भाषा

ENहिગુ
ग्रंथ पाठ

Bhairavastava · भाग 11

व्याप्तचराचरभावविशेषं चिन्मयम् एकम् अनन्तम् अनादिम् ।
भैरवनाथम् अनाथशरण्यं त्वन्मयचित्ततया हृदि वन्दे ॥
त्वन्मयम् एतद् अशेषम् इदानीं भाति मम त्वदनुग्रहशक्त्या ।
त्वं च महेश सदैव ममात्मा स्वात्ममयं मम तेन समस्तम् ॥
स्वात्मनि विश्वगये त्वयि नाथे तेन न संसृतिभीतिकथास्ति ।
सत्स्व् अपि दुर्धरदुःखविमोहत्रासविधायिषु कर्मगणेषु ॥
अन्तक मां प्रति मा दृशम् एनां क्रोधकरालतमां विनिधेहि ।
शङ्करसेवनचिन्तनधीरो भीषणभैरवशक्तिमयो ऽस्मि ॥
इत्थं उपोढभवन्मयसंविद्दीधितिदारितभूरितमिस्रः ।
मृत्युयमान्तककर्मपिशाचैर् नाथ नमो ऽस्तु न जातु बिभेमि ॥
प्रोदितसत्यविबोधमरीचिप्रेक्षितविश्वपदार्थसतत्त्वः ।
भावपरामृतनिर्भरपूर्णे त्वय्य् अहम् आत्मनि निर्वृतिम् एमि ॥
मानसगोचरम् एति यदैव क्लेशदशा ऽतनुतापविधात्री [1] ।
नाथ तदैव मम त्वदभेदस्तोत्रपरामृतवृष्टिर् उदेति ॥
शङ्कर सत्यम् इदं व्रतदानस्नानतपो भवतापविदारि ।
तावकशास्त्रपरामृतचिन्ता स्यन्दति चेतसि निर्वृतिधाराम् ॥
नृत्यति गायति हृष्यति गाढं संविद् इयं मम भैरवनाथ ।
त्वां प्रियम् आप्य सुदर्शनम् एकं दुर्लभम् अन्यजनैः समयज्ञम् ॥
वसुरसपौषे कृष्णदशम्याम् अभिनवगुप्तः स्तवम् इमम् अकरोत् ।
येन विभुर् भवमरुसन्तापं शमयति जनस्य झटिति दयालुः ॥
समाप्तम् स्तवम् इदम् अभिनवाख्यम् पद्यनवकम् ॥

मूल पाठ: Bhairavastava · Data entry Marino Faliero · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc