भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.70

20.70.1

वीलु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
अविन्द उस्रिया अनु

20.70.2

देवयन्तो यथा मतिमछा विदद्वसुं गिरः ।
महामनूषत श्रुतम्

20.70.3

इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
मन्दू समानवर्चसा

20.70.4

अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
गणैरिन्द्रस्य काम्यैः

20.70.5

अतः परिज्मन्न् आ गहि दिवो वा रोचनादधि ।
समस्मिन्न् ऋञ्जते गिरः

20.70.6

इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
इन्द्रं महो वा रजसः

20.70.7

इन्द्रमिद्गथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत

20.70.8

इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः

20.70.9

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
वि गोभिरिन्द्रमैरयत्

20.70.10

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिरूतिभिः

20.70.11

इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
युजं वृत्रेषु वज्रिणम्

20.70.12

स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि ।
अस्मभ्यमप्रतिष्कुतः

20.70.13

तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
न विन्धे अस्य सुष्टुतिम्

20.70.14

वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
ईशानो अप्रतिष्कुतः

20.70.15

य एकश्चर्षणीनां वसूनामिरज्यति ।
इन्द्रः पञ्च क्षितीनाम्

20.70.16

इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः

20.70.17

एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
वर्षिष्ठमूतये भर

20.70.18

नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
त्वोतासो न्यर्वता

20.70.19

इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि ।
जयेम सं युधि स्पृधः

20.70.20

वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
सासह्याम पृतन्यतः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc