भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.60

6.60.1

अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः ।
अस्या इच्छन्न् अग्रुवै पतिमुत जायामजानये

6.60.2

अश्रमदियमर्यमन्न् अन्यासां समनं यती ।
अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति

6.60.3

धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् ।
धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम्

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc