ग्रंथ पाठ
अथर्ववेद · अध्याय 6.56
6.56.2
मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान् ।
संयतं न वि ष्परद्व्यात्तं न सं यमन् नमो देवजनेभ्यः ।
नमोऽस्त्वसिताय नमस्तिरश्चिराजये ।
स्वजाय बभ्रवे नमो नमो देवजनेभ्यः
6.56.3
सं ते हन्मि दता दतः समु ते हन्वा हनू ।
सं ते जिह्वया जिह्वां सं वास्नाह आस्यम्
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0