भगवद्गीता (टीका सहित) · अध्याय 17
इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-
शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये
षोडाशो ऽध्यायः ॥
भ्ग् 17
अथ श्रद्धा-त्रय-विभाग-योगः
सप्तदशो ऽध्यायः
तस्माच् छास्त्रं प्रमाणं त [गीता 16.24] इति भगवद्-वाक्याल् लब्ध-प्रश्न-बीजो ऽर्जुन उवाच -
ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः
ये केचिद् अविशेषिताः शास्त्र-विधिं शास्त्र-विधानं श्रुति-स्मृति-शास्त्र-चोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धयान्विताः श्रद्धयास्तिक्य-बुद्ध्यान्विताः संयुक्ताः सन्तः । श्रुति-लक्षणं स्मृति-लक्षणं वा कंचित् शास्त्र-विधिम् अपश्यन्तो वृद्ध-व्यवहार-दर्शनाद् एव श्रद्दधानतया ये देवादीन् पूजयन्ति । ते इह ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विता इत्य् एवं गृह्यन्ते । ये पुनः कंचित् शास्त्र-विधिं उपलभमानैव तम् उत्सृज्यायथा-विधि देवादीन् पूजयन्ति । त इह ये शास्त्र-विधिम् उत्सृज्य यजन्त इति न परिगृह्यन्ते । कस्मात् ? श्रद्धयान्वितत्व-विशेषणात् । देवादि-पूजा-विधि-परं किंचित् शास्त्रं पश्यन्त एव तद् उत्सृज्याश्रद्दधानतया तद्-विहितायां देवादि-पूजायां श्रद्धयान्विताः प्रवर्तन्त इति न शक्यं कल्पयितुं
यस्मात्, तस्मात् पूर्वोक्तैव ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विता इत्य् अत्र गृह्यन्ते । तेषाम् एवं-भूतानां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः, किं सत्त्वं निष्ठावस्थानम्, आहो स्वित् रजः, अथवा तम इति । एतद् उक्तं भवति - या तेषां देवादि-विषया पूजा, सा किं सात्त्विकी, आहो स्वित् राजसी, उत तामसीति
==============================
सामान्य-विषयो ऽयं प्रश्नो नाप्रविभज्र्य प्रतिवचनम् अर्हतीति श्रीभगवानुवाच -
त्रि-विधा भवति श्रद्धा देहिनां सा स्वभाव-जा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु
त्रि-विधा त्रि-प्रकारा भवति श्रद्धा । यस्यां निष्ठायां त्वं पृच्छसि । देहिनां शरीरिणां सा स्वभाव-जा । जन्मान्तर-कृतो धर्मादि-संस्कारो मरण-काले ऽभिव्यक्तः स्वभाव उच्यते, ततो जाता स्वभाव-जा । सात्त्विकी सत्त्व-निर्वृत्ता देव-पूजादि-विषया । राजसी रजो-निर्वृत्ता यक्ष-रक्षः-पूजादि-विषया । तामसी तमो-निर्वृत्ता प्रेत-पिशाचादि-पूजा-विषया । एवं त्रि-विधां ताम् उच्यमानां श्रद्धां शृण्व् अवधारय
==============================
सा इयं त्रिविधा भवति -
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धा-मयो ऽयं पुरुषो यो यच्-छ्रद्धः स एव सः
सत्त्वानुरूपा विशिष्ट-संस्कारोपेतान्तः-करणानुरूपा सर्वस्य प्राणि-जातस्य श्रद्धा भवति भारत । यद्य् एवं ततः किं स्यात् ? इत्य् उच्यते - श्रद्धा-मयो ऽयं श्रद्धा-प्रायः पुरुषः संसारी जीवः । कथम् ? यो यच्-छ्रद्धो या श्रद्धा यस्य जीवस्य स यच्-छ्रद्धः स एव तच्-छ्रद्धानुरूप एव स जीवः
==============================
ततश् च कार्येण लिङ्गेन देवादिपूजया सत्त्वादिनिष्ठानुमेया इत्य् आह -
यजन्ते सात्त्विका देवान् यक्ष-रक्षांसि राजसाः ।
प्रेतान् भूत-गणांश् चान्ये यजन्ते तामसा जनाः
यजन्ते पूजयन्ति सात्त्विकाः सत्त्व-निष्ठा देवान्, यक्ष-रक्षांसि राजसाः, प्रेतान् भूत-गणांश् च सप्त-मातृकादींश् चान्ये यजन्ते तामसाः जनाः
==============================
एवं कार्यतो निर्णीताः सत्त्वादि-निष्ठाः शास्त्र-विध्य्-उत्सर्गे । तत्र कश्चिद् एव सहस्रेषु देव-पूजादि-परः सत्त्व-निष्ठो भवति, बाहुल्येन तु रजो-निष्ठास् तमो-निष्ठाश् चैव प्राणिनो भवन्ति । कथम् ? -
अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहंकार-संयुक्ताः काम-राग-बलान्विताः
अशास्त्र-विहितं न शास्त्र-विहितम् अशास्त्र-विहितं घोरं पीडा-करं प्राणिनाम् आत्मनश् च तपस् तप्यन्ते निर्वर्तयन्ति ये जनास् ते च दम्भाहंकार-संयुक्ताः । दम्भश् चाहंकारश् च दम्भाहंकारौ, ताभ्यां संयुक्ताः दम्भाहंकार-संयुक्ताः, काम-राग-बलान्विताः कामश् च रागश् च काम-रागौ तत्-कृतं बलं काम-राग-बलं तेनान्विताः काम-राग-बलान्विताः
==============================
कर्शयन्तः शरीर-स्थं भूत-ग्रामम् अचेतसः ।
मां चैवान्तः-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान्
कर्शयन्तः कृशी-कुर्वन्तः शरीर-स्थं भूत-ग्रामं करण-समुदायम् अचेतसो ऽविवेकिनः मां चैव तत्-कर्म-बुद्धि-साक्षि-भूतम् अन्तः-शरीर-स्थं नारायणं कर्शयन्तः, मद्-अनुशासनाकरणम् एव मत्-कर्शनम् । तान् विद्ध्य् आसुर-निश्चयान् आसुरो निश्चयो येषां ते आसुर-निश्चयास् तान् परिहरणार्थं विद्धीति उपदेशः
==============================
आहाराणां च रस्य-स्निग्धादि-वर्ग-त्रय-रूपेण भिन्नानां यथा-क्रमं सात्त्विक-राजस-तामस-पुरुष-प्रियत्व-दर्शनम् इह क्रियते रस्य-स्निग्धादिषु आहार-विशेषेष्व् आत्मनः प्रीत्य्-अतिरेकेण लिङ्गेन सात्त्विकत्वं राजसत्वं तामसत्वं च बुद्ध्वा रजस्-तमो-लिङ्गानाम् आहाराणां परिवर्जनार्थं सत्त्व-लिङ्गानां चोपादानार्थम् । तथा यज्ञादीनाम् अपि सत्त्वादि-गुण-भेदेन त्रि-विधत्व-प्रतिपादनम् इह राजस-तामसान् बुद्ध्वा कथं नु नाम परित्यजेत्, सात्त्विकान् एवानुतिष्ठेद् इत्य् एवम् अर्थम् आह -
आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु
आहारस् त्व् अपि सर्वस्य भोक्तुः प्राणिनस् त्रि-विधो भवति प्रियः इष्टः । तथा यज्ञस् तथा तपस् तथा दानम् । तेषाम् आहारादीनां भेदम् इमं वक्ष्यमाणं सृणु
==============================
आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियाः
आयुश् च सत्त्वं च बलं च आरोग्यं च सुखं च प्रीतिश् च आयुः-सत्त्व-बलारोग्य-सुख-प्रीतयस् तासां विवर्धनाः आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः । ते च रस्या रसोपेताः, स्निग्धाः स्नेहवन्तः, स्थिराश् चिर-काल-स्थायिनो देहे, हृद्याः हृदय-प्रियाः, आहाराः सात्त्विक-प्रियाः सात्त्विकस्येष्टाः
==============================
कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः ।
आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः
कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिन इत्य् अत्राति-शब्दः कट्वादिषु सर्वत्र योज्यः । अतिकटुः अतितीक्ष्णः इत्य् एवम् । कटुश् चाम्लश् च लवणश् चात्युष्णश् च तीक्ष्णश् च रूक्षश् च विदाही च ते आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः दुःखं च शोकं चामयं च प्रयच्छन्तीति दुःख-शोकामय-प्रदाः
==============================
यात-यामं गत-रसं पूति पर्युषितं च यत् ।
उच्छिष्टम् अपि चामेध्यं भोजनं तामस-प्रियम्
यात-यामं मन्द-पक्वम्, निर्वीर्यस्य गत-रस-शब्देनोक्तत्वात् । गत-रसं रस-वियुक्तम्, पूति दुर्गन्धि, पर्युषितं च पक्वं सद् रात्र्य्-अन्तरितं च यत्, उच्छिष्टम् अपि भुक्त-शिष्टम् उच्छिष्टम्, अमेध्यम् अयज्ञार्हं भोजनम् ईदृशं तामस-प्रियम्
==============================
अथेदानीं यज्ञस् त्रिविध उच्यते -
अफलाकाङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते ।
यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः
अफलाकाङ्क्षिभिर् अफलार्थिभिर् यज्ञो विधि-दृष्टः शास्त्र-चोदनादृष्टौ यो यज्ञ इज्यते निर्वर्त्यते, यष्टव्यम् एवेति यज्ञ-स्वरूप-निर्वर्तनम् एव कार्यम् इति मनः समाधाय, नानेन पुरुषार्थो मम कर्तव्य इत्य् एवं निश्चित्य, स सात्त्विको यज्ञ उच्यते
==============================
अभिसंधाय तु फलं दम्भार्थम् अपि चैव यत् ।
इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम्
अभिसन्धाय तु उद्दिश्य फलं दम्भार्थम् अपि चैव यद् इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम्
==============================
विधि-हीनम् असृष्टान्नं मन्त्र-हीनम् अदक्षिणम् ।
श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते
विधि-हीनं यथा-चोदित-विपरीतम्, असृष्टान्नं ब्राह्मणेभ्यो न सृष्टं न दत्तम्, अन्नं यस्मिन् यज्ञे सो ऽसृष्टान्नस् तम् असृष्टान्नम् । मन्त्र-हीनं मन्त्रतः स्वरतो वर्णतो वा वियुक्तं मन्त्र-हीनम्, अदक्षिणम् उक्त-दक्षिणा-रहितम्, श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते तमो-निर्वृत्तं कथयन्ति
==============================
अथ इदानीं तपस् त्रि-विधम् उच्यते -
देव-द्विज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् ।
ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते
देवा च द्विजा च गुरवश् च प्राज्ञाश् च देव-द्विज-गुरु-प्राज्ञास् तेषां पूजनं देव-द्विज-गुरु-प्राज्ञ-पूजनम् । शौचम् । आर्जवम् ऋजुत्वम् । ब्रह्मचर्यम् अहिंसा च शरीर-निर्वर्त्यं शारीरं शरीर-प्रधानैः सर्वैर् एव कार्य-करणैः कर्त्रादिभिः साध्यं शारीरं तप उच्यते । पञ्चैते तस्य हेतवः [गीता 18.15] इति हि वक्ष्यति
==============================
अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्-मयं तप उच्यते
अनुद्वेग-करं प्राणिनाम् अदुःख-करं वाक्यं सत्यं प्रिय-हितं च यत् प्रिय-हिते दृष्टादृष्टार्थे । अनुद्वेग-करत्वादिभिर् धर्मैर् वाक्यं विशेष्यते । विशेषण-धर्म-समुचयार्थश् च-शब्दः । पर-प्रत्ययार्थं प्रयुक्तस्य वाक्यस्य सत्य-प्रिय-हितानुद्वेग-करत्वानाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा हीनता स्याद् यदि, न तद् वाङ्-मयं तपः । तथा सत्य-वाक्यस्य इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा विहीनतायां न वाङ्-मय-तपस्त्वम् । तथा प्रिय-वाक्यस्यापीतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा विहीनस्य न वाङ्-मय-तपस्त्वम् । तथा हित-वाक्यस्यापीतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर् वा विहीनस्य न वाङ्-मय-तपस्त्वम् । किं पुनस् तत् तपः ? यत् सत्यं वाक्यम् अनुद्वेग-करं प्रियं हितं च, तत् तपो वाङ्-मयम् । यथा शान्तो भव वत्स, स्वाध्यायं
योगं चानुतिष्ठ, तथा ते श्रेयो भविष्यतीति । स्वाध्यायाभ्यसनं चैव यथा-विधि वाङ्-मयं तप उच्यते
==============================
मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः ।
भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते
मनः-प्रसादः मनसः प्रशान्तिः स्वच्छतापादनं प्रसादः । सौम्यत्वं यत् सौमनस्यम् आहुः । मुखादि-प्रसादादि-कार्योन्नेयान्तः-करणस्य वृत्तिः । मौनं वाङ्-नियमो ऽपि मनः-संयम-पूर्वको भवतीति कार्येण कारणम् उच्यते मनः-संयमो मौनम् इति । आत्म-विनिग्रहो मनो-निरोधः सर्वतः सामान्य-रूप आत्म-विनिग्रहः । वाग्-विषयस्यैव मनसः संयमः मौनम् इति विशेषः । भाव-संशुद्धिः परैः व्यवहार-काले ऽमायावित्वं भाव-संशुद्धिः । इत्य् एतत् तपो मानसम् उच्यते
==============================
यथोक्तं कायिकं वाचिकं मानसं च तपस् तप्तं नरैः सत्त्वादि-गुण-भेदेन कथं त्रि-विधं भवतीति, उच्यते -
श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते
श्रद्धया आस्तिक्य-बुद्ध्या परया प्रकृष्टया तप्तम् अनुष्ठितं तपस् तत् प्रकृतं त्रि-विधं त्रि-प्रकारं त्र्य्-अधिष्ठानं नरैर् अनुष्ठातृभिर् अफलाकाङ्क्षिभिः फलाकाङ्क्षा-रहितैर् युक्तैः समाहितैर् यद् ईदृशं तपः, तत् सात्त्विकं सत्त्व-निर्वृत्तं परिचक्षते कथयन्ति शिष्टाः
==============================
सत्कार-मान-पूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम्
सत्कारः साधु-कारः साधु अयं तपस्वी ब्राह्मण इत्य् एवम् अर्थम् । मानो माननं प्रत्युत्थानाभिवादनादिस् तद्-अर्थम् । पूजा पाद-प्रक्षालनार्चनाशयितृत्वादिस् तद्-अर्थं च तपः सत्कार-मान-पूजार्थम् । दम्भेन चैव यत् क्रियते तपस् तद् इह प्रोक्तं कथितं राजसं चलं कादाचित्क-फलत्वेन अध्रुवम्
==============================
मूढ-ग्राहेणात्मनो यत् पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम्
मूढ-ग्राहेण अविवेक-निश्चयेन आत्मनः पीडया यत् क्रियते तपः परस्य उत्सादनार्थं विनाशार्थं वा, तत् तामसं तप उदाहृतम्
==============================
इदानीं दान-त्रैविध्यम् उच्यते -
दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे ।
देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम्
दातव्यम् इति एवं मनः कृत्वा यद् दानं दीयते ऽनुपकारिणे प्रत्युपकारासमर्थाय, समर्थायापि निरपेक्षं दीयते । देशे पुण्ये कुरुक्षेत्रादौ । काले संक्रान्त्य्-आदौ । पात्रे च षड्-अङ्ग-विद् वेद-पारग इत्य् आदौ । तद् दानं सात्त्विकं स्मृतम्
==============================
यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम्
यत् तु दानं प्रत्युपकारार्थं काले त्व् अयं मां प्रत्युपकरिष्यतीत्य् एवम् अर्थम्, फलं वास्य दानस्य मे भविष्यत्य् अदृष्टम् इति । तद् उद्दिश्य पुनर् दीयते च परिक्लिष्टं खेद-संयुक्तम्, तद् दानं राजसं स्मृतम्
==============================
अदेश-काले यद् दानम् अपात्रेभ्यश् च दीयते ।
असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम्
अदेश-काले ऽदेशे ऽपुण्ये देशे म्लेच्छाशुच्य्-आदि-संकीर्णे । अकाले पुण्य-हेतुत्वेनाप्रख्याते संक्रान्त्य्-आदि-विशेष-रहिते ऽपात्रेभ्यश् च मूर्ख-तस्करादिभ्यः । देशादि-संपत्तौ वा असत्कृतं प्रिय-वचन-पाद-प्रक्षालन-पूजादि-रहितम् अवज्ञातं पात्र-परिभव-युक्तं च यद् दानम्, तत् तामसम् उदाहृतम्
==============================
यज्ञ-दान-तपः-प्रभृतीनां साद्गुण्य-करणायायम् उपदेश उच्यते -
ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः ।
ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा
ओं तत् सद् इति एवं निर्देशः, निर्दिश्यते ऽनेनेति निर्देशः । त्रिविधो नाम निर्देशो ब्रह्मणः स्मृतश् चिन्तितो वेदान्तेषु ब्रह्म-विद्भिः । ब्राह्मणास् तेन निर्देशेन त्रिविधेन वेदाश् च यज्ञाश् च विहिताः निर्मिताः पुरा पूर्वम् इति निर्देश-स्तुत्य्-अर्थम् उच्यते
==============================
तस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्म-वादिनाम्
तस्मात् ओम् इत्य् उदाहृत्य उच्चार्य यज्ञ-दान-तपः-क्रिया यज्ञादि-स्वरूपाः क्रियाः प्रवर्तन्ते विधानोक्ताः शास्त्र-चोदिताः सततं सर्वदा ब्रह्म-वादिनां ब्रह्म-वदन-शीलानाम्
==============================
तद् इत्य् अनभिसंधाय फलं यज्ञ-तपः-क्रियाः ।
दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः
तद् इत्य् अनभिसंधाय । तद् इति ब्रह्माभिधानम् उच्चार्यानभिसंधायश् च यज्ञादि-कर्मणः फलं यज्ञ-तपः-क्रिया यज्ञ-क्रियाश् च तपः-क्रियाश् च यज्ञ-तपः-क्रिया दान-क्रियाश् च विविधाः क्षेत्र-हिरण्य-प्रदानादि-लक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्ष-काङ्क्षिभिर् मोक्षार्थिभिर् मुमुक्षुभिः
==============================
ओं-तच्-छब्दयोर् विनियोग उक्तः । अथेदानीं सच्-छब्दस्य विनियोगः कथ्यते -
सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते
सद्-भावे । असतः सद्-भावे यथा-विद्यमानस्य पुत्रस्य जन्मनि । तथा साधु-भावे चासद्-वृत्तस्यासाधोः सद्-वृत्तता साधु-भावस् तस्मिन् साधु-भावे च । सद् इत्य् एतद् अभिधानं ब्रह्मणः प्रयुज्यते ऽभिधीयते । प्रशस्ते कर्मणि विवाहादौ च तथा सच्-छब्दः पार्थ युज्यते प्रयुज्यत इत्य् एतत्
==============================
यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते ।
कर्म चैव तद्-अर्थीयं सद् इत्य् एवाभिधीयते
यज्ञे यज्ञ-कर्मणि या स्थितिः, तपसि च या स्थितिः, दाने च या स्थितिः, सा सद् इति चोच्यते विद्वद्भिः । कर्म चैव तद्-अर्थीयं यज्ञ-दान-तपो ऽर्थीयम् । अथवा, यस्याभिधान-त्रयं प्रकृतं तद्-अर्थीयं यज्ञ-दान-तपो ऽर्थीयम् ईश्वरार्थीयम् इत्य् एतत् । सद् इत्य् एवाभिधीयते । तद् एतद् यज्ञ-दान-तप-आदि-कर्मासात्त्विकं विगुणम् अपि श्रद्धा-पूर्वकं ब्रह्मणो ऽभिधान-त्रय-प्रयोगेण स-गुणं सात्त्विकं संपादितं भवति
==============================
तत्र च सर्वत्र श्रद्धा-प्रधानतया सर्वं संपाद्यते यस्मात्, तस्मात् -
अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् ।
असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह
अश्रद्धया हुतं हवनं कृतम् । अश्रद्धया दत्तं ब्राह्मणेभ्यः । अश्रद्धया तपस् तप्तम् अनुष्ठितम् । तथाश्रद्धयैव कृतं यत् स्तुति-नमस्कारादि, तत् सर्वम् असद् इत्य् उच्यते मत्-प्राप्ति-साधन-मार्ग-बाह्यत्वात् पार्थ । न च तद् बहुलायासम् अपि प्रेत्य फलाय नो अपीहार्थम्, साधुभिर् निन्दितत्वाद् इति
मूल पाठ: Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0