भागवत पुराण · अध्याय 01.01
जन्माद्यस्य यतो ऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् $ तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः &
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो ऽमृषा % धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ भ्प्_01.01.001* ॥
धर्मः प्रोज्झितकैतवो ऽत्र परमो निर्मत्सराणां सतां $ वेद्यं वास्तवम् अत्र वस्तु शिवदं तापत्रयोन्मूलनम् &
धर्मः प्रोज्झितकैतवो ऽत्र परमो निर्मत्सराणां सतां $ वेद्यं वास्तवम् अत्र वस्तु शिवदं तापत्रयोन्मूलनम् &
श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः % सद्यो हृद्यवरुध्यते ऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ भ्प्_01.01.002* ॥
निगमकल्पतरोर्गलितं फलं $ शुकमुखादमृतद्रवसंयुतम् &
निगमकल्पतरोर्गलितं फलं $ शुकमुखादमृतद्रवसंयुतम् &
पिबत भागवतं रसम् आलयं % मुहुरहो रसिका भुवि भावुकाः ॥ भ्प्_01.01.003* ॥
नैमिषे ऽनिमिषक्षेत्रे ईशयः शौनकादयः ।
सत्रं स्वर्गाय लोकाय सहस्रसमम् आसत
त एकदा तु मुनयः प्रातर्हुतहुताग्नयः ।
सत्कृतं सूतम् आसीनं पप्रच्छुरिदम् आदरात्
भ्प्_01.01.006।0 ऋषय ऊचुः
त्वया खलु पुराणानि सेतिहासानि चानघ ।
आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत
यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।
अन्ये च मुनयः सूत परावरविदो विदुः
वेत्थ त्वं सौम्य तत् सर्वं तत्त्वतस्तदनुग्रहात् ।
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्युत
तत्र तत्राञ्जसायुष्मन् भवता यद्विनिश्चितम् ।
पुंसाम् एकान्ततः श्रेयस्तन् नः शंसितुम् अर्हसि
प्रायेणाल्पायुषः सभ्य कलावस्मिन् युगे जनाः ।
मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः
भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः ।
अतः साधो ऽत्र यत् सारं समुद्धृत्य मनीषया ।
ब्रूहि भद्राय भूतानां येनात्मा सुप्रसीदति
सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया
तन् नः शुष्रूषमाणानाम् अर्हस्यङ्गानुवर्णितुम् ।
यस्यावतारो भूतानां क्षेमाय च भवाय च
आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम्
यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः ।
सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापो ऽनुसेवया
को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः ।
शुद्धिकामो न शृणुयाद्यशः कलिमलापहम्
तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः ।
ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः
अथाख्याहि हरेर्धीमन्न् अवतारकथाः शुभाः ।
ईला विदधतः स्वैरम् ईश्वरस्यात्ममायया
वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।
यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे
कृतवान् किल कर्माणि सह रामेण केशवः ।
अतिमर्त्यानि भगवान् गूढः कपटमानुषः
कलिम् आगतम् आज्ञाय क्षेत्रे ऽस्मिन् वैष्णवे वयम् ।
आसीना दीर्घसत्रेण कथायां सक्षणा हरेः
त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।
कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम्
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि ।
स्वां काष्ठाम् अधुनोपेते धर्मः कं शरणं गतः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0