भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 17

17.1

इति ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । यन् मया रत्नशैलस्य तथागतस्य पञ्चवार्षिकं कृतम्*, तेन मे संसारे महत्सुखम् अनुभूतम्* । तद्धैतुकश् चेदानीं तथागतस्यैवंविधः सत्कारः । परिनिर्वृतस्य च मे शासने अनेकानि पञ्चवार्षिकशतानि भविष्यति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_17 स्तुतिः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्यां पञ्चमात्राणि गान्धर्विकशतानि गोष्ठिकानां प्रतिवसन्ति । तत्र च काले सुप्रियो नाम गान्धर्विकराजो ऽभ्यागतः । तस्यैवंविधा शक्तिः: एकस्यां तन्त्र्यां साप्त स्वरान् आदर्शयति, एकविंशतिं मूर्च्छिनाः । स षण्महानगराण्य् अपटुकान्य् उद्घोषयमाणः श्रावस्तीम् अनुप्राप्तः । श्रावस्तीनिवासिभिश् च गान्धर्विकै राज्ञे निवेदितम्* । राजाह: अल्पोत्सुका भवन्तु भवन्तः, वयम् अत्र कालज्ञा भविष्याम इति ॥
-------------------- वैद्य, प्. 43 --------------------
अथ सुप्रियस्य गान्धर्विकराजस्यैतद् अभवत्: एवम् अनुश्रूयते राजा प्रसेनजिद् गान्धर्वे ऽतीव कुशलः । यन्व् अहम् अनेन सह वादम् आरोचयेयम् इति । ततः सुप्रियो गान्धर्विकराजो येन राजा प्रसेनजित् कौशलस् तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं कौशलम् इदम् आवोचत्*: श्रुतं मे राजन् यथा त्वं गान्धर्वकुशल इति । यदि ते अगुरु, मीमांसस्वेति । ततो राज्ञा प्रसेनजिता तस्य विक्षेपः कृतः । उक्तश् च: साधो अस्ति मे गुरुर् जेतवने स्थितो ऽनुत्तरो गान्धर्विकराजः । एहि तत् समीपं यास्याम इति । अथ राजा प्रसेनजित् कौशलः पञ्चमात्रैर् गान्धर्विकशतैः परिवृतः सुप्रियेण गान्धर्विकराजेनानेकैश् च प्राणिशतसहस्रैर् जेतवनं गतः ॥
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य <च> बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत्

17.2

ततो भगवान् वैनेयजनानुग्रहार्थं लौकिकं चित्तम् उत्पादितवान्* । अहो बत पञ्चशिखो गन्धर्वपुत्रः सप्तगन्धर्वसहस्रपरिवृतो वैडूर्यदण्डां वीणाम् आदाय मत्सकाशम् उपसंक्रामेद् इति । सहचित्तोत्पादात् पञ्चशिखो गन्धर्वपुत्रः सप्तगन्धर्वसहस्रपरिवृतो भगवन्तं यथावद् अभ्यर्च्य भगवतो वैडूर्यदण्डां वीणाम् उपनयति स्म । ततः सुप्रियो गन्धर्वराजो भगवतः पुरस्ताद् वीणाम् अनुश्रावितुम् आरब्धः । यत एकस्यां तन्त्र्यां सप्त स्वराणि एकविंशतिं मूर्च्छनाश् च दर्शयितुम् आरब्धः, यच् छ्रवणाद् राजा प्रसेनजिद् अन्यतमश् च महाजनकायः परं विस्मयम् आपन्नः । ततो भगवान् अपि वैडूर्यदण्डां वीणाम् आश्रावितवान्*: यत एकैकस्यां तन्त्र्याम् अनेके स्वरविशेषा मूर्च्छनाश् च बहुप्रकारा दर्शिताः, ते च शून्याकारेणैव । इदं च शरीरं वीणावद् आदर्शितवान्*, स्वरान् इन्द्रियवत्, मूर्च्छनाश् चित्तधातुवत्* । यच् छ्रवणाद् आवर्जितः सुप्रियो गन्धर्वराजो वीणां गन्धकुट्यां निर्यात्य भगवत्सकाशे प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया
-------------------- वैद्य, प्. 44 --------------------
पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
तत आवर्जिता देवनागयक्षासुरगरुडकिन्नरमहोरगा भ्हगवच्छासने रक्षावरणगुप्तिं कर्तुम् आरब्धाः । पञ्चानाम् अपि गान्धर्विकशतानां प्रीतिसौमनस्यजातानाम् एतद् अभवत्*: वयं नीचे कर्मणि वर्तामहे कृच्छ्रवृत्तयश् च । यन् नु वयं राजानं विज्ञाप्य भगवन्तं सश्रावकसंघं नगरप्रवेशेनोपनिमन्त्रयेमहीति । यावत् तैर् गान्धर्विकैर् लब्धानुज्ञैर् भगवान् सश्रावकसंघो नगरप्रवेशेनोपनिमन्त्रितः । अधिवासितं च भगवता तेषां गान्धर्विकाणां तूष्णीभावेन । ततस् तैर् गान्धर्विकैर् राजामात्यपौरजानपदसहायैः सर्वा श्रावस्ती नगरी अपगतपाषाणशर्करकठल्ला गन्धोदकपरिषिक्ता नानापुष्पावकीर्णा विचित्रधूपधूपिता पुष्पवितानमण्डिता । ते च गान्धर्विकाः स्वयम् एव वीणाम् आदाय मृदङ्गवेणुपणवादिविशेषैर् उपस्थानं चक्रुः, प्रणीतेन चाहारेण भगवन्तं सश्रावकसंघं संतर्पयामासुः ॥
ततो भगवान् स्मितम् अकार्षीत्* । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने ।
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः

17.3

यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति

17.4

-------------------- वैद्य, प्. 45 --------------------
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो
वक्त्रान्तरान् निष्कसितः कलापः ।
अवभासिता येन दिशः समन्ताद्
दिवाकरेणोदयता यथैव

17.5

गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा
बुद्धा जगत्य् उत्तमहेतुभूताः ।
नाकारणं शङ्खमृणालगौरं
स्मितम् उपदर्शयन्ति जिना जितारयः

17.6

तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या
श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* ।
धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर्
उत्पन्नं व्यपनय संशयं शुभाभिः

17.7

नाकास्माल् लवणजलाद्रिराजधैर्याः
संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः ।
यस्यार्थे स्मितम् उपदर्शयन्ति धीराः
तं श्रोतुं समभिलषन्ति ते जनौघाः

17.1

इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द एभिर् गान्धर्विकैर् ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एते आनन्द गान्धर्विकाः अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यथाकालानुगतां प्रत्येकां बोधिं समुदानीय अनागते ऽध्वनि वर्णस्वरा नाम प्रत्येकबुद्धा भविष्यन्ति हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । अयम् एषां देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥
-------------------- वैद्य, प्. 46 --------------------
भिक्षवः संशयजाताः सर्वसंशयानां छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त भगवता कुशलमूलानि कृतानि येषाम् अयम् अनुभाव इति । भगवान् आह: तथागतेनैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि ।}*
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc