भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता (टीका सहित) · अध्याय 6

6.1

इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये पञ्चमो ऽध्यायः ॥
॥5॥
भ्ग् 6
अथ षष्ठो ऽध्यायः
(शङ्कराचार्य-भाष्यः)
अतीतानन्तराध्यायान्ते ध्यान-योगस्य सम्यग् दर्शनं प्रत्य् अन्तरङ्गस्य सूत्र-भूताः श्लोकाः स्पर्शान् कृत्वा बहिः [गीता 5.27] इत्य् आदय उपदिष्टः । तेषां वृत्ति-स्थानीयो ऽयं षष्ठो ऽध्याय आरभ्यते । तत्र ध्यान-योगस्य बहिरङ्गं कर्मेति यावद् ध्यान-योगारोहण-समर्थस् तावद् गृहस्थेनाधिकृतेन कर्तव्यं कर्म इत्य् अतस् तत् स्तौति ।
ननु किम्-अर्थं ध्यान-योगारोहण-सीमा-करणम्, यावतानुष्ठेयम् एव विहितं कर्म यावज्जीवम् । न, आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते [गीता 3.3] इति विशेषणात् । आरूढस्य च शमेनैव संबन्ध-करणात् । आरुरुक्षोर् आरूढस्य च शमः कर्मश् चोभयं कर्तव्यत्वेनाभिप्रेतं चेत् स्यात् तदारुरुक्षोर् आरूढस्य चेति शम-कर्म-विषय-भेदेन विशेषणं विभाग-करणं चानर्थकं स्यात् ।
तत्राश्रमिणां कश्चिद् योगम् आरुरुक्षुर् भवति । आरूढश् च कश्चित् । अन्ये नारुरुक्षवः । न चारूढाः । तान् अपेक्ष्यारुरुक्षोर् आरूढस्य चेति विशेषणं विभाग-करणं चोपपद्यत एवेति चेत्, न । तस्यैवेति वचनात् । पुनर् योग-ग्रहणाच् च योगारूढस्येति । य आसीत् पूर्वं योगम् आरुरुक्षुस् तस्यैवारूढस्य शम एव कर्तव्यः । कारणं योग-फलं प्रत्युच्यतेति । अतो न यावज्-जीवं कर्तव्यत्व-प्राप्तिः कस्यचिद् अपि कर्मणः । योग-विभ्रष्ट-वचनाच् च ।
गृहस्थस्य चेत् कर्मिणो योगो विहितः षष्ठे ऽध्याये, स योग-विभ्रष्टो ऽपि कर्म-गतिं कर्म-फलं प्राप्नोतीति तस्य नाशाशङ्कानुपपन्ना स्यात् । अवश्यं हि कृतं कर्म काम्यं नित्यं वा मोक्षस्य नित्यत्वाद् अनारभ्यत्वे स्वं फलम् आरभत एव । नित्यस्य च कर्मणो वेद-प्रमाणावबुद्धत्वात् फलेन भवितव्यम् इत्य् अवोचाम । अन्यथा वेदस्यानर्थार्थत्व-प्रसङ्गाद् इति ।
न च कर्मणि सत्य् उभय-विभ्रष्ट-वचनम् अर्थवत् । कर्मणो विभ्रंश-कारणानुपपत्तेः । कर्म कृतम् ईश्वरे संन्यस्येत्य् अतः कर्तरि कर्म फलं नारभतेति चेन्, न । ईश्वरे संन्यासस्याधिकतर-फल-हेतुत्वोपपत्तेः । मोक्षायैवेति चेत्, स्व-कर्मणां कृतानाम् ईश्वरे न्यासो मोक्षायैव, न फलान्तराय योग-सहितः ।
योगाच् च विभ्रष्ट इत्य् अतस् तं प्रति नाश-शङ्का युक्तैवेति चेत्, न । एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः [गीता 6.10] ब्रह्मचारि-व्रते स्थितः [गीता 6.14] इति कर्म-संन्यास-विधानात् । न चात्र गृहस्थस्य निराशीर् अपरिग्रहः इत्य् आदि-वचनम् अनुकूलम् । उभय-विभ्रष्ट-प्रश्नानुपपत्तेश् च ।
अनाश्रित इत्य् अनेन कर्मिण एव संन्यासित्वं योगित्वं चोक्तम्, प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं योगित्वं चेति चेत्, न । ध्यान-योगं प्रति बहिरङ्गस्य सतः कर्मणः फलाकाङ्क्षा-संन्यास-स्तुति-परत्वात् ।
न केवलं निरग्निर् अक्रिय एव संन्यासी योगी च । किं तर्हि ? कर्म्य् अपि, कर्म-फलासङ्गं संन्यस्य कर्म-योगम् अनुतिष्ठन् सत्त्व-शुद्ध्य्-अर्थं, स संन्यासी च योगी च भवतीति स्तूयते । न चैकेन वाक्येन कर्म-फलासङ्ग-संन्यास-स्तुतिश् चतुर्थाश्रम-प्रतिषेधश् चोपपद्यते । न च प्रसिद्धं निरग्नेर् अक्रियस्य परमार्थ-संन्यासिनः श्रुति-स्मृति-पुराणेतिहास-योग-शास्त्रेषु विहितं संन्यासित्वं योगित्वं च प्रतिषेधति भगवान् । स्व-वचन-विरोधाच् च - सर्व-कर्माणि मनसा संन्यस्य... नैव कुर्वन् न कारयन् आस्ते [गीता 5.13] मौनी संतुष्टो येन केनचित्... अनिकेतः स्थिर-मतिः [गीता 12.19] विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः [गीता 2.71] सर्वारम्भ-परित्यागी [गीता 12.16] इति च तत्र तत्र भगवता स्व-वचनानि दर्शितानि । तैर् विरुध्येतश् चतुर्थाश्रम-प्रतिषेधः
। तस्मान् मुनेर् योगम् आरुरुक्षोः प्रतिपन्न-गार्हस्थ्यस्याग्निहोत्रादि-कर्म फल-निरपेक्षम् अनुष्ठीयमानं ध्यान-योगारोहण-साधनत्वं सत्त्व-शुद्धि-द्वारेण प्रतिपद्यत इति स संन्यासी च योगी चेति स्तूयते -
अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर् न चाक्रियः

6.1

अनाश्रितो -- नाश्रितो ऽनाश्रितः । किम् ? कर्म-फलं कर्मणां फलं कर्म-फलं यत् तद्-अनाश्रितः, कर्म-फल-तृष्णा-रहित इत्य् अर्थः । यो हि कर्म-फले तृष्णावान् स कर्म-फलम् आश्रितो भवति । अयं तु तद्-विपरीतः, अतो ऽनाश्रितः कर्म-फलम् । एवंभूतः सन् कार्यं कर्तव्यं नित्यं काम्य-विपरीतम् अग्निहोत्रादिकं कर्म करोति निर्वर्तयति । यः कश्चिद् ईदृशः कर्मी स कर्म्य् अन्तरेभ्यो विशिष्यते । इत्य् एवम् अर्थम् आह - स संन्यासी च योगी चेति । संन्यासः परित्यागः स यस्यास्ति स संन्यासी च योगी च । योगश् चित्त-समाधानं स यस्यास्ति स योगी चेति एवंगुण-संपन्नो ऽयं मन्तव्यः । न केवलं निरग्निर् अक्रिय एव संन्यासी योगी चेति मन्तव्यः । निर्गताः अग्नयः कर्माङ्ग-भूता यस्मात् स निरग्निः । अक्रियश् चानग्नि-साधनाप्य् अविद्यमानाः
क्रियास् तपो-दानादिका यस्यासाव् अक्रियः

6.2

==============================
ननु च निरग्नेः अक्रियस्यैव श्रुति-स्मृति-योग-शास्त्रेषु संन्यासित्वं योगित्वं च प्रसिद्धम् । कथम् इह साग्नेः स-क्रियस्य च संन्यासित्वं योगित्वं चाप्रसिद्धम् उच्यत इति । नैष दोषः, कयाचिद् गुण-वृत्त्या उभयस्य संपिपादयिषितत्वात् । तत् कथम् ? कर्म-फल-संकल्प-संन्यासात् संन्यासित्वम्, योगाङ्गत्वेन च कर्मानुष्ठानात् कर्म-फल-संकल्पस्य च चित्त-विक्षेप-हेतोः परित्यागाद् योगित्वं चेति गौणम् उभयम् । न पुनर् मुख्यं संन्यासित्वं योगित्वं चाभिप्रेतम् इत्य् एतम् अर्थं दर्शयितुम् आह -
यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव ।
न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन

6.2

यं सर्व-कर्म-तत्-फल-परित्याग-लक्षणं परमार्थ-संन्यासं संन्यासम् इति प्राहुः श्रुति-स्मृति-विदः, योगं कर्मानुष्ठान-लक्षणं तं परमार्थ-संन्यासं विद्धि जानीहि हे पाण्डाव । कर्म-योगस्य प्रवृत्ति-लक्षणस्य तद्-विपरीतेन निवृत्ति-लक्षणेन परमार्थ-संन्यासेन कीदृशं सामान्यम् अङ्गीकृत्य तद्-भाव उच्यते इत्य् अपेक्षायाम् इदम् उच्यते - अस्ति हि परमार्थ-संन्यासेन सादृश्यं कर्तृ-द्वारकं कर्म-योगस्य । यो हि परमार्थ-संन्यासी स त्यक्त-सर्व-कर्म-साधनतया सर्व-कर्म-तत्-फल-विषयं संकल्पं प्रवृत्ति-हेतु-काम-कारणं संन्यस्यति । अयम् अपि कर्म-योगी कर्म कुर्वाण एव फल-विषयं संकल्पं संन्यस्यतीति । एतम् अर्थं दर्शयिष्यन्न् आह - न हि यस्माद् असंन्यस्त-संकल्पो ऽसंन्यस्तो ऽपरित्यक्तः सङ्कल्पो
ऽभिसन्धिर् येन सो ऽसंन्यस्त-सङ्कल्पः कश्चन कश्चिद् अपि कर्मी योगी समाधानवान् भवति । न संभवतीत्य् अर्थः । फल-संकल्पस्य चित्त-विक्षेप-हेतुत्वात् । तस्माद् यः कश्चन कर्मी संन्यस्त-फल-संकल्पो भवेत् स योगी समाधानवान् अविक्षिप्त-चित्तो भवेत् । चित्त-विक्षेप-हेतोः फल-संकल्पस्य संन्यस्तत्वाद् इत्य् अभिप्रायः । योगाङ्गत्वेन कर्मानुष्ठानात् कर्म-फल-सङ्कल्पस्य वा चित्त-विक्षेप-हेतोः परित्यागात् योगित्वं चेति संन्यासित्वं चेत्य् अभिप्रेतम् उच्यते ।[*नोते: थिस् लस्त् सेन्तेन्चे नोत् fओउन्द् इन् अल्ल् एदितिओन्स्.]

6.3

==============================
एवं परमार्थ-संन्यास-कर्म-योगयोः कर्तृ-द्वारकं संन्यास-सामान्यम् अपेक्ष्य यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डाव [गीता 6.2] इति कर्म-योगस्य स्तुत्य्-अर्थं संन्यासत्वम् उक्तम् । ध्यान-योगस्य फल-निरपेक्षः कर्म-योगो बहिरङ्गं साधनम् इति तं संन्यासत्वेन स्तुत्वाधुना कर्म-योगस्य ध्यान-योग-साधनत्वं दर्शयति -
आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।
योगारूढस्य तस्यैव शमः कारणम् उच्यते

6.3

आरुरुक्षोर् आरोढुम् इच्छतः, अनारूढस्य, ध्यान-योगे ऽवस्थातुम् अशक्तस्यैवेत्य् अर्थः । कस्य तस्यारुरुक्षोः ? मुनेः, कर्म-फल-संन्यासिन इत्य् अर्थः । किम् आरुरुक्षोः ? योगम् । कर्म कारणं साधनम् उच्यते । योगारूढस्य पुनस् तस्यैव शमर् उपशमः सर्व-कर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इत्य् अर्थः । यावद् यावत् कर्मभ्य उपरमते, तावत् तावत् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन -
नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च ।
शीलं स्थितिर् दण्ड-निधानम् आर्जवं
ततस् ततश् चोपरमः क्रियाभ्यः ॥ [म्भ् 12.175.37] इति

6.4

==============================
अथेदानीं कदा योगारूढो भवतीत्य् उच्यते -
यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते ।
सर्व-संकल्प-संन्यासी योगारूढस् तदोच्यते

6.4

यदा समाधीयमान-चित्तो योगी हीन्द्रियार्थेष्व् इन्द्रियाणाम् अर्थाः शब्दादयस् तेष्व् इन्द्रियार्थेषु कर्मसु च नित्य-नैमित्तिक-काम्य-प्रतिषिद्धेषु प्रयोजनाभाव-बुद्ध्या नानुषज्जते ऽनुषङ्गं कर्तव्यता-बुद्धिं न करोतीत्य् अर्थः । सर्व-संकल्प-संन्यासी सर्वान् संकल्पान् इहामुत्रार्थ-काम-हेतून संन्यसितुं शीलम् अस्येति सर्व-संकल्प-संन्यासी । योगारूढः प्राप्त-योग इत्य् एतत्, तदा तस्मिन् काल उच्यते । सर्व-संकल्प-संन्यासीति वचनात् सर्वांश् च कामान् सर्वाणि च कर्माणि संन्यस्येद् इत्य् अर्थः । संकल्प-मूला हि सर्वे कामाः - संकल्प-मूलः कामो वै यज्ञाः संकल्प-संभवाः [मनु 2.3]
काम जानामि ते मूलं संकल्पात् त्वं हि जायसे ।
न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि ॥ [मभ् 12.177.25] इत्य् आदि-स्मृतेः ।
सर्व-काम-परित्यागे च सर्व-कर्म-संन्यासः सिद्धो भवति । स यथा-कामो भवति तत्-क्रतुर् भवति यत् क्रतुर् भवति तत् कर्म कुरुते [बौ 4.4.5] इत्य् आदि श्रुतिभ्यः । यद् यद् धि कुरुते जन्तुस् तत् तत् कामस्य चेष्टितम् [मनु 2.4] इत्य् आदि-स्मृतिभ्यश् च । न्यायाच् च - न हि सर्व-संकल्प-संन्यासे कश्चित् स्पन्दितुम् अपि शक्तः । तस्मात् सर्व-संकल्प-संन्यासीति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान्

6.5

==============================
यदैवं योगारूढः, तदा तेन आत्मा उद्भृतो भवति संसाराद् अनर्थ-जातात् । अतः -
उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् ।
आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः

6.5

उद्धरेत् संसार-सागरे निमग्नम् आत्मनात्मानं तत उत् ऊर्ध्वं हरेद् उद्धरेत्, योगारूढताम् आपादयेद् इत्य् अर्थः । नात्मानम् अवसादयेत् नाधो नयेत, नाधो गमयेत् । आत्मैव हि यस्माद् आत्मनो बन्धुः । न ह्य् अन्यः कश्चित् बन्धुः, यः संसार-मुक्तये भवति । बन्धुर् अपि तावत् मोक्षं प्रति प्रतिकूल एव, स्नेहादि-बन्धनायतनत्वात् । तस्मात् युक्तम् अवधारणम् आत्मैव ह्य् आत्मनो बन्धुर् इति । आत्मैव रिपुः शत्रुः । यो ऽन्यो ऽपकारी बाह्यः शत्रुः सो ऽपि आत्म-प्रयुक्त एवेति युक्तम् एवावधारणम् आत्मैव रिपुर् आत्मन इति

6.6

==============================
आत्मैव बन्धुर् आत्मैव रिपुर् आत्मन इत्य् उक्तम् । तत्र किं-लक्षण आत्मा आत्मनो बन्धुः, किं-लक्षणो वा आत्मात्मनो रिपुर् इत्य् उच्यते -
बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः ।
अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्

6.6

बन्धुर् आत्मात्मनस् तस्य, तस्यात्मनः स आत्मा बन्धुर् येनात्मनात्मैव जितः । आत्मा कार्य-करण-संघातो येन वशीकृतः, जितेन्द्रिय इत्य् अर्थः । अनात्मनस् त्व् अजितात्मनस् तु शत्रुत्वे शत्रु-भावे वर्तेत आत्मैव शत्रुवत्, यथानात्मा शत्रुर् आत्मनो ऽपकारी, तथात्मा आत्मनो ऽपकारे वर्तेत इत्य् अर्थः

6.7

==============================
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः

6.7

जितात्मनः कार्य-करण-संघात आत्मा जितो येन स जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तः-करणस्य सतः संन्यासिनः परमात्मा समाहितः साक्षाद्-आत्म-भावेन वर्तते इत्य् अर्थः । किं च शीतोष्ण-सुख-दुःखेषु तथा माने ऽपमाने च मानापमानयोः पूजा-परिभवयोः समः स्यात्

6.8

==============================
ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः

6.8

ज्ञान-विज्ञान-तृप्तात्मा ज्ञानं शास्त्रोक्त-पदार्थानां परिज्ञानम्, विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभव-करणम्, ताभ्यां ज्ञान-विज्ञानाभ्यां तृप्तः संजातालं-प्रत्ययः आत्मान्तः-करणं यस्य स ज्ञान-विज्ञान-तृप्तात्मा, कूटास्थो ऽप्रकम्प्यः, भवतीत्य् अर्थः । विजितेन्द्रियश् च । य ईदृशः, युक्तः समाहित इति स उच्यते कथ्यते । स योगी सम-लोष्टाश्म-काञ्चनः लोष्टाश्म-काञ्चनानि समानि यस्य सः सम-लोष्टाश्म-काञ्चनः

