अवदानशतक · अध्याय 22
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पूर्णो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । अथ पूर्णः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियो मूर्धाभिषिक्तः: पूर्णः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अस्माकं राजधानीम् अनुप्राप्त इति । श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येन भगवान् पूर्णः सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य पूर्णस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते निषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तं पूर्णः सम्यक्संबुद्धो बोधिकरकैर् धर्मैः समादापयति । अथ राजा क्षत्रियो मूर्धाभिषिक्तः पूर्णं सम्यक्संबुद्धं सश्रावकसंघं त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपनिमन्त्रितवान्* । अधिवासितं च पूर्णेन सम्यक्संबुद्धेन राज्ञस् तूष्णीभावेन । अथ राजा क्षत्रियो मूर्धाभिषिक्तः पूर्णस्य सम्यक्संबुद्धस्य तूष्णीभावेनाधिवासनां विदित्वा त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपस्थाप्य भगवतो रत्नमयप्रतिमां कारयित्वा बुद्धहर्षं कारितवान्*, यत्रानेकैः प्राणिशतसहस्रैर् महाप्रसादो लब्धः । तथेतुतत्प्रत्ययं च ते परिनिर्वृताः ॥
-------------------- वैद्य, प्. 54 --------------------
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । यन् मया पूर्णस्य सम्यक्संबुद्धस्य तादृशी पूजा कृता, तेन मे संसारे ऽनन्तं सुखम् अनुभूतम्*, तेनैव च हेतुना तथागतस्य च मे श्रेष्ठिना शक्रेण च ईदृशी पूजा कृता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 55 --------------------
तृतीयो वर्गः ।
तस्योद्दानम्*:
चन्दनो ह्य् अथ पद्मश् च चक्रं दशशिरास् तथा ।
सूक्ष्मत्वक्* शीतदीप्तश् च नाविका गन्धमादनः ।
निर्मलो वल्गुस्वरश् च वर्गो भवति सत्तमः ॥
अव्श्_21 चन्दनः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो मगधेषु जनपदेषु चारिकां चरन् गङ्गातीरम् अनुप्राप्तः । तेन खलु पुनः समयेन गङ्गातीरस्य नातिदूरे स्तूपम् अवरुग्णं वातातपाभ्यां परिशीर्णम्* । भिक्षुभिर् दृष्ट्वा भगवान् पृष्टः कस्य भगवन्न् अयं स्तूप इति । भगवान् आह: चन्दनो नाम प्रत्येकबुद्धो बभूव, तस्येति । भिक्षव ऊचुः: कुतो भगवंश् चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति । भगवान् आह: इच्छथ यूयं भिक्षवः श्रोतुं यथा चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् च? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । धार्मिको धर्मराजो धर्मेण राज्यं कारयति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते तद्यथा: आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् च । तच् च नैवम्* । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* । मातापितराउ रक्तौ भवतः संनिपतितौ, माता {च} कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स चैवम् आयाचनपरस् तिष्ठति । तस्य चोद्याने महापद्मिनि । तत्र पद्मम् अतिप्रमाणं जातम्* । तद् दिवसे दिवसे वर्धते न तु फुल्लति । तत आरामिकेण राज्ञे निवेदितम्* । रज्ञा उक्तः परीक्ष्यताम् एतत् पद्मम् इति । यावद् अपरेण समयेन सूर्योदये तत् पद्मं विकसितम्* । तस्य च पद्मस्य कर्णिकायां दारकः पर्यङ्कं बद्ध्वावस्थितः, अभिरूपो दर्शनीयः
-------------------- वैद्य, प्. 56 --------------------
प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः उच्चघोषः संगतब्रूस् तुङ्गनासः द्वात्रिंशता महापुरुषलक्षणैः समलंकृतगात्रो ऽशीत्यानुव्यञ्जनैर् विराजितगात्रः । तस्य मुखात् पद्मगन्धो वाति शरीराच् च चन्दनगन्धः । तत आरामिकेण राज्ञे निवेदितम्* । ततो राजा सामात्यः सान्तःपुरश् च तद् उद्यानं गतः । सहदर्शनात् तेन दारकेण राजा संभाषितः: एहि तात, अहं ते ऽपुत्रस्य पुत्र इति । ततो राजा हृष्टतुष्टप्रमुदित उवाच: एवम् एव पुत्र यथा वदसीति । ततो राजा पद्मिनीम् अवगाह्य तं दारकं पद्मकर्णिकायां गृहीत्वा पाणितले स्थापितवान्* । यत्र यत्र स दारकः पादौ स्थापयति, तत्र तत्र पद्मानि प्रादुर्भवन्ति । ततस् तस्य चन्दन इति नाम कृतम्* ॥
यदा चन्दनो दारको ऽनुपूर्वेण महान् संवृत्तः, तदा नागरै राजा विज्ञप्तः: इहास्माकं देव नगरपर्व प्रत्युपस्थितम्* । तद् अर्हति देवश् चन्दनं कुमारम् उत्स्रष्टम्* (स्पेयेर्: उत्स्रष्टुम्)। अस्माभिः सह पर्वानुभविष्यति, पद्मैश् च सर्वम् अधिष्ठानम् अलंकरिष्यतीति । राजाह: एवम् अस्त्व् इति । ततश् चन्दनः सर्वालंकारविभूषितो ऽमात्यपुत्रपरिवृतो विविधैर् वाद्यैर् वाद्यमानै राजकुलाद् बहिर् उपयाति नगरपर्व प्रत्यनुभवितुम्* । तत्र तस्य गच्छतः पदविन्यासे पदविन्यासे पद्मानि प्रादुर्भवन्ति दर्शनीयानि मनोरमाणि च । तान्य् अर्करश्मिभिः स्पृष्टमात्राणि म्लायन्ति शुष्यन्ति ॥
अथ तस्य शुद्धसत्वस्य कल्याणाशयस्य पूर्वबुद्धावरोपितकुशलमूलस्य तद्दर्शनाद् योनिशो मनसिकार उत्पन्नः: यथेमानि पद्मानि उत्पन्नमात्राणि शोभन्ते, अर्करश्मिपरितापितानि म्लायन्ति शुष्यन्ति, एवम् एतद् अपि शरीरम् इति । तस्यैवं चिन्तयतस् तुलयत उपरीक्षमाणस्य सप्तत्रिंशद् बोधिपक्ष्यधर्मा अभिमुखीभूताः । ते तस्यैव जनकायस्य मध्ये स्थितेन प्रत्येकबोधिः साक्षात्कृता । यावच् छुद्धावासकायिकैर् देवैस् तस्मै काषायाण्य् उपनामितानि । तानि च प्रावृत्य गगनतलम् उत्पतितः, विचित्राणि च प्रातिहार्याणि कर्तुं प्रवृत्तः, यद्दर्शनाद् राज्ञामात्यनैगमसहायेन महान् प्रसादः प्रतिलब्धो विचित्राणि च कुशलमूलान्य् अवरोपितानि । भगवान् आह: अतश् चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति ॥
भिक्षवो भगवन्तं पप्रच्छुः: कानि भदन्त चन्दनेन प्रत्येकबुद्धेन कर्माणि कृतानि येनास्य शरीरं सुगन्धि तीक्ष्णेन्द्रियश् चेति । भगवान् आह: काश्यपे भगवति प्रव्रजितो बभूव, तत्रानेन केशनखस्तूपे गन्धावसेकः कृतः, पुष्पाणि चावरोपितानि, प्रत्येकबोधौ चानेन मार्गो भावितः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 57 --------------------
अव्श्_22 पद्मः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । आचरितम् एतन् मध्यदेशे यदारामिकाः पद्मान्य् आदाय वीथीं गत्वा विक्रीणते । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्* । अन्यतमा च स्त्री दारकं स्वभुजाभ्याम् आदाय वीथीम् अवतीर्णा । ददर्श च स दारको बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनः प्रसादजातः सहसा बाहुम् अभिप्रसार्य आरामिकसकाशात् पद्मं गृहीत्वा भगवतो मूर्ध्नि प्रक्षिप्तवान्* । ततस् तत् पद्मं शकटशक्रमात्रं (स्पेयेर्: शकटचक्रमात्रं) भूत्वोपरि विहायसि स्थितम्* । भगवन्तं च गच्छन्तम् अनुगच्छति, तिष्ठन्तं तिष्ठति । ततो भगवता पद्मरागसदृशा प्रभा उत्सृष्टा सकला श्रावस्ती अवभासिता, तद्धैतुकं च राजामात्यपौराः आवर्जिताः ॥
ततो भगवता स्मितम् उपदर्शितम्* । धर्मता खलु यस्मिन् समये भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने ।
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति
-------------------- वैद्य, प्. 58 --------------------
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो
वक्त्रान्तरान् निष्कसितः कलापः ।
अवभासिता येन दिशः समन्ताद्
दिवाकरेणोदयता यथैव
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा
बुद्धा जगत्य् उत्तमहेतुभूताः ।
नाकारणं शङ्खमृणालगौरं
स्मितम् उपदर्शयन्ति जिना जितारयः
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या
श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* ।
धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर्
उत्पन्नं व्यपनय संशयं शुभाभिः
नाकास्माल् लवणजलाद्रिराजधैर्याः
संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः ।
यस्यार्थे स्मितम् उपदर्शयन्ति धीराः
तं श्रोतुं समभिलषन्ति ते जनौघाः
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0