भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 24

24.1

हृद्यं वासुखं दत्वा आढकी भुद्धपूषकः । [?] सूरीचैकढनं ॥ [?]
मुद्गपू [यू]षगुणाः ॥
ज्वरहरणबलाढ्यं रक्तपित्तप्रणाशं
विदधति निपुणास् ते मुद्गपू [यू]षं प्रशस्तम् ।
अनिलम् अपि निहन्ति स्नेहसंस्कारयुक्तं
शमयति तनुदाहं सर्वरोगेषु शस्तम्

24.2

पित्तज्वरातिशमनं लघुमुद्ग[यू] पूषं संतापहारि तद् अरोचकनाशनं च ।
रक्तप्रसादनम् इदं यदि सैन्धवेन युक्तं तदा भवति सर्वरुजापहारि

24.3

व्यपगतमलदोषाः प्राणिनः क्षीणमात्रा अधिकतरतृषार्ता ये च धर्मप्रतप्ताः ।
ज्वलनमुखविदग्धा ये ऽतिसाराभिभूताः पुनर् इह मनुजास् ते मुदुपू [यू]षस्य योग्याः

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc