भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.55

6.55.1

ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे

6.55.2

ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात ।
आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम

6.55.3

इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः ।
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौ मनसे स्याम

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc