भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.141

20.141.1

यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस्तनूपा ।
वर्तिस्तोकाय तनयाय यातम्

20.141.2

यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।
यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः

20.141.3

यदद्याश्विनावहं हुवेय वाजसातये ।
यत्पृत्सु तुर्वणे सनस्तच्छ्रेष्ठमश्विनोरवः

20.141.4

आ नूनं यातमश्विनेमा हव्यानि वां हिता ।
इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ

20.141.5

यन् नासत्या पराके अर्वाके अस्ति भेषजम् ।
तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम्

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc