भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.14

6.14.1

अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम् ।
बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु

6.14.2

निर्बलासं बलासिनः क्षिणोमि मुष्करं यथा ।
छिनद्म्यस्य बन्धनं मूलमुर्वार्वा इव

6.14.3

निर्बलासेतः प्र पताशुङ्गः शिशुको यथा ।
अथो इत इव हायनोऽप द्राह्यवीरहा

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc