिन्दुसमायुक्तः पितृभूवासिनी स्मृतः क्रीं ॥ 7
विदारीयुक्तं व्योमास्यं रुद्रराकिण्यलंकृतम् ।
कूर्चं कालं क्रोधबीजं जानीहि वीरवन्दिते हूं ॥ 8
नादबिन्दुसमायुक्तां समादायोग्रभैरवीम् ।
भौतिकं वाग्भवं बीजं विद्धि सारस्वतं प्रिये ऐ ॥ 9
प्रलयाग्निर् महाज्वालः ख्यातश् चास्त्रमनुः प्रिये फट् ॥ 10
क्रोधीशरक्तभीमाक्ष्यो ऽङ्कुशो ऽयं नादबिन्दुमान् क्रों ॥ 11
द्विठः शिरो वह्निजाया स्वाहा ज्वलनवल्लभा स्वाहा ॥ 12
क्रोधीशो बलभिद् धूम्रभैरवीनादबिन्दुभिः ।
त्रिमूर्तिर् मन्मथः कामः बीजं त्रैलोक्यमोहनम् क्लीं ॥ 13
व्योमास्यः कालरात्र्यार्ढ्यो वर्म बिन्दीन्दुसंयुतः ।
कथितं कवचं बीजं कुलाचारप्रिये ऽमले हुं ॥ 14
व्योमास्यः क्षतजारूढो डाकिनीनादबिन्दुभिः ।
ज्योतिर् मन्त्रः समाख्यातो महापातकनाशनः ह्रौं ॥ 15
संयुक्तो धूम्रभैरव्या रक्तस्थो बलिभोजनः ।
नादबिन्दुसमायुक्तः किङ्किणीबीजम् उत्तमम् द्रीं ॥ 16
बहुरूपिणम् आदाय क्षतजोक्षितसंस्थितम् ।
विदार्यालिङ्गितं तद्वद् विशेषार्थो महामनुः भ्रूं ॥ 17
धूम्रध्वजाधः कालाग्निः सोर्ध्वकेशीन्दुबिन्दुभिः ।
युगान्तकारकं बीजं भैरवेण प्रकाशितम् स्फें ॥ 18
संहारिण्याश्रितं चोर्ध्वकेशिनी तु कपर्दिनम् ।
नादबिन्दुसमायुक्तं बीजं वैतालिकं स्मृतम् प्लें ॥ 19
सनादबिन्दुं क्रोधीशं गृह्य संहारिणीस्थितम् ।
कम्पिनीबीजम् इत्य् उक्तं द्विठेनोक्ता मनोहरी क्लीं स्वाहा ॥ 20
कपर्दिनं समादाय क्षतजोक्षितसंस्थितम् ।
संयुक्तं धूम्रभैरव्या ध्वाङ्क्षो ऽयं नादबिन्दुमान् प्रीं ॥ 21
कपालिद्वयम् आदाय महाकालेन मण्डितम् ।
समासनम् इति प्रोक्तं चण्डिकाढ्यं मनोहरम् ठं ठं ठः ठः ॥ 22
प्रलयाग्निस्थितो धूमध्वजो गुह्ये सबिन्दुमान् ।
संयुक्तो धूम्रभैरव्या स्मृता फेत्कारिणी प्रिये स्फीं ॥ 23
क्षतजस्थो व्योमवक्त्रो बिन्दुखण्डेन्द्वलंकृतः ।
खद्योतम् इति विख्यातं ग्रासिनी कालरात्रियुक् ह्रुं ॥ 24
क्षतजस्थं व्योमवक्त्रं नादबिन्दुसमन्वितम् ।
विदारीभूषणं कृत्वा बीजं वैवस्वतात्मकं ह्रूं ॥ 25
व्योमवक्त्रो धूमध्वजो वारणः प्रलयाग्निकः ।
ऊर्ध्वकेशी क्षतारूढा बिन्दुचन्द्रार्धसंगता ॥ 26
बीजम् आनन्दभैरव्या मूकानन्दकरं परम् हसखफ्रें ॥ 27
अकारे भीषणा कीर्तिं विद्युज्जिह्वेति कीर्तिता ।
आकारे तामसी कालवज्री च कालभैरवी ॥ 28
इकारे गर्जिनी चण्डा विज्ञेया रुद्रभैरवी ।
ईकारे शूलिनी ख्याता चण्डोग्रा धूम्रभैरवी ॥ 29
उकारे कालकूटाख्या प्रचण्डा चण्डवल्लभा ।
विदार्य् ऊकारके प्रोक्ता तालजङ्घा कपालिनी ॥ 30
ऋकारे स्यान् महारौद्री ज्वालिनी योगिनीत्य् अपि ।
ॠकारे कालिका प्रोक्ता पितृकाली भयंकरी ॥ 31
संहारिणी ऌकारे स्यान् मेघनादोग्रभाषिणी ।
रुद्रचण्डा कालरात्रिः ॡकारे च करालिनी ॥ 32
ऊर्ध्वकेशी च चामुण्डा नादिन्य् एकारके स्मृता ।
ऐकारे कोटराक्षी च मालिन्य् उन्मत्तभैरवी ॥ 33
ज्वालिन्य् ओकारगा ज्ञेया भीमाक्षी चण्डमालिनी ।
औकारे डाकिनी सिंहनादिनी चण्डभैरवी ॥ 34
अक्रूराख्या विदारी च अंकारे रुद्रराकिणी ।
शेषे कपालिनी याम्या चण्डिका कुण्डलद्वयम् ॥ 35
विसर्गो नादः सकलाः षड्दशोक्ताः स्वरा मताः ॥ 36
क्रोधीशो वारणश् चण्डः शङ्का तून्मत्तभैरवः ।
ज्वालामुखो रक्तदंष्ट्रो ऽसिताङ्गो बलयामुखः ॥ 37
विद्युन्मुखो महाज्वलि कपाली भीषणो गुरुः ।
प्रहारी रौरवो दण्डी बलितो ऽत्युग्रशूलधृक् ॥ 38
सिंहनादी कपर्दी च प्रलयाग्निर् भयंकरः ।
बहुरूपी महाकालः स्थिरात्मा क्षतजोक्षितः ॥ 39
बलभेदी रक्तपटश् चण्डिशो ज्वलनध्वजः ।
धूमध्वजो व्योमवक्त्रस् त्रैलोक्यग्रसनात्मकः ॥ 40
नयनश्रोत्रास्यनासाहृत्सु न्यासे दश स्वराः ॥ 41
ध्वजिनीधूम्रभैरव्यावभावे च दृशोः स्मृते ।
मूलार्णमुरमादिष्टं हृदयं स्वरशक्तयः ॥ 42
आदिमध्यावसानेषु पूर्वाभावे यथोत्तरम् ।
कण्ठास्यः कालवक्त्रेण महाकालेन भूषितः ।
तदादिः पञ्चरश्मिश् च सृष्टिस्थितिलयं विषम् ॥ 43
शूलिन्या सहितो ऽग्निस्थश् चण्डीश इन्दुबिन्दुमान् ।
एतद् विष्णुप्रियाबीजं यन् मान्यं जगतः प्रियम् ॥ 44
क्षतजस्थो व्योमवक्त्रश् चण्डोग्राबिन्दुभूषितः ।
अद्रिजा रौद्री भूतेशी बीजम् प्राथमिकं प्रियम् ॥ 45
क्रोधीशो रक्तसंस्थश् च धूम्रभैरव्यलंकृतः ।
बिन्द्विन्दुसंयुतो बीजम् द्रावणं क्लेदनं स्मृतम् ॥ 46
व्योमास्यो बिन्दुसंयुक्तस् तालजङ्घाविभूषितः ।
कूर्चकालो महाकालः क्रोधबीजम् निरञ्जनम् ॥ 47
उन्मत्तभैरवी रुद्रडाकिन्या च विभूषिता ।
नादेनालंकृता बीजम् वाग्भवं बुद्धिवर्धनम् ॥ 48
फड् इत्य् अस्त्रं प्रसिद्धं स्याज् फट् ॥ 49
ज्वालाग्निर् व्यापकाङ्कुशः क्रोर् ॥ 50
शिरः स्वाहा द्विठो वह्निजाया ज्वलनवल्लभा ॥ 51
दक्षजानुद्वयं सेन्दुः देवास्यं वह्निसुन्दरी स्वाहा ॥ 52
इन्द्रासनगतो ब्रह्मा त्रिमूर्तीन्दुश् च मन्मथः क्लीं ॥ 53
गर्जिनीधूम्रभैरव्यौ दक्षवामपयोधरौ ।
व्योमास्यः कालवक्त्राढ्यो वर्मबिन्दीन्दुसंयुतः हुं ॥ 54
शून्यं क्षतजमारूढं चण्डभैरव्यलंकृतम् ।
नादबिन्दुयुतं मूर्ध्नि ज्योतिर्मन्त्र उदाहृतो ह्रौं ॥ 55
आदिदेवेन निर्दिष्टं मन्त्रकोशम् अनुत्तमम् ।
यद् अर्थिभ्यः पुरा गुप्तं तन् मयाद्य प्रकाशितम् ॥ 56
यक्षडामरतन्त्रस्य मन्त्रकोशविवेचनम् ।
क्रोधीशेन तु यत् प्रोक्तं भैरवाय महात्मने ॥ 57
विद्युच्चण्डाशिनी गौरी क्रोशिनी नागिनी जया ।
किंनरी योगिनी यक्षी भूतिनी प्रेतिनी नरी ॥ 58
ग्रासिनी त्रासिनी चण्डी कलेत्य् एवं प्रकीर्तिता ।
कालभैरवे ऽमरसर्वासु भूतलाङ्गलवरासु च ॥ 59
सुभगा सुमुखी चण्डी पार्वती सुरतप्रिया ।
उर्वशी चैन्द्रिणी लीला कङ्काली मेखला शची ॥ 60
मानिनी हंसिनी चौला कलना भूमिनीति च ।
आदिदेवेन निर्दिष्टाः प्रथमाधिपशक्तयः ॥ 61
विभ्रमो बाहुलो दण्डी भैरवो नटकः शुकः ।
वृकोदरो जटो भीष्मः क्षोभकः खेचरो नटः ॥ 62
निशाचरा ध्वजी भीमो विचित्रः कौशिको यमः ।
लिङ्गी वत्साधिको भृङ्गी मणिभद्रो घटोत्कचः ॥ 63
महानन्दी शुको दण्डी सुग्रीवः कलहो भवः ।
दण्डी भाषान्तको ऽजेशो गर्गो हंसः पक्षैश्चरो हली ॥ 64
चण्डीबीजम् इति ख्यातं विद्युन्नागाङ्गनांशुकैः ।
औरसाधिके ऽंशुकाद्या च धूमिन्य् असौ किंनरः स्मृतः ॥ 65
उर्वश्यालंकृतो हंसो हंसेन्दुमस्तकोद्धृतः हूं ॥ 66
विद्युच्चण्डा च हंसी च केतुर् नागिन्यलंकृता ह ॥ 67
डिण्डिभेन सरक्तेन कामिनी बिन्दुभिः शशी श्रीं ॥ 68
हंसग्रीवपार्वत्या कपर्दीन्द्वाद्यलंकृता ह्रीं ॥ 69
विग्रहकलहकामिनीन्द्वादिप्राणहारिणी क्रीं ॥ 70
विभ्रमो रक्तपार्वत्यै स्वाहा उल्कामुखी स्मृता ॥ 71
ज्वालंधरीति विख्याता सबिन्द्विन्दुकला नटी ॥ 72
हंसः सुग्रीवः चण्डाद्यैः खद्योतैः परिकीर्तिता ह्रं ॥ 73
श्यामालिङ्गितदेहो ऽसौ खद्योतो ज्योतिर् ईरितः ह्रौं ॥ 74
यमः सुग्रीवः कामिनीन्द्रेन्द्वाद्यैः किंनरीति च ह्रुं ॥ 75
सुग्रीवो ऽपि यमश् चण्डो नीलाद्यैर् वाण ईरितः द्रां ॥ 76
यमः सुग्रीवबिन्द्विन्दुजपाद्यः पिशिताशनः द्रुं ॥ 77
त्यागिनं मणिभद्रस्थं प्रेतिनीन्द्वाद्यलंकृतम् ।
युगान्तकारकं बीजम् भैरवेण प्रकाशितम् स्फ्रें ॥ 78
भृङ्गिणं मेखलायुक्तं प्रेतिनीन्द्वाद्यलंकृतम् ।
बीजं वैतालिकं प्रोक्तं द्विठेनोक्ता मनोहरी प्लें स्वाहा ॥ 79
विभ्रमो धूमिनी विद्युच्चण्डिकाद्यस् तु काकिनी ।
ध्वाङ्क्षबीजम् इति ख्यातं सर्वतन्त्रेषु गोपितं प्रीं ॥ 80
नटद्वयेन धूमिन्या ऊर्ध्वकेश्या ह्य् अलंकृतं फ्रें ॥ 81
नटो धवानसंयुक्तो नटीतीक्ष्णपयोधरैः टंठं ॥ 82
पार्वत्यालिङ्गितं मणिभद्रस्थं योगिनीप्रिये ।
फेत्कारिणीति विख्याता विद्युच्चण्डविभूषिता स्फीं ॥ 83
सुग्रीवास्थिलयः श्रोत्रे हृद्यत्वाविकलादृशः ।
विकलायाः स्वभावे च स्याद् गौरीति च पार्वती ॥ 84
मूलार्णमासम् आख्यातं हृदयं स्वरशक्तयः ।
भवस्थित्यवसानेषु विज्ञातव्यं यथोत्तरम् ॥ 85
आदिदेवेन निर्दिष्टं जम्बुद्वीपे कलौ युगे ।
मन्त्रकोशम् इदं भूतयक्षडामरतन्त्रयोः ॥ 86
मर्त्यानाम् उपकाराय त्रिषु लोकेषु दुर्लभम् ॥ 87
मूल पाठ: Bījanighaṇṭu · Edition: Ram Kumar Rai in: Dictionaries of Tantrashastra. - Benares: Prachya Prakashan, 1984. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0