ग्रंथ पाठ
अथर्ववेद · अध्याय 20.66
20.66.1
स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।
अर्यो गयं मंहमानं वि दाशुषे
20.66.2
एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।
सुविद्वांसं चर्कृत्यं चरणीनाम्
20.66.3
वेत्था हि निरृतीनां वज्रहस्त परिवृजम् ।
अहरहः शुन्ध्युः परिपदामिव
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0