ग्रंथ पाठ
अथर्ववेद · अध्याय 6.15
6.15.1
उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः ।
उपस्तिरस्तु सोऽस्माकं यो अस्मामभिदासति
6.15.2
सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति ।
तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः
6.15.3
यथा सोम ओषधीनामुत्तमो हविषां कृतः ।
तलाशा वृक्षाणामिवाहं भूयासमुत्तमः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0