भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 4.29

4.29.1

मन्वे वां मित्रावरुणावृतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे ।
प्र सत्यावानमवथो भरेषु तौ नो मुञ्चतमंहसः

4.29.2

सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानमवथो भरेषु ।
यौ गच्छथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतमंहसः

4.29.3

यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम् ।
यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः

4.29.4

यौ श्यावाश्वमवथो वाध्र्यश्वं मित्रावरुणा पुरुमीढमत्त्रिम् ।
यौ विमदमवथो सप्तवध्रिं तौ नो मुञ्चतमंहसः

4.29.5

यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम् ।
यौ कक्षीवन्तमवथो प्रोत कण्वं तौ नो मुञ्चतमंहसः

4.29.6

यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ ।
यौ गोतममवथो प्रोत मुग्दलं तौ नो मुञ्चतमंहसः

4.29.7

ययो रथः सत्यवर्त्म र्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् ।
स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc