अवदानशतक · अध्याय 66
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । यावद् अपरेण सम्येन वसन्तकालसमये संपुष्पितेषु पादेषु नानाविचित्रितेषु पुष्पेषु प्रादुर्भूतेष्व् अन्यतमो गृहपती राजानं विज्ञापयामास: इच्छाम्य् अहं देवसहायो विपश्यिनः स्तूपे पुष्पारोपणं कर्तुम् इति । राजा कथयति: एवम् अस्त्व् इति । यावत् तेन गृहपतिना राजामात्यपौरुषैः सहायेन घण्टावघोषणेन विचित्रपुष्पसंग्रहं कृत्वा विपश्यिनः स्तूपे पुष्पारोहणं कृतम्*, यत्रानेकैः प्राणिशतसहस्रैश् चित्तानि प्रसाद्य कुशलमूलानि समारोपितानि ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिर् आसीत्* अयं स प्रियः । यत् तेन महाराजसहायेन कुशलमूलान्य् अवरोपितानि, तेन महाजनस्य प्रियो मनापश् च संवृत्तः, तेनैव हेतुना दर्शनीयः प्रसादिकः । अर्हत्वं च प्राप्तम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_66 पद्माक्षः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो
-------------------- वैद्य, प्. 165 --------------------
वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽभिनीलपद्मनेत्रः दिव्येनेन्द्रनीलमणिरत्नेन शिरस्य् आबद्धेन, येन कपिलवस्तु नगरम् इन्द्रनीलवर्णं व्यवस्थापितम्* । तस्य जतौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य पद्मसदृशे अक्षिणी, तस्माद् भवतु दारकस्य पद्माक्ष इति नामेति । पद्माक्षो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामस् त्यागरुचिः प्रदानाभिरतो महति त्यागे वर्तते । स येन येन गच्छति, तेन देवमनुष्यैः पूज्यते ऽभ्यर्च्यते च ॥
यथ पद्माक्षो दारको ऽपरेण समयेन न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तम् अभिप्रसादितम्* । प्रसादजातश् च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा पद्माक्षेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो दानप्रदानानि दत्वा श्रमणब्राह्मणकृपणवनीपकदुःखितान् संतर्पयित्वा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । यावद् असौ पिण्डपातप्रविष्टो महाजनकायेनोद्वीक्ष्यमाणो जिह्रेति । अथ स पद्माक्षो भगवतः सकाशम् उपसंक्रम्य भगवन्तं विज्ञापयामास: साधु मे भगवांस् तथा करोतु यथा मणिरत्नम् अन्तर्धीयेत । भगवान् आह: कर्मजं ह्य् एतत्*, न शक्यम् अन्तर्धापयितुम्* । अपि तु तथा करिष्यामि यच् छ्राद्धा द्रक्ष्यन्ति नाश्राद्धा इति । ततो भगवता तथा कृतम्* ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त पद्माक्षेण कर्माणि कृतान्य् {उपचितानि} येनैवं महाशख्यो ऽर्हत्वं च प्राप्तम् इति । भगवान् आह: पद्माक्षेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । पद्माक्षेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति?
-------------------- वैद्य, प्. 166 --------------------
न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0