भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 06.08

06.08.001

भ्प्_06.08.001।0 श्रीराजोवाच
यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्

06.08.002

भगवंस्तन् ममाख्याहि वर्म नारायणात्मकम् ।
यथाततायिनः शत्रून् येन गुप्तो ऽजयन् मृधे

06.08.003

भ्प्_06.08.003।0 श्रीबादरायणिरुवाच
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु

06.08.004

भ्प्_06.08.004।0 श्रीविश्वरूप उवाच
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः

06.08.005

नारायणपरं वर्म सन्नह्येद्भय आगते ।
पादयोर्जानुनोरूर्वोरुदरे हृद्य् अथोरसि

06.08.006

मुखे शिरस्य् आनुपूर्व्यादोंकारादीनि विन्यसेत् ।
ओं नमो नारायणायेति विपर्ययमथापि वा

06.08.007

करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु

06.08.008

न्यसेद्धृदय ओंकारं विकारमनु मूर्धनि ।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत्

06.08.009

वेकारं नेत्रयोर्युञ्ज्यान् नकारं सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः

06.08.010

सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
ओं विष्णवे नम इति

06.08.011

आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत्

06.08.012

ओं हरिर्विदध्यान् मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचाप पाशान् दधानो ऽष्टगुणो ऽष्टबाहुः

06.08.013

जलेषु मां रक्षतु मत्स्यमूर्तिर् यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनो ऽव्यात् त्रिविक्रमः खे ऽवतु विश्वरूपः

06.08.014

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान् नृसिंहो ऽसुरयूथपारिः ।
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः

06.08.015

रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामो ऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणो ऽव्याद्भरताग्रजो ऽस्मान्

06.08.016

मामुग्रधर्मादखिलात् प्रमादान् नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात्

06.08.017

सनत्कुमारो ऽवतु कामदेवाद् धयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात्

06.08.018

धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताज् जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः

06.08.019

द्वैपायनो भगवान् अप्रबोधाद् बुद्धस्तु पाषण्डगणप्रमादात् ।
कल्किः कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः

06.08.020

मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः ।
नारायणः प्राह्ण उदात्तशक्तिर् मध्यन्दिने विष्णुररीन्द्रपाणिः

06.08.021

देवो ऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे निशीथ एको ऽवतु पद्मनाभः

06.08.022

श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशो ऽसिधरो जनार्दनः ।
दामोदरो ऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः

06.08.023

चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्य् अरिसैन्यमाशु कक्षं यथा वातसखो हुताशः

06.08.024

गदे ऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्य् अजितप्रियासि ।
कुष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन्

06.08.025

त्वं यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनो ऽरेर्हृदयानि कम्पयन्

06.08.026

त्वं तिग्मधारासिवरारिसैन्यम् ईशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षूंषि चर्मन् छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम्

06.08.027

यन् नो भयं ग्रहेभ्यो ऽभूत् केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्यो ऽंहोभ्य एव च

06.08.028

सर्वाण्य् एतानि भगवन् नामरूपानुकीर्तनात् ।
प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः

06.08.029

गरुडो भगवान् स्तोत्र स्तोभश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः

06.08.030

सर्वापद्भ्यो हरेर्नाम रूपयानायुधानि नः ।
बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः

06.08.031

यथा हि भगवान् एव वस्तुतः सदसच् च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः

06.08.032

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया

06.08.033

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः

06.08.034

विदिक्षु दिक्षूर्ध्वमधः समन्ताद् अन्तर्बहिर्भगवान् नारसिंहः ।
प्रहापय लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः

06.08.035

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यसे ऽञ्जसा येन दंशितो ऽसुरयूथपान्

06.08.036

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते

06.08.037

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित्

06.08.038

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः ।
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि

06.08.039

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः

06.08.040

गगनान् न्यपतत् सद्यः सविमानो ह्य् अवाक्शिराः ।
स वालिखिल्यवचनादस्थीन्य् आदाय विस्मितः ।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात्

06.08.041

भ्प्_06.08.041।0 श्रीशुक उवाच
य इदं शृणुयात् काले यो धारयति चादृतः ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात्

06.08.042

एतां विद्यामधिगतो विश्वरूपाच् छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधे ऽसुरान्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc