भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.4

6.4.1

त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः ।
पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः

6.4.2

अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः ।
अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम्

6.4.3

धिये समश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुच्छन् ।
द्यौष्पितर्यावय दुच्छुना या

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc