भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 3.9

3.9.1

कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता ।
यथाभिचक्र देवास्तथाप कृणुता पुनः

3.9.2

अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् ।
कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव

3.9.3

पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः ।
श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः

3.9.4

येना श्रवस्यवश्चरथ देवा इवासुरमायया ।
शुनां कपिरिव दूषणो बन्धुरा काबवस्य च

3.9.5

दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् ।
उदाशवो रथा इव शपथेभिः सरिष्यथ

3.9.6

एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु ।
तेषां त्वामग्रे उज्जहरुर्मणिं विष्कन्धदूषणम्

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc