ग्रंथ पाठ
अथर्ववेद · अध्याय 6.59
6.59.1
अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति ।
अधेनवे वयसे शर्म यच्छ चतुष्पदे
6.59.2
शर्म यच्छत्वोषधिः सह देवीररुन्धती ।
करत्पयस्वन्तं गोष्ठमयक्ष्मामुत पूरुषान्
6.59.3
विश्वरूपां सुभगामच्छावदामि जीवलाम् ।
सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0