ग्रंथ पाठ
अथर्ववेद · अध्याय 6.80
6.80.1
अन्तरिक्षेण पतति विश्वा भूतावचाकशत्।
शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम
6.80.2
ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः ।
तान्त्सर्वान् अह्व ऊतयेऽस्मा अरिष्टतातये
6.80.3
अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम् ।
शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0