भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 09.20

09.20.001

भ्प्_09.20.001।0 श्रीबादरायणिरुवाच
पूरोर्वंशं प्रवक्ष्यामि यत्र जातो ऽसि भारत ।
यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे

09.20.002

जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत्सुतस्ततः ।
प्रवीरो ऽथ मनुस्युर्वै तस्माच् चारुपदो ऽभवत्

09.20.003

तस्य सुद्युरभूत् पुत्रस्तस्माद्बहुगवस्ततः ।
संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः

09.20.004

ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः ।
जलेयुः सन्नतेयुश्च धर्मसत्यव्रतेयवः

09.20.005

दशैते ऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः ।
घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः

09.20.006

ऋतेयो रन्तिनावो ऽभूत् त्रयस्तस्यात्मजा नृप ।
सुमतिर्ध्रुवो ऽप्रतिरथः कण्वो ऽप्रतिरथात्मजः

09.20.007

तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातयः ।
पुत्रो ऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मतः

09.20.008

दुष्मन्तो मृगयां यातः कण्वाश्रमपदं गतः ।
तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव

09.20.009

विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् ।
बभाषे तां वरारोहां भटैः कतिपयैर्वृतः

09.20.010

तद्दर्शनप्रमुदितः सन्निवृत्तपरिश्रमः ।
पप्रच्छ कामसन्तप्तः प्रहसञ् श्लक्ष्णया गिरा

09.20.011

का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे ।
किं स्विच् चिकीर्षितं तत्र भवत्या निर्जने वने

09.20.012

व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे ।
न हि चेतः पौरवाणामधर्मे रमते क्वचित्

09.20.013

भ्प्_09.20.013।0 श्रीशकुन्तलोवाच
विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने ।
वेदैतद्भगवान् कण्वो वीर किं करवाम ते

09.20.014

आस्यतां ह्यरविन्दाक्ष गृह्यतामर्हणं च नः ।
भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते

09.20.015

भ्प्_09.20.015।0 श्रीदुष्मन्त उवाच
उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये ।
स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम्

09.20.016

ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम् ।
गान्धर्वविधिना राजा देशकालविधानवित्

09.20.017

अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे ।
श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम्

09.20.018

कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः ।
बद्ध्वा मृगेन्द्रं तरसा क्रीडति स्म स बालकः

09.20.019

तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा ।
हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत्

09.20.020

यदा न जगृहे राजा भार्यापुत्राव् अनिन्दितौ ।
शृण्वतां सर्वभूतानां खे वाग् आहाशरीरिणी

09.20.021

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्मन्त मावमंस्थाः शकुन्तलाम्

09.20.022

रेतोधाः पुत्रो नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला

09.20.023

पितर्युपरते सो ऽपि चक्रवर्ती महायशाः ।
महिमा गीयते तस्य हरेरंशभुवो भुवि

09.20.024

चक्रं दक्षिणहस्ते ऽस्य पद्मकोशो ऽस्य पादयोः ।
ईजे महाभिषेकेण सो ऽभिषिक्तो ऽधिराड् विभुः

09.20.025

पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभिः ।
मामतेयं पुरोधाय यमुनामनु च प्रभुः

09.20.026

अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद्वसु ।
भरतस्य हि दौष्मन्तेरग्निः साचीगुणे चितः ।
सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे

09.20.027

त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् ।
दौष्मन्तिरत्यगान् मायां देवानां गुरुमाययौ

09.20.028

मृगान् छुक्लदतः कृष्णान् हिरण्येन परीवृतान् ।
अदात् कर्मणि मष्णारे नियुतानि चतुर्दश

09.20.029

भरतस्य महत् कर्म न पूर्वे नापरे नृपाः ।
नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा

09.20.030

किरातहूणान् यवनान् पौण्ड्रान् कङ्कान् खशान् छकान् ।
अब्रह्मण्यनृपांश्चाहन् म्लेच्छान् दिग्विजये ऽखिलान्

09.20.031

जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे ।
देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत्

09.20.032

सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी ।
समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत्

09.20.033

स संराड् लोकपालाख्यमैश्वर्यमधिराट् श्रियम् ।
चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह

09.20.034

तस्यासन् नृप वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः ।
जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते

09.20.035

तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् ।
मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः

09.20.036

अन्तर्वत्न्यां भ्रातृपत्न्यां मैथुनाय बृहस्पतिः ।
प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमुपासृजत्

09.20.037

तं त्यक्तुकामां ममतां भर्तुस्त्यागविशङ्किताम् ।
नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः

09.20.038

मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते ।
यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्व् अयम्

09.20.039

चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् ।
व्यसृजन् मरुतो ऽबिभ्रन् दत्तो ऽयं वितथे ऽन्वये

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc