अवदानशतक · अध्याय 3
इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनया यशोमत्या दारिकया ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एषा आनन्द यशोमती दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः
-------------------- वैद्य, प्. 7 --------------------
षट् पारमिताः परिपूर्य रत्नमतिर् नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तस्याभिप्रसाद इति ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_3 कुसीदः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥
श्रावस्त्याम् अन्यतमः श्रेष्ठी प्रतिवसति, आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सडृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्* । न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैर् उच्यते: देवतायाचनं कुरुष्वेति ॥ अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यत्, एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* । मातापितराउ रक्तौ भवतः संनिपतितौ । माता कल्या भवति ऋतुमती । गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । तथा ह्य् असौ श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवविप्रलब्धो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते स्म । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधर्मिका नित्यानुबन्धा अपि देवता आयाचते स्म । स चैवम् आयाचनपरस् तिष्ठति । अन्यतमश् च सत्वो ऽन्यतमस्मात् सत्वनिकायाच् च्युत्वा तस्याः प्रजापत्याः कुक्षिम् अवक्रान्तः । पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पञ्च । रक्तं पुरुषं जानाति, विरक्तं पुरुषं जानाति । कालं जानाति ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद् दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद् दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति । सा आत्तमनात्तमनाः स्वामिन आरोचयति: दिष्ट्या आर्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः
-------------------- वैद्य, प्. 8 --------------------
पूर्वकायम् अत्युन्नमय्य *{अभ्युन्नमय्य}* दक्षिणं बाहुम् अभिप्रसार्य उदानम् उदानयति: अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* । जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात् । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा कृत्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यति: इदं तयोर् यत्रतत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वोपरिप्रासादतलगताम् अयन्त्रितां धारयति । शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैर् हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरिमां भूमिम्* । न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । अभिरूपो दर्शनीयः प्रासादिकः । जन्मनि चास्य तत् कुलं नन्दितम्* । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातयः ऊचुः: यस्माद् अस्य जन्मनि सर्वकुलं नन्दितम्, तस्माद् भवतु दारकस्य नन्द इति नामेति । तस्य नन्द इति नाम व्यवस्थापितम्* ॥ नन्दो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ।
यदा महान् संवृत्तः पंचवर्षः षड्वर्षो वा, तदा कुसीदः संवृत्तः परमकुसीदः । नेच्छति शयनासनाद् अप्य् उत्थातुम्* । तेन तीक्ष्णनिशितबुद्धितया अन्तर्गृहस्थेनैव शास्त्राण्य् अधीतानि ॥ अथ श्रेष्ठिन एतद् अभवत्: सो ऽपि मे कदाचित् कर्हिचिद् देवताराधनया पुत्रो जातः, सो ऽपि कुसीदः परमकुसीदः । शयनासनाद् अपि नोत्तिष्ठते । तत् किं ममानेनेदृग्जातीयेन पुत्रेण, यो नाम स्वस्थशरीरो भूत्वा पशुर् इव संतिष्ठतीति ॥ स च श्रेष्ठी पूरणाभिप्रसन्नः । तेन षट् तीर्थिकाः शास्तारः स्वगृहम् आहूताः: अपि नाम अयं दारकस् तेषां दर्शनाद् गौरवजातः शयनासनाद् अपि तावद् उत्तिष्ठेत्* । अथ कुसीदो दारकस् तांश् छास्तॄन् दृष्ट्वा चक्षुःसंप्रेक्षणाम् अपि न कृतवान्*, कः पुनर् वाद उत्थास्यति वा अभिवादयिष्यति वा, आसनेन वा उपनिमन्त्रयिष्यति । अथ स गृहपतिस् ताम् एवावस्थां दृष्ट्वा सुष्ठुतरम् उत्कण्ठितः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः ।
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां
-------------------- वैद्य, प्. 9 --------------------
नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य च बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्* । कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्* । कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्* । कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि । कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्* । कस्यावरोपितानि परिपाचयेयम्* । कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत्
पश्यति भगवान्: अयं दारकः कुसीदो मद्दर्शनाद् वीर्यम् आरप्स्यते यावद् अनुत्तरायां सम्यक्संबोधौ चित्तं परिणामयिष्यतीति । ततो भगवता तीर्थ्यानां मददर्पच्छित्त्यर्थं दारकस्य च कुशलमूलसंजननार्थं सूर्यसहस्रातिरेकप्रभाः कनकवर्णमरीचय उत्सृष्टाः, यैस् तद् गृहं समन्ताद् अवभासितम्* । कल्पसहस्रपरिभाविताश् च मैत्र्यंशव उत्सृष्टाः, यैर् अस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्* । स इतश् चामुतश् च प्रेक्षितुम् आरब्धः: कस्य प्रभावान् मम शरीरं प्रह्लादितम् इति । ततो भगवान् भिक्षुगणपरिवृतस् तद् गृहं प्रविवेश । ददर्श कुसीदो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषुलक्षणैः समलंकृत अशीत्या चानुव्यंजनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनः परं प्रसादम् आपन्नः । सहसा स्वयम् एवोत्थाय भगवतो ऽर्थे आसनं प्रज्ञपयति । एवं चाह: एतु भगवान्, स्वागतं भगवतः, निषीदतु भगवान् प्रज्ञप्त एवासन इति । अथास्य मातापितराव् अन्तर्जनश् चादृष्टपूर्वप्रभावं दृष्ट्वा परमं विस्मयम् आपन्नाः ॥
ततः कुसीदो दारको हर्षविकसिताभ्यां नयनाभ्यां भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता अनेकप्रकारं कौसीद्यस्यावर्णो भाषितः, वीर्यारम्भस्य चानुशंसः । चन्दनमयीं चास्य यष्टिम् अनुप्रयच्छति: इमां दारक यष्टिम् आकोटयेति । स ताम् आकोटयितुम् आरब्धः । अथासौ यष्टिर् आकोट्यमाना मनोज्ञशब्दश्रवणं करोति, विविधानि च रत्ननिधानानि पश्यति । तस्यैतद् अभवत्: महान् बतायं वीर्यारम्भे विशेषो यन्व् अहं भूयस्या मात्रया वीर्यम् आरभेयेति । स श्रावस्त्यां घण्टाव् अवघोषणं सार्थवाहम् आत्मानम् उद्घोष्य षड्वारान् महासमुद्रम् अवतीर्णः । ततः सिद्धयानपात्रेण महारत्नसंग्रहं कृत्वा भगवान् अन्तर्निवेशने सश्रावकसंघो भोजितः । अनुत्तरायां च सम्यक्संबोधौ प्रणिधानं कृतम्* ॥
अथ भगवान् कुसीदस्य दारकस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या
-------------------- वैद्य, प्. 10 --------------------
अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषु उष्णीभूता निपतन्ति, तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्तः इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान् यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने ।
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति
इति
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ च ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: <स्पेयेर् 21>
नानाविधो रङ्गसहस्रचित्रो
वक्त्रान्तरान् निष्कसितः कलापः ।
अवभासिता येन दिशः समन्ताद्
दिवाकरेणोदयता यथैव
-------------------- वैद्य, प्. 11 --------------------
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा
बुद्धा जगत्य् उत्तमहेतुभूताः ।
नाकारणं शङ्खमृणालगौरं
स्मितम् उपदर्शयन्ति जिना जितारयः
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या
श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* ।
धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर्
उत्पन्नं व्यपनय संशयं शुभाभिः
नाकास्माल् लवणजलाद्रिराजधैर्याः
संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः ।
यस्यार्थे स्मितम् उपदर्शयन्ति धीराः
तं श्रोतुं समभिलषन्ति ते जनौघाः
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0