भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.5

6.5.1

उदेनमुत्तरं नयाग्ने घृतेनाहुत ।
समेनं वर्चसा सृज प्रजया च बहुं कृधि

6.5.2

इन्द्रेमं प्रतरं कृधि सजातानामसद्वशी ।
रायस्पोषेण सं सृज जीवातवे जरसे नय

6.5.3

यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम् ।
तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc