आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 23
तीक्ष्णोष्णवीर्यः कफमारुतघ्नस् तथाविधश् चासितसर्षपो ऽपि
अथ आढकीगुणाः ।
[आढक्यः] कफमारुतप्रशमना वीर्येण चोष्णास् तथा
हृत्पृष्ठोदरमारुतामप[य] रुजामेदोरुजं कुर्वते ।
कासश्वासवमीतृषाज्वरहराः पथ्याश् च कण्डूरुजा
या [पा]माकुष्ठभगन्दरेषु न तथा रुच्यास् तु पथ्या भृशम्
आढकी कफवातघ्नी ईषन्मारुतकोपिनी
तस्यैतद् विदं [विधं] भोज्यं स्वादु विष्टम्भनं गुरु ।
दीपनं कफपित्तघ्नं सर्वमेहप्रणाशनम्
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0