ग्रंथ पाठ
अथर्ववेद · अध्याय 20.65
20.65.1
एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।
कुष्टीर्यो विश्वा अभ्यस्त्येक इत्
20.65.2
अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
घृतात्स्वादीयो मधुनश्च वोचत
20.65.3
यस्यामितानि वीर्या न राधः पर्येतवे ।
ज्योतिर्न विश्वमभ्यस्ति दक्षिणा
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0