bhairavastavam · अध्याय 1
ओं व्याप्तचराचरभावविशेषं चिन्मयम् एकमनन्तम् अनादिम् ।
भैरवनाथम् अनाथशरण्यं त्वन्मयचित्ततया हृदि वन्दे
त्वन्मयम् एतद् अशेषम् इदानीं भाति मम त्वदनुग्रहशक्त्या ।
त्वं च महेश ! सदैव ममाऽत्मा स्वात्ममयं मम तेन समस्तम्
स्वात्मनि विश्वगते त्वयि नाथे तेन न संसृतिभीतेः कथास्ति ।
सत्स्वपि दुर्धरदुःखविमोहत्रासविधायिषु कर्मगणेषु
अन्तक ! मां प्रति मा दृशमेनां क्रोधकरालतमां विदधीहि ।
शङ्करसेवनचिन्तनधीरो भीषणभैरवशक्तिमयोऽस्मि
इत्थमुपोढभवन्मयसंविद्दिधितिदारितभूरितमिस्रः ।
मृत्युयमान्तककर्मपिशाचैर्नाथ ! नमोऽस्तु न जातु बिभेमि
प्रोदितसत्यविबोधमरीचिप्रेक्षितविश्वपदार्थसतत्त्वः ।
भावपरामृतनिर्भरपूर्णे त्वययहमात्मनि निर्वृतिमेमि
मानसगोचरमेति यदैव क्लेशदशातनुतापविधात्री ।
नाथ ! तदैव मम त्वदभेदस्तोत्रपरामृतवृष्टिरुदेति
शंकर ! सत्यमिदं व्रतदानस्नानतपो भवतापविनाशि ।
तावकशास्त्रपरामृतचिन्ता स्यन्दति चेतसि निर्वृतिधाराम्
नृत्यति गायति हृष्यति गाढं संविदियं मम भैरवनाथ ।
त्वां प्रियमाप्य सुदर्शनमेकं दुर्लभमन्यजनैः समयज्ञम्
वसुरसपौषे कृष्णदशम्यामऽभिनवगुप्तः स्तवैदमकरोत् ।
येन विभुर्भवमरुसन्तापं शमयति झटिति जनस्य दयालुः
समाप्तम् स्तवम् इदम् अभिनवाख्यम् पद्यनवकम् ॥
मूल पाठ: bhairavastavam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0