भामति · अध्याय 36
भङ्क्त्वा वाद्यसुरेन्द्रवृन्दमखिलाविद्योपधानातिगं येनाम्नायपयोनिधेर्नयपथा ब्रह्मामृतं प्राप्यते ।
सो ऽयं शाङ्करभाष्यजातविषयो वाचस्पतेः सादरं संदर्भः परिभाव्यतां सुमतयः स्वार्थेषु को मत्सरः
अज्ञानसागरं तीर्त्वा ब्रह्मतत्त्वमभीप्सताम् ।
नीतिनौकर्णधारेण मयापूरि मनोरथः
यन्न्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिः ।
यन्न्यायसांख्ययोगानां वेदान्तानां निबन्धनैः
समचैषं महत्पुण्यं तत्फलं पुष्कलं मया ।
समर्पितमथैतेन प्रीयतां परमेश्वरः
नृपान्तराणां मनसाप्यगम्यां भ्रूक्षेपमात्रेण चकार कीर्तिम् ।
कार्तस्वरासारसुपूरितार्थसार्थः स्वयं शास्त्रविचक्षणश्च
नरेश्वरा यच्चरितानुकारमिच्छन्ति कर्तुं नच पारयन्ति ।
तस्मिन्महीपे महनीयकीर्तौ श्रीमन्नृगे ऽकारि मया निबन्धः
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0