भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 13

13.1

इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यसि त्वम् आनन्द अनेन श्रेष्ठिना तथागतस्य सश्रावकसंघस्यैवंविधं सत्कारं कृतम्*, महाजनकायं च कुशले नियुक्तम्* । एवं भदन्त । एष आनन्द श्रेष्ठी ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य अभयप्रदो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 30 --------------------
द्वितीयो वर्गः ।
तस्योद्दानम्*:
नावा स्तम्भं च स्नात्रं च तथेतिः प्रतिसारकम्* (प्रतिहार्यकम्*) ।
पाञ्चवार्षिकं स्तुतिर् वरदः काशिकं दिव्यभोजनम्* ॥
अव्श्_11 नाविकाः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति नद्या अजिरवत्या अधस्तान् नाविकग्रामे । अथ ते नाविका येन भगवांस् तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते न्यषीदन्* । एकान्तनिषण्णांस् तान् नाविकान् भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* । अथ ते नाविका उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् ऊचुः: अधिवासयतु भगवान् अस्माकं नद्या अजिरवत्यास् तीरे श्वो भक्तेन सार्धं भिक्षुसंघेन । नौसंक्रमेणोत्तारयिष्याम इति । अधिवासयति भगवान् नाविकानां तूष्णीभावेन ॥
अथ नाविका नद्या अजिरवत्यास् तीरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापयामासुर् उच्छ्रितच्छत्रध्वजपताकं नानापुष्पावकीर्णं गन्धघटिकावधूपितम्* । प्रणीतम् आहारं कृतवन्तः । प्रभूतं च पुष्पसंग्रहं कृत्वा नौसंक्रमं पुष्पमण्डपैर् अलंकारयामासुः । भगवतश् च दूतेन कालम् आरोचयामासुः: समयो भदन्त सज्जं भक्तम्*, यस्येदानीं भगवान् कालं मन्यत इति । अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन नाविकग्रामकस् तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत्* । अथ ते नाविकाः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति । अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतराण्य् आसनानि गृहीत्वा भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवांस् तेषां नाविकानाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा अनेकैर् नाविकैः स्रोतआपत्तिफलानि प्राप्तानि, कैश्चित् सकृदागामिफलानि कैश्चिद् अनागामिफलानि, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्*, कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि, कैश्चित् प्रत्येकबोधौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ । सर्वा च सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता । ततस् तैर् नाविकैर् भगवान् महता सत्कारेण नौसंक्रमेणोत्तारितः सार्धं भिक्षुसंघेन ॥
-------------------- वैद्य, प्. 31 --------------------
भिक्षवो बुद्धपूजादर्शनाद् आवर्जितमनसो बुद्धं भगवन्तं पप्रच्छुः: कुत्रेमानि भगवतः कुशलमूलानि कृतानीति । भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि, येन तथागतस्यैवंविधा पूजा । इच्छथ भिक्षवः श्रोतुम्? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि भागीरथो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स द्वाषष्ट्यर्हत्सहस्रपरिवृतो जनपदचारिकां चरन् गङ्गातीरम् अनुप्राप्तः । तस्मिन् समये ऽन्यतरः सार्थवाहो ऽनेकशतपरिवारो नद्यां गङ्गायां सार्थम् उत्तारयति । तस्मिंश् च प्रदेशे महत्तस्करभयम्* । अथ ददर्श सार्थवाहो भागीरथं सम्यक्संबुद्धं द्वाषष्ट्यर्हत्सहस्रपरिवृतम्* । दृष्ट्वा च पुनः चित्तं प्रसादयामास । प्रसन्नचित्तश् च भगवन्तम् आमन्त्रितवान्: तत्प्रथमतरम् एव भगवन्तं तारयिष्यामीति । अधिवासयति भागीरथः सम्यक्संबुद्धः सार्थवाहस्य तूष्णीभावेन । ततस् तेन सार्थवाहेन भागीरथः सम्यक्संबुद्धः द्वाषष्ट्यर्हत्सहस्रपरिवृतो महत्या विभूत्या नौसंक्रमेणोत्तारितः । प्रणीतेन चाहारेण संतर्प्यानुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतम्* ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाहो बभूव, अहं सः । मया स भागीरथः, सम्यक्संबुद्धो द्वाषष्ट्यर्हत्सहस्रपरिवृतो नौसंक्रमेणोत्तारितः, प्रणीतेनाहारेण संतर्पितः, प्रणिधानं च कृतम्* । तस्य मे कर्मणो विपाकेनानन्तसंसारे महत्सुखम् अनुभूतम्* । इदानीम् अप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैवविधा पूजा । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_12 स्तम्भः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कौरव्येषु जनपदचारिकां चरन् कौरव्यं नगरम् अनुप्राप्तः । स च कौरव्यो जनकायो बुद्धवैनेय उदारचितः प्रदानरुचिश् च । ततो भगवत एतद् अभवत्*: यन्व् अहं शक्रं देवेन्द्रं मरुद्गणपरिवृतम् आह्वेयेयम्, यद्दर्शनाद् एषां कुशलमूलविवृद्धिः
-------------------- वैद्य, प्. 32 --------------------
स्याद् इति । ततो भगवांल् लौकिकं चित्तम् उत्पादयति: अहो बत शक्रो देवेन्द्रो मरुद्गणसहायो गोशीर्षचन्दनमयं स्तम्भम् आदाय गच्छेद् इति ॥ सहचित्तोत्पादाच् छक्रो देवेन्द्रो मरुद्गणपरिवृतो आगतो यत्र विश्वकर्मा चत्वारश् च महाराजा अनेकदेवनागयक्षकुम्भाण्डपरिवृतो गोशीर्षचन्दनस्तम्भम् आदाय । हाहाकारकिलकिलाप्रक्ष्वेडोच्चैर् नादं कुर्वाणा भगवतो ऽर्थे गोशीर्षचन्दनमयं प्रासादम् अभिसंस्कृतवन्तः । ततस् तस्मिन् प्रासादे शक्रेण देवेन्द्रेण भगवान् सश्रावकसंघो दिव्येनाहारेण दिव्येन शयनासनेन दिव्यैर् गन्धमाल्यपुष्पैः सत्कृतो गुरुकृतो मानितः पूजितः ॥
अथ कौरव्यो जनकायस् तां दिव्यां विभूषिकां दृष्ट्वा परं विस्मयम् आपन्न इमां चिन्ताम् आपेदे: नूनं बुद्धो भगवांल् लोके ऽग्र्यः । यत् तु नाम सेन्द्रैर् देवैः पूज्यत इति आवर्जितमना भगवन्तम् उपसंक्रान्तः । भगवतः पादाभिवन्दनं कृत्वैकान्ते न्यषीदत्* । एकान्तनिषण्णः कौरव्यो जनकायस् तस्मिन् प्रासादे ऽत्यर्थं प्रसादम् उत्पादयति ॥
तेन भगवांस् तत् प्रासादम् अन्तर्धाप्य अनित्यताप्रतिसंयुक्तां तादृशीं धर्मदेशनां कृतवान्*, यां श्रुत्वा अनेकैः कौरव्यनिवासिभिर् मनुष्यैः स्रोतआपत्तिफलान्य् अनुप्राप्तानि, कैश्चित् सकृदागामिफलानि कैश्चिद् अनागामिफलानि, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्*, कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि, कैश्चित् प्रत्येकायां बोधौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ । सर्वा च सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता ।
ततस् ते भिक्षवो भगवतो दिव्यपूजादर्शनाद् आवर्जितमनसो बुद्धं भगवन्तं पप्रच्छुः: कुत्रेमानि भगवता कुशलमूलानि कृतानीति । भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि, येन तथागतस्यैवंविधा पूजा । इच्छथ भिक्षवः श्रोतुम्? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि ब्रह्मा नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । अथ ब्रह्मा सम्यक्संबुद्धो द्वाषष्ट्यर्हत्सहस्रपरिवृतो जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियो मूर्धाभिषिक्तः: ब्रह्मा सम्यक्संबुद्धो द्वाषष्ट्यर्हत्सहस्रपरिवृतो जनपदचारिकां चरन्न् अस्माकं विजितम् अनुप्राप्त इति । श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन येन भगवान् ब्रह्मा सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य ब्रह्मणः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्* । एकान्तनिषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तं भगवान् बोधिकरकैर् धर्मैः समादापयति । अथ स लब्धप्रसाद उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्*: अधिवासयतु
-------------------- वैद्य, प्. 33 --------------------
मे भगवान् अस्यां राजधान्यां त्रैमास्यवासाय । अहं भगवन्तं सश्रावकसंघम् उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति । अधिवासयति ब्रह्मा सम्यक्संबुद्धो राज्ञस् तूष्णीभावेन । अथ स राजा मूर्धाभिषिक्तो भगवतो ऽर्थे गोशीर्षचन्दनमयं प्रासादं कारयामास । स तं विचित्रैर् वस्त्रालंकारैर् अलंकृतं नानापुष्पावकीर्णं गन्धघटिकाधूपितं भगवतः सश्रावकसंघस्य निर्यात्य त्रैमास्यं प्रणीतेनाहारेण संतर्प्य विविधैर् वस्त्रविशेषैर् आच्छाद्यानुत्तरायां सम्यक्संबोधौ प्रणिधिं चकार ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा क्षत्रियो मूर्धाभिषिक्तो बभूव, अहं सः । यन् मया ब्रह्मणः सम्यक्संबुद्धस्यैवंविधा पूजा कृता, तस्य मे कर्मणो विपाकेनानन्तसंसारे महत्सुखम् अनुभूतम्* । इदानीम् अप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैवविधा पूजा । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_13 स्नात्रम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्यां पञ्चमात्राणि वणिक्शतानि कान्तारमार्गप्रतिपन्नानि । ते मार्गात् परिभ्रष्टा वालुकास्थलम् अनुप्राप्ताः । ते धर्मश्रमपरिपीडिताः क्षीणपथ्यादनाश् च मध्याह्नसमये तीक्ष्णकररश्मिसंतापिता जलोद्धृता इव मत्स्याः पृथिव्याम् आवर्तन्ते दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाः । तानि देवतासहस्राण्य् आयाचन्ते: तद्यथा शिववरुणकुबेरवासवादीनि । न चैनान् कश्चित् परित्रातुं समर्थः ॥
तत्र चान्यतर उपासको बुद्धशासनाभिज्ञः । स तान् वणिज आह: भवन्तो बुद्धं शरणं गच्छन्त्व् इति । तत एकरवेण सर्व एव बुद्धं शरणं गताः ॥

अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां
-------------------- वैद्य, प्. 34 --------------------
नवानुपूर्व{विहार}समापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य <च> बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत्
यावत् पश्यति भगवान् संबहुलान् वणिजो व्यसनसंकटसंबाधप्राप्तान्* । ततश् चक्षुःसंप्रेषणमात्रेण जेतवने ऽन्तर्हितो भिक्षुगणपरिवृतस् तं प्रदेशम् अनुप्राप्तः । ददृशुस् ते वणिजो भगवतं सभिक्षुसंघम्* । दृष्ट्वा च उच्चैर् नादं मुक्तवन्तः । ततो भगवता लौकिकं चित्तम् उत्पादितम्*: अहो बत शक्रो देवेन्द्रो माहेन्द्रं वर्षम् उत्सृजतु, शीतलाश् च वायवो वान्त्व् इति । सहचित्तोत्पादाद् भगवतः शक्रेण माहेन्द्रं वर्षम् उत्सृष्टम्*, शीतलाश् च वायवः प्रेषिताः, यतस् तेषां वणिजां तृषा विगता, दाहश् च प्रशान्तः । ततस् तैर् वणिग्भिः संज्ञा प्रतिलब्धा । भगवता चैषां मार्ग आख्यातो येन श्रावस्तीम् अनुप्राप्ताः ॥
ते मार्गश्रमं प्रतिविनोद्य ततो भगवत्सकाशम् उपसंक्रान्ताः । तेषां भगवता तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा कैश्चित् स्रोतआपत्तिफलम् अधिगतम्*, कैश्चित् सकृदागामिफलम्*, कैश्चिद् अनागामिफलम्*, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्*, कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि, कैश्चित् प्रत्येकायां बोधौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ । यद्भूयसा च सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भगवान्*, यावद् इमे वणिजो भगवता कान्तारमार्गात् परित्राताः । सहचित्तोत्पादाच् च माहेन्द्रवर्षं वृष्टम्* । शीतलाश् च वायवः प्रवाता इति । भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc