ग्रंथ पाठ
अथर्ववेद · अध्याय 20.18
20.18.1
वयमु त्वा तदितर्था इन्द्र त्वायन्तः सखायः ।
कण्वा उक्थेभिर्जरन्ते
20.18.2
न घेमन्यदा पपन वज्रिन्न् अपसो नविष्टौ ।
तवेदु स्तोमं चिकेत
20.18.3
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
यन्ति प्रमादमतन्द्राः
20.18.4
वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् ।
विद्धि त्वस्य नो वसो
20.18.5
मा नो निदे च वक्तवेऽर्यो रन्धीरराव्ने ।
त्वे अपि क्रतुर्मम
20.18.6
त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् ।
त्वया प्रति ब्रुवे युजा
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0