भगवद्गीता · अध्याय 17
शोक-पङ्क-निमग्नं यः साङ्ख्य-योगोपदेशतः ।
उज्जहारार्जुनं भक्तं स कृष्ण-शरणं मम ॥
इति श्री-श्रीधर-स्वामिकृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
द्वितीयो ऽध्यायः
मधुसूदनः : तद् एवं चतुर्णां प्रश्नानाम् उत्तर-व्याजेन सर्वाणि स्थित-प्रज्ञ-लक्षणानि मुमुक्षु-कर्तव्यतया कथितानि । सम्प्रति कर्म-योग-फल-भूतां साङ्ख्य-निष्ठां स्तुवन्न् उपसंहरति एषेति । एषा स्थित-प्रज्ञ-लक्षण-व्याजेन कथिता । एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् इति च प्राग् उक्ता स्थितिर् निष्ठा सर्व-कर्म-संन्यास-पूर्वक-परमात्म-ज्ञान-लक्षणा ब्राह्मी ब्रह्म-विषया । हे पार्थ ! एनां स्थितिं प्राप्य यः कश्चिद् अपि प्नर् न विमुह्यति । न हि ज्ञान-बाधितस्याज्ञानस्य पुनः सम्भवो ऽस्ति अनादित्वेनोत्पत्त्य्-असम्भवात् । अस्यां स्थिताव् अन्त-काले ऽपि अन्त्ये ऽपि वअयसि स्थित्वा ब्रह्म-निर्वाणं
ब्रह्मणि निर्वाणं निर्वृत्तिं ब्रह्म-रूपं निर्वाणम् इति वा । ऋच्छति गच्छत्य् अभेदेन । किम् उ वक्तव्यं यो ब्रमचर्याद् एव संन्यस्य यावज्-जीवम् अस्यां ब्राह्म्यां स्थिताव् अवतिष्ठते स ब्रह्म-निर्वाणम् ऋच्छतीत्य् अपि-शब्दार्थः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0