भगवद्गीता · अध्याय 10
मधुसूदनः : अहिंसा परमो धर्मो भिक्षाशनं चेत्य् एवं-लक्षणया बुद्ध्या युद्ध-वैमुख्यम् अर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यम् अप्रचलितम् अवधार्य स्वस्थ-हृदयस्य धृतराष्ट्रस्य हर्ष-निमित्तां ततः किं वृत्तम् इत्य् आकाङ्क्षाम् अपनिनीषुः संजयस् तं प्रत्युक्तवान् इत्य् आह वैशम्पायनः ।
कृपा ममैत इति व्यामोह-निमित्तः स्नेह-विशेषः । तयाविष्टं स्वभाव-सिद्ध्या व्याप्तम् । अर्जुनस्य कर्मत्वं कृपायाश् च कर्तृत्वं वदता तस्या आगन्तुकत्वं व्युदस्तम् । अतएव विषीदन्तं स्नेह-विषयी-भूत-स्वजन-विच्छेदाशङ्का-निमित्तः शोकापर-पर्यायश् चित्त-व्याकुली-भावो विषादस् तं प्राप्नुवन्तम् । अत्र विषादस्य कर्मत्वेनार्जुनस्य कर्तृत्वेन च तस्यागन्तुकत्वं सूचितम् ।
अतएव कृपा-विषाद-वशाद् अश्रुभिः पूर्णे आकुले दर्शनाक्षमे चेक्षणे यस्य तम् । एवम् अश्रु-पात-व्याकुली-भावाख्य-कार्य-द्वय-जनकतया परिपोषं गताभ्यां कृपा-विषादाभ्याम् उद्विग्नं तम् अर्जुनम् इदं सोपपत्तिकं वक्ष्यमाणं वाक्यम् उवाच न तूपेक्षितवान् । मधुसूदन इति । स्वयं दुष्ट-निग्रह-कर्तार्जुनं प्रत्य् अपि तथैव वक्ष्यतीति भावः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0