अथर्ववेद · अध्याय 4.28
भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते ।
यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
ययोरभ्यभ्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
सहस्राक्षौ वृत्रहना हुवेहं दूरेगव्यूती स्तुवन्न् एम्युग्रौ ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
यावारेभाथे बहु साकमग्रे प्र चेदस्राष्ट्रमभिभां जनेषु ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
ययोर्वधान् नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
यः कृत्याकृन् मूलकृद्यातुधानो नि तस्मिन् धत्तं वज्रमुग्रौ ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः
अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी ।
स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0