ग्रंथ पाठ
अथर्ववेद · अध्याय 6.79
6.79.1
अयं नो नभसस्पतिः संस्फानो अभि रक्षतु ।
असमातिं गृहेषु नः
6.79.2
त्वं नो नभसस्पते ऊर्जं गृहेसु धारय ।
आ पुष्टमेत्वा वसु
6.79.3
देव संस्फान सहस्रापोषस्येशिषे ।
तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवांसः स्याम
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0