6.9

==============================
किं च -
सुहृन्-मित्रार्य्-उदासीन-मध्य-स्थ-द्वेष्य-बन्धुषु ।
साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते

6.9

सुहृद् इत्य् आदि लोकार्धम् एकं पदम् । सुहृत् इति प्रत्युपकारम् अनपेक्ष्य उपकर्ता, मित्रं स्नेहवान्, अरिः शत्रुः, उदासीनो न कस्यचित् पक्षं भजते, मध्य-स्थो यो विरुद्धयोर् उभयोः हितैषी, द्वेष्य आत्मनो ऽप्रियः, बन्धुः संबन्धी इत्य् एतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्ध-कारिषु सर्वेष्व् एतेषु सम-बुद्धिः । कः किं-कर्मा इत्य् अव्यापृत-बुद्धिर् इत्य् अर्थः । विशिष्यते, विमुच्यते इति वा पाठान्तरम् । योगारूढानां सर्वेषाम् अयम् उत्तम इत्य् अर्थः

6.10

==============================
अत एवम् उत्तम-फल-प्राप्तये -
योगी युञ्जीत सततम् आत्मानं रहसि स्थितः ।
एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः

6.10

योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदात्मानम् अन्तः-करणं रहसि एकान्ते गिरि-गुहादौ स्थितः सन् एकाकी असहायः । रहसि स्थितः एकाकी चेति विशेषणात् संन्यासं कृत्वा इत्य् अर्थः । यत-चित्तात्मा चित्तम् अन्तः-करणम् आत्मा देहश् च संयतौ यस्य स यत-चित्तात्मा, निराशीर् वीत-तृष्णो ऽपरिग्रहः परिग्रह-रहितश् चेत्य् अर्थः । संन्यासित्वे ऽपि त्यक्त-सर्व-परिग्रहः सन् युञ्जीत इत्य् अर्थः

6.11

==============================
अथेदानीं योगं युञ्जतः आसनाहार-विहारादीनां योग-साधनत्वेन नियमो वक्तव्यः, प्राप्त-योगस्य लक्षणं तत्-फलादि च, इत्य् अत आरभ्यते । तत्रासनम् एव तावत् प्रथमम् उच्यते -
शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम्

6.11

शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा, देशे स्थाने प्रतिष्ठाप्य स्थिरम् अचलम् आत्मन आसनं नात्युच्छ्रितं नातीव उच्छ्रितं नाप्य् अतिनीचम्, तच् च चैलाजिन-कुशोत्तरं चैलम् अजिनं कुशाश् चोत्तरे यस्मिन्न् आसने तद् आसनं चैलाजिन-कुशोत्तरम् । पाठ-क्रमाद् विपरीतो ऽत्र क्रमश् चैलादीनाम्

6.12

==============================
प्रतिष्ठाप्य, किम् ?
तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः ।
उपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये

6.12

तत्र तस्मिन्न् आसन उपविश्य योगं युञ्ज्यात् । कथम् ? सर्व-विषयेभ्य उपसंहृत्य एकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियश् चित्तं चेन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य स यत-चित्तेन्द्रिय-क्रियः । स किम्-अर्थं योगं युञ्ज्याद् इत्य् आह - आत्म-विशुद्धये ऽन्तः-करणस्य विशुद्ध्य्-अर्थम् इत्य् एतत्

6.13

==============================
बाह्यम् आसनम् उक्तम् । अधुना शरीर-धारणं कथम् इत्य् उच्यते -
समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः ।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन्

6.13

समं काय-शिरो-ग्रीवं कायश् च शिरश् च ग्रीवा च काय-शिरो-ग्रीवं तत् समं धारयन् अचलं च । समं धारयतश् चलनं संभवति । अतो विशिनष्टि - अचलम् इति । स्थिरः स्थिरो भूत्वा इत्य् अर्थः । स्वं नासिकाग्रं संप्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वैवेति । इव-शब्दो लुप्तो द्रष्टव्यः । न हि स्व-नासिकाग्र-संप्रेक्षणम् इह विधित्सितम् । किं तर्हि ? चक्षुषो दृष्टि-संनिपातः । स चान्तः-करण-समाधानापेक्षो विवक्षितः । स्व-नासिकाग्र-संप्रेक्षणम् एव चेद् विवक्षितम्, मनस् तत्रैव समाधीयेत, नात्मनि । आत्मनि हि मनसः समाधानं वक्ष्यति आत्म-संस्थं मनः कृत्वेति । तस्माद् इव-शब्द-लोपेनाक्ष्णोर् दृष्टि-संनिपात एव संप्रेक्ष्य इत्य् उच्यते । दिशश् चानवलोकयन् दिशां चावलोकनम् अन्तरा कुर्वन् इत्य् एतत्

6.14

==============================
किं च -
प्रशान्तात्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः ।
मनः संयम्य मच्-चित्तो युक्त आसीत मत्-परः

6.14

प्रशान्तात्मा प्रकर्षेण शान्तः आत्मान्तः-करणं यस्य सो ऽयं प्रशान्तात्मा, विगत-भीः विगत-भयः, ब्रह्मचारि-व्रते स्थितः । ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरु-शुश्रूषा-भिक्षान्न-भुक्त्य्-आदि तस्मिन् स्थितः । तद्-अनुष्ठाता भवेद् इत्य् अर्थः । किं च, मनः संयम्य मनसो वृत्तीर् उपसंहृत्य इत्य् एतत्, मच्-चित्तो मयि परमेश्वरे चित्तं यस्य सो ऽयं मच्-चित्तः, युक्तः समाहितः सन्न् आसीत उपविशेत् । मत्-परो ऽहं परो यस्य सो ऽयं मत्-परो भवति । कश्चित् रागी स्त्री-चित्तः, न तु स्त्रियम् एव परत्वेन गृह्णाति । किं तर्हि ? राजानं महा-देवं वा । अयं तु मच्-चित्तो मत्-परश् च

6.15

==============================
अथेदानीं योग-फलम् उच्यते -
युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः ।
शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति

6.15

युजन् समाधानां कुर्वन्न् एवं यथोक्तेन विधानेन सदात्मनां सर्वदा योगी नियत-मानसो नियतं संयतं मानसं मनो यस्य सो ऽयं नियत-मानसः, शान्तिम् उपरतिं निर्वाण-परमां निर्वाणं मोक्षस् तत् परमा निष्ठा यस्याः शान्तेः सा निर्वाण-परमा तां निर्वाण-परमाम्. मत्-संस्थां मद्-अधीनाम् अधिगच्छति प्राप्नोति

6.16

==============================
इदानीं योगिनः आहारादि-नियम उच्यते -
नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः ।
नश् चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन

6.17

नात्यश्नत आत्म-संमितम् अन्न-परिमाणम् अतीत्याश्नतो ऽत्यश्नतो न योगो ऽस्ति । न चैकान्तम् अनश्नतो योगो ऽस्ति । यद् उ ह वा आत्म-संमितम् अन्नं तद् अवति तन् न हिनस्ति यद् भूयो हिनस्ति तद् यत् कनीयो ऽन्नं न तद् अवति [शतपथब् 9.2.1.2] इति श्रुतेः । तस्मात् योगी न आत्म-संमिताद् अन्नाद् अधिकं न्यूनं वाश्नीयात् । अथवा, योगिनो योग-शास्त्रे परिपठिताद् अन्न-परिमाणाद् अतिमात्रम् अश्नतो योगो नास्ति । उक्तं हि -
अर्धं स-व्यञ्जनान्नस्य तृतीयम् उदकस्य च ।
वायोः संचरणार्थं तु चतुर्थम् अवशेषयेत् ॥ इत्य् आदि परिमाणम् ।
तथा - न चातिस्वप्न-शीलस्य योगो भवति नैव चातिमात्रं जाग्रतो भवति चार्जुन ॥
==============================
कथं पुनर् योगो भवतीत्य् उच्यते -
युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु ।
युक्त-स्वप्नावबोधस्य योगो भवति दुःखहा

6.17

युक्ताहार-विहारस्य आह्रियत इत्य् आहारो ऽन्नम्, विहरणं विहारः पाद-क्रमः, तौ युक्तौ नियत-परिमाणौ यस्य स युक्ताहार-विहारस् तस्य, तथा युक्त-चेष्टस्य युक्ता नियता चेष्टा यस्य कर्मसु तस्य । तथा युक्त-स्वप्नावबोधस्य युक्तौ स्वप्नश् चावबोधश् च तौ नियत-कालौ यस्य तस्य, युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु युक्त-स्वप्नावबोधस्य योगिनो योगो भवति दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्व-संसार-दुःख-क्षय-कृद् योगो भवतीत्य् अर्थः

6.18

==============================
अथाधुना कदा युक्तो भवति ? इत्य् उच्यते -
यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते ।
निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा

6.18

यदा विनियतं विशेषेण नियतं संयतम् एकाग्रताम् आपन्नं चित्तं हित्वा बाह्यार्थ-चिन्ताम् आत्मन्य् एव केवले ऽवतिष्ठते, स्वात्मनि स्थितिं लभते इत्य् अर्थः । निःस्पृहः सर्व-कामेभ्यो निर्गता दृष्टादृष्ट-विषयेभ्यः स्पृहा तृष्णा यस्य योगिनः स युक्तः समाहित इत्य् उच्यते तदा तस्मिन् काले

6.19

==============================
तस्य योगिनः समाहितं यत् चित्तं तस्योपमोच्यते -
यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता ।
योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः

6.19

यथा दीपः प्रदीपो निवात-स्थो निवाते वात-वर्जिते देशे स्थितो नेङ्गते न चलति, सोपमा उपमीयते ऽनयेत्य् उपमा योगज्ञैश् चित्त-प्रचार-दर्शिभिः स्मृता चिन्तिता योगिनो यत-चित्तस्य संयतान्तः-करणस्य युञ्जतो योगम् अनुतिष्ठत आत्मनः समाधिम् अनुतिष्ठत इत्य् अर्थः

6.20

==============================
एवं योगाभ्यास-बलाद् एकाग्रीभूतं निवात-प्रदीप-कल्पं सत् -
यत्रोपरमते चित्तं निरुद्धं योग-सेवया ।
यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति

6.20

यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो निवारित-प्रचारं योग-सेवया योगानुष्ठानेन, यत्र चैव यस्मिंश् च काल आत्मना समाधि-परिशुद्धेनान्तः-करणेनात्मानं परं चैतन्यं ज्योतिः-स्वरूपं पश्यन्न् उपलभमानः स्व एवात्मनि तुष्यति तुष्टिं भजते

6.21

==============================
किं च -
सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः

6.21

सुखम् आत्यन्तिकम् अत्यन्तम् एव भवतीत्य् आत्यन्तिकम् अनन्तम् इत्य् अर्थः, यत् तत् बुद्धि-ग्राह्यं बुद्ध्यैव इन्द्रिय-निरपेक्षया गृह्यते इति बुद्धि-ग्राह्यम् अतीन्द्रियम् इन्द्रिय-गोचरातीतम् अविषय-जनितम् इत्य् अर्थः, वेत्ति तद् ईदृशं सुखम् अनुभवति यत्र यस्मिन् काले, न चैवायं विद्वान् आत्म-स्वरूपे स्थितस् तस्मान् नैव चलति तत्त्वतस् तत्त्व-स्वरूपान् न प्रच्यवत इत्य् अर्थः

6.22

==============================
किं च -
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते

6.22

यं लब्ध्वा यम् आत्म-लाभं लब्ध्वा प्राप्यश् चापरम् अन्यल् लाभं लाभान्तरं ततो ऽधिकम् अस्तीति न मन्यते न चिन्तयति । किं च, यस्मिन् आत्म-तत्त्वे स्थितो दुःखेन शस्त्र-निपातादि-लक्षणेन गुरुणा महतापि न विचाल्यते

6.23

==============================
यत्रोपरमते इत्य् आद्यारभ्य यावद्भिर् विशेषणैर् विशिष्ट आत्मावस्था-विशेषो योग उक्तः -
तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् ।
स निश्चयेन योक्तव्यो योगो ऽनिर्विण्ण-चेतसा

6.23

तं विद्याद् विजानीयाद् दुःख-संयोग-वियोगं दुःखैः संयोगो दुःख-संयोगः, तेन वियोगो दुःख-संयोग-वियोगः, तं दुःख-संयोग-वियोगं योग इत्य् एव संज्ञितं विपरीत-लक्षणेन विद्याद् विजानीयाद् इत्य् अर्थः । योग-फलम् उपसंहृत्य पुनर् अन्वारम्भेण योगस्य कर्तव्यतोच्यते निश्चयानिर्वेदयोर् योग-साधनत्व-विधानार्थम् । स यथोक्त-फलो योगो निश्चयेनाध्यवसायेन योक्तव्यो ऽनिर्विण्ण-चेतसा न निर्विण्णम् अनिर्विण्णम् । किं तत् ? चेतस् तेन निर्वेद-रहितेन चेतसा चित्तेनेत्य् अर्थः

6.24

==============================
किं च -
संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः ।
मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः

6.24

संकल्प-प्रभवान् संकल्पः प्रभवो येषां कामानां ते संकल्प-प्रभवाः कामास् तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतो निर्लेपेन । किं च, मनसैव विवेक-युक्तेन इन्द्रिय-ग्रामम् इन्द्रिय-समुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात्

6.25

==============================
शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया ।
आत्मसंस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत्

6.25

शनैः शनैर् न सहसोपरमेद् उपरतिं कुर्यात् । कया ? बुद्ध्या । किं-विशिष्टया ? धृति-गृहीतया धृत्या धैर्येण गृहीतया धृति-गृहीतया धैर्येण युक्तया इत्य् अर्थः । आत्म-संस्थम् आत्मनि संस्थितम् आत्मैव सर्वं न ततो ऽन्यत् किंचिद् अस्तीत्य् एवम् आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् । एष योगस्य परमो विधिः

6.26

==============================
तत्र एवम् आत्म-संस्थं मनः कर्तुं प्रवृत्तो योगी -
यतो यतो निश्चरति मन चञ्चलम् अस्थिरम् ।
ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत्

6.26

यतो यतो यस्माद् यस्मान् निमित्तात् शब्दादेर् निश्चरति निर्गच्छति स्वभाव-दोषान् मनश् चञ्चलम् अत्यर्थं चलम्, अत एवास्थिरम्, ततस् ततस् तस्मात् तस्मात् शब्दादेर् निमित्तान् नियम्य तत्-तन्-निमित्तं याथात्म्य-निरूपणेन शब्दादेः निमित्तान् नियम्य तत्-तन्-नमित्तं याथात्म्य-निरूपणेन आभासीकृत्य वैराग्य-भावनया च एतत् मन आत्मन्य् एव वशं नयेत् आत्म-वश्यताम् आपादयेत् । एवं योगाभ्यास-बलात् योगिन आत्मन्य् एव प्रशाम्यति मनः

6.27

==============================
प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् ।
उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम्

6.27

प्रशान्तमनसं प्रकर्षेण शान्तं मनो यस्य सः प्रशान्तमनास् तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं नितिशयम् उपैति उपगच्छति शान्त-रजसं प्रक्षीण-मोहादि-क्लेश-रजसम् इत्य् अर्थः, ब्रह्म-भूतं जीवन्मुक्तम् ब्रह्मैव सर्वम् इत्य् एवं निश्चयवन्तं ब्रह्म-भूतम् अकल्मषं धर्माधर्मादि-वर्जितम्

6.28

==============================
युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः ।
सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते

6.28

युञ्जन्न् एवं यथोक्तेन क्रमेण योगी योगान्तराय-वर्जितः सदा सर्वदात्मानं विगत-कल्मषो विगत-पापः, सुखेनानायासेन ब्रह्म-संस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तत् ब्रह्म-संस्पर्र्शं सुखम् अत्यन्तम् अन्तम् अतीत्य वर्तत इत्य् अत्यन्तम् उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति

6.29

==============================
इदानीं योगस्य यत् फलं ब्रह्मैकत्व-दर्शनं सर्व-संसार-विच्छेद-कारणं तत् प्रदर्शयते -
सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि ।
ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः

6.29

सर्व-भूत-स्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्व-भूतानि च आत्मनि ब्रह्मादीनि स्तम्ब-पर्यन्तानि च सर्व-भूतानि आत्मन्य् एकतां गतानि ईक्षते पश्यति योग-युक्तात्मा समाहितान्तः-करणः सर्वत्र सम-दर्शनः सर्वेषु ब्रह्मादि-स्थावरान्तेषु विषमेषु सर्व-भूतेषु समं निर्विशेषं ब्रह्मात्मैकत्व-विषयं दर्शनं ज्ञानं यस्य स सर्वत्र सम-दर्शनः

6.30

==============================
एतस्यात्मैकत्व-दर्शनस्य फलम् उच्यते -
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति

6.30

यो मां पश्यति वासुदेवं सर्वस्यात्मानं सर्वत्र सर्वेषु भूतेषु सर्वं च ब्रह्मादि-भूत-जातं मयि सर्वात्मनि पश्यति, तस्य एवं आत्मैकत्व-दर्शिनो ऽहम् ईश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि । स च मे न प्रणश्यति स च विद्वान् मे मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति, तस्य च मम चैकात्मकत्वात् । स्वात्मा हि नामात्मनः प्रिय एव भवति । यस्माच् चाहम् एव सर्वात्मैकत्व-दर्शी

6.31

==============================
इत्य् एतत् पूर्व-लोकार्थं सम्यग् दर्शनम् अनूद्य तत्-फलं मोक्षो ऽभिधीयते -
सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः ।
सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते

6.31

सर्वथा सर्व-प्रकारैः वर्तमानो ऽपि सम्यग्-दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्यम् उक्त एव सः, न मोक्षं प्रति केनचित् प्रतिबध्यते इत्य् अर्थः

6.32

==============================
किं चान्यत् -
आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः

6.32

आत्मौपम्येन आत्मा स्वयम् एवोपमीयते ऽनयेत्य् उपमा । तस्या उपमाया भाव औपम्यं तेनात्मौपम्येन, सर्वत्र सर्व-भूतेषु समं तुल्यं पश्यति यो ऽर्जुन, स च किं समं पश्यतीत्य् उच्यते - यथा मम सुखम् इष्टं तथा सर्व-प्राणिनां सुखम् अनुकूलम् । वा-शब्दश् चार्थे । यदि वा यच् च दुःखं मम प्रतिकूलम् अनिष्टं यथा तथा सर्व-प्राणिनां दुःखम् अनिष्टं प्रतिकूलं इत्य् एवम् आत्मौपम्येन सुख-दुःखे ऽनुकूल-प्रतिकूले तुल्यतया सर्व-भूतेषु समं पश्यति, न कस्यचित् प्रतिकूलम् आचरति, अहिंसक इत्य् अर्थः । यः एवम् अहिंसकः सम्यग् दर्शन-निष्ठः, स योगी परम उत्कृष्टो मतो ऽभिप्रेतः सर्व-योगिनां मध्ये

6.33

==============================
एतस्य यथोक्तस्य सम्यग्-दर्शन-लक्षणस्य योगस्य दुःख-संपाद्यताम् आलक्ष्य शुश्रुषुर् ध्रुवं तत्-प्राप्त्य्-उपायम् अर्जुन उवाच -
यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्

6.33

यो ऽयं योगस् त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन एतस्य योगस्याहं न पश्यामि नोपलभे, चञ्चलत्वान् मनसः । किम् ? स्थिराम् अचलां स्थितिम्

6.34

==============================
असिद्धम् तत् -
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम्

6.34

चञ्चलं हि मनः । कृष्णेति कृषतेर् विलेखनार्थस्य रूपम् । भक्त-जन-पापादि-दोषाकर्षाणात् कृष्णः, तस्य संबुद्धिः हे कृष्ण । हि यस्मात् मनश् चञ्चलं न केवलम् अत्यर्थं चञ्चलम्, प्रमाथि च प्रमथन-शीलम्, प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् पर-वशीकरोति । किं च - बलवत् प्रबलम्, न केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात् । किं च - दृढं तन्तु-नाग-वद् अच्छेद्यम् । तस्य एवंभूतस्य मनसो ऽहं निग्रहं निरोधं मन्ये वायोर् इव यथा वायोर् दुष्करो निग्रहस् ततो ऽपि दुष्करं मन्ये इत्य् अभिप्रायः

6.35

==============================
श्री-भगवान् उवाच, एवम् एतद् यथा ब्रवीषि -
असंशयं महाबाहो मनो दुर्णिग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येणश् च गृह्यते

6.35

असंशयं नास्ति संशयो मनो दुर्निग्रहं चलम् इत्य् अत्र हे महाबाहो । किंत्व् अभ्यासेन त्व् अभ्यासो नामश् चित्त-भूमौ कस्यांचित् समान-प्रत्ययावृत्तिश् चित्तस्य । वैराग्येण वैराग्यं नाम दृष्टादृष्टेष्ट-भोगेषु दोष-दर्शनाभ्यासाद् वैतृष्ण्यम् । तेन च वैराग्येण गृह्यते विक्षेप-रूपः प्रचारश् चित्तस्य । एवं तन् मनो गृह्यते निगृह्यते निरुध्यत इत्य् अर्थः

6.36

==============================
यः पुनर् असंयतात्मा, तेन -
असंयतात्मना योगो दुष्प्रापेति मे मतिः ।
वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः

6.36

असंयतात्मनाभ्यास-वैराग्याभ्याम् असंयतः आत्मान्तः-करणं यस्य सो ऽयम् असंयतात्मा तेनासंयतात्मना योगो दुष्प्रापो दुःखेन प्राप्यतेति मे मतिः । यस् तु पुनर् वश्यात्माभ्यास-वैराग्याभ्यां वश्यत्वम् आपादितः आत्मा मनो यस्य सो ऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयो ऽपि प्रयत्नं कुर्वता शक्यो ऽवाप्तुं योगर् उपायतो यथोक्ताद् उपायात्

6.37

==============================
तत्र योगाभ्यासाङ्गीकरणेन इहलोक-परलोक-प्राप्ति-निमित्तानि कर्माणि संन्यस्तानि, योग-सिद्धि-फलं च मोक्ष-साधनं सम्यग् दर्शनं न प्राप्तम् इति, योगी योग-मार्गात् मरण-काले चलित-चित्त इति तस्य नाशम् आशङ्कयार्जुन उवाच -
अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः ।
अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति

6.37

अयतिर् अप्रयत्नवान् योग-मार्गे श्रद्धयास्तिक्य-बुद्ध्या चोपेतो योगाद् अन्त-काले च चलितं मानसं मनो यस्य स चलित-मानसो भ्रष्ट-स्मृतिः सो ऽप्राप्य योग-संसिद्धिं योग-फलं सम्यग्-दर्शनं कां गतिं हे कृष्ण गच्छति

6.38

==============================
कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि

6.38

कश्चित् किं न उभय-विभ्रष्टः कर्म-मार्गात् योग-मार्गाच् च विभ्रष्टः सन् छिन्नाभ्रम् इव नश्यति, किं वा न नश्यत्य् अप्रतिष्ठो निराश्रयो हे महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्म-प्राप्ति-मार्गे

6.39

==============================
एतन् मे संशयं कृष्णश् छेत्तुम् अर्हस्य् अशेषतः ।
त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते

6.39

एतन् मे मम संशयं कृष्णश् छेत्तुम् अपनेतुम् अर्हस्य् अशेषतः । त्वद्-अन्यस् त्वत्तो ऽन्यः ऋषिर् देवो वा च्छेत्ता नाशयिता संशयस्यास्य न हि यस्माद् उपपद्यते न संभवति । अतस् त्वम् एव च्छेत्तुम् अर्हसीत्य् अर्थः

6.40

==============================
श्री-भगवान् उवाच -
पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते ।
न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति

6.40

हे पार्थ नैव इह लोके नामुत्र परस्मिन् वा लोके विनाशस् तस्य विद्यते नास्ति । नाशो नाम पूर्वस्मात् हीनजन्मप्राप्तिः स योगभ्रष्टस्य नास्ति । न हि यस्मात् कल्याणकृत् शुभकृत् कश्चित् दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्ररूपेणेति पिता तात उच्यते । पितैव पुत्रेति पुत्रो ऽपि तात उच्यते । शिष्यो ऽपि पुत्र उच्यते । यतो न गच्छति

6.41

==============================
किं त्व् अस्य भवति ? -
प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योग-भ्रष्टो ऽभिजायते

6.41

योग-मार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्य-कृताम् अश्वमेधादि-याजिनां लोकान्, तत्र चोषित्वा वासम् अनुभूय शाश्वतीर् नित्याः समाः संवत्सरान्, तद्-भोग-क्षये शुचीनां यथोक्त-कारिणां श्रीमतां विभूति-मतां गेहे गृहे योग-भ्रष्टः अभिजायते

6.42

==============================
अथ वा योगिनाम् एव कुले भवति धीमताम् ।
एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम्

6.42

अथवा श्रीमतां कुलात् अन्यस्मिन् योगिनाम् एव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम् । एतत् हि जन्म, यत् दरिद्राणां योगिनां कुले, दुर्लभतरं दुःख-लभ्यतरं पूर्वम् अपेक्ष्य लोके जन्म यद् ईदृशं यथोक्त-विशेषणे कुले

6.43

==============================
यस्मात् -
तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन

6.43

तत्र योगिनां कुले तं बुद्धि-संयोगं बुद्ध्या संयोगं बुद्धि-संयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिकम् । यतते च प्रयत्नं च करोति ततस् तस्मात् पूर्व-कृतात् संस्कारात् भूयो बहुतरं संसिद्धौ संसिद्धि-निमित्तं हे कुरु-नन्दन

6.44

==============================
कथं पूर्व-देह-बुद्धि-संयोगेति तद् उच्यते -
पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः ।
जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते

6.44

यः पूर्व-जन्मनि कृतो ऽभ्यासः स पूर्वाभ्यासः, तेनैव बलवता ह्रियते संसिद्धौ हि यस्माद् अवशो ऽपि स योग-भ्रष्टः । न कृतं चेद् योगाभ्यासजात् संस्कारात् बलवत्तरम् अधर्मादि-लक्षणं कर्म, तदा योगाभ्यास-जनितेन संस्कारेण ह्रियते । अधर्मश् चेत् बलवत्तरः कृतः, तेन योगजो ऽपि संस्कारो ऽभिभूयत एव, तत्-क्षये तु योगजः संस्कारः स्वयम् एव कार्यम् आरभते, न दीर्घ-कालस्थस्यापि विनाशस् तस्यास्तीत्य् अर्थः । अतो जिज्ञासुर् अपि योगस्य स्वरूपं ज्ञातुम् इच्छन्न् अपि योग-मार्गे प्रवृत्तः संन्यासी योग-भ्रष्टः, सामर्थ्यात् सो ऽपि शब्द-ब्रह्म वेदोक्त-कर्मानुष्ठान-फलम् अतिवर्तते ऽतिक्रामत्य् अपाकरिष्यति । किम् उत बुद्ध्वा यो योगं तन्-निष्ठो ऽभ्यासं कुर्यात्

6.45

==============================
कुतश् च योगित्वं श्रेय इति -
प्रयत्नाद् यतमानस् तु योगी संशुद्ध-किल्बिषः ।
अनेक-जन्म-संसिद्धस् ततो याति परां गतिम्

6.45

प्रयत्नाद् यतमानः, अधिकं यतमान इत्य् अर्थः । तत्र योगी विद्वान् संशुद्ध-किल्बिषो विशुद्ध-किल्बिषः संशुद्ध-पापो ऽनेक-जन्म-संसिद्धिर् अनेकेषु जन्मसु किंचित् किंचित् संस्कार-जातम् उपचित्य तेन उपचितेनानेक-जन्म-कृतेन संसिद्धो ऽनेक-जन्म-संसिद्धस् ततः लब्ध-सम्यग्-दर्शनः सन् याति परां प्रकृष्टं गतिम्

6.46

==============================
यस्माद् एवं तस्मात् -
तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः ।
कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन

6.46

तपस्विभ्यो ऽधिको योगी, ज्ञानिभ्यो ऽपि ज्ञानम् अत्र शास्त्रार्थ-पाण्डित्यम्, तद्वद्भ्यो ऽपि मतो ज्ञातो ऽधिकः श्रेष्ठ इति । कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्यो ऽधिको योगी विशिष्टो यस्मात् तस्माद् योगी भवार्जुन

6.47

==============================
योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः

मूल पाठ: Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc