ग्रंथ पाठ
भगवद्गीता · अध्याय 119
119.2
मधुसूदनः : तस्याः सिद्धैर् ऐकान्तिकत्वं दर्शयति इदं इति । इदं यथोक्तम् ज्ञानं ज्ञान-साधनम् उपाश्रित्यानुष्ठाय मम परमेश्वरस्य साधर्म्यं मद्-रूपताम् अत्यन्ताभेदेनागताः प्राप्ताः सन्तः सर्गे ऽपि हिरण्यगर्भादिषूत्पद्यमानेष्व् अपि नोपजायन्ते । प्रलये ब्रह्मणो ऽपि विनाश-काले न व्यथन्ति च व्यथन्ते न च लीयन्त इत्य् अर्थः ॥14.2॥
विश्वनाथः : साधर्म्यं सारूप्य-लक्षणां मुक्तिं । न व्यथन्ति न व्यथन्ते
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0