भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 14

14.2

मधुसूदनः : तद् एव भगवतो वाक्यम् अवतारयति कुतस् त्वेति ।
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [विप् 6.74]
समगस्येति प्रत्येकं सम्बन्धः । मोक्षस्येति तत्-साधनस्य ज्ञानस्य । इङ्गना संज्ञा । एतादृशं समग्रमैश्वर्यादिकं नित्यम् अप्रतिबन्धेन यत्र वर्तते स भगवान् । नित्य-योगे मतुप् । तथा-
उत्पत्तिं च विनाशं च भूतानाम् आगतिं गतिम् ।
वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥ [विप् 6.78]
अत्र भूतानाम् इति प्रत्येकं सम्बध्यते । उत्पत्ति-विनाश-शब्दौ तत्-कारणस्याप्य् उपलक्षकौ । आगति-गती आगमिन्यौ सम्पदापदौ । एतादृशो भगवच्-छब्दार्थः श्री-वासुदेव एव पर्यवसित इति तथोच्यते ।
इदं स्वधर्मात् पराङ्मुखत्वं कृपा-व्यामोहाश्रु-पातादि-पुरः-सरं कश्मलं शिष्ट-गर्हितत्वेन मलिनं विषमे स-भये स्थाने त्वा त्वां सर्व-क्षत्रिय-प्रवरं कुतो हेतोः समुपस्थितं प्राप्तम् ? किं मोक्षेच्छातः ? किं वा स्वर्गेच्छातः ? इति किं-शब्देनाक्षिप्यते । हेतु-त्रयम् अपि निषेधति त्रिभिर् विशेसणैर् उत्तरार्धेन । आर्यैर् मुमुक्षुभिर् न जुष्टम् असेवितम् । स्व-धर्मैर् आशय-शुद्धि-द्वारा मोक्स् इच्छद्भिर् अपक्व-कषायैर् मुमुक्षुभिः कथं स्व-धर्मस् त्याज्य इत्य् अर्थः । संन्यासाधिकारी
तु पक्व-कषायो ऽग्रे वक्ष्यते । अस्वर्ग्यं स्वर्ग-हेतु-धर्म-विरोधित्वान् न स्वर्गेच्छया सेव्यम् । अकीर्तिकरं कीर्त्य्-अभाव-करम् अपकीर्तिकरं वा न कीर्तीच्छया सेव्यम् । तथा च मोक्ष-कामैः स्वर्ग-कामैः कीर्ति-कामैश् च वर्जनीयम् । तत् काम एव त्वं सेवस्व इत्य् अहो अनुचितं चेष्टितं तवेति भावः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